Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 361
________________ दिङ्गागप्रणीता पोहवाद निरासः ] द्वादशारं नयचक्रम् | यत्तूच्यते - अतुल्ये सत्यप्यानन्त्ये शक्यमदर्शनमात्रेणावृत्तेराख्यानम् । अत एव स्वसम्बन्धिभ्यो ऽन्यत्रादर्शनात् तद्व्यवच्छेदेनानुमानम् [ प्र० समु० वृ० ५ ३४ ] इति । अत्र ब्रूमः –न, द्विधरूपेण नै वेल्लिङ्गं प्रकाशयेत् । सर्वत्रादर्शनान्न स्यात् सर्वथा वाऽगतिर्भवेत् ॥ लिङ्गमपदेशः कारणं निमित्तम् [ इत्यनर्थान्तरम् ] भेदाविवक्षैकत्वापादितैकत्वं सामान्यं लिङ्गं तथाभावितैकत्वस्य लिङ्गिनो गमकं तद्भावेनैव । एवं लिङ्गं गमकं लिङ्गी गम्यश्चेत्यदोषः । अत्र परिहारस्त्वयोक्त आशय ते यत्तूच्यत इत्यादि । अन्वयगतदोषाभावं व्यतिरेकगतं गुणं च दर्शयति ग्रन्थः - - अतुल्ये सत्यप्यानन्त्ये इत्यादि । ततोऽन्यस्याभावमात्रं सामान्यतो व्यतिरेचनीयं तद्भेदरूपाणि असंस्पृशता शब्देन लिङ्गेन वा । तस्माददोष इति परिहारः । ७०७ अत्र ब्रूमः - न, दृष्टवदित्यादि । यदि दृष्टवद् विधिरूपेण लिङ्गं लिङ्गिनं न प्रकाशयेत् सर्वत्र लिङ्गिन्यदर्शनात् तल्लिङ्गं लिङ्गमेव न स्यात्, अगतिर्वा सर्वथा भवेत् कस्यचिदप्यर्थस्येति पिण्डार्थः । एतद्व्याख्या-लिङ्गमपदेशः कारणं निमित्तमित्यादि पर्यायकथनम् । शब्दः परार्थः, धूमादिः स्वार्थः । वाच्यवाचकसम्बन्धस्यानुमानानुमेयसम्बन्धस्य चाविशिष्टत्वादैकध्येन द्विविधस्याप्यनुमानस्य ग्रहणम् । तत्र विशेषस्यैव वाच्यत्वादनुमेयत्वाच्चार्थस्य सामान्यस्यासत्वादसत्योपाधिसत्यशब्दार्थत्वं त्वयो- 15 क्तत्वात्, अस्माभिर्यथा अर्थशब्द विशेषस्य वाच्यवाचकतेष्यते सामान्यस्यासत्त्वाद् विशेषस्यैव सत्त्वात् *, न भावो वाच्यः खपुष्पवत् । तस्य सामान्यस्यासत्त्वादेव पूर्वमदृष्टत्वे विशेषस्यैव दृष्टस्य कल्पितासत्य- ४६०-२ सामान्योपसर्जनद्वारेण वाच्यत्वाच्छन्दस्यापि तथैव वाचकत्वात् सामान्योपसर्जनोपायेन । तथानुमानेऽपि विधिः । १ तुलना- पृ० ६५२ पं० ३ ॥ २ दृष्टवद् विधिरूपेण यदि लिङ्गं प्रकाशयेत् । सर्वथाऽप्रतिपत्तिः स्यात् सर्वथा वा गतिर्भवेत् ॥ [ प्र० समु० ३।१४ ] इति दिङ्गागमतनिराकरणायेयं कारिका । पृ० ४७१ - १ इत्यत्र वक्ष्यमाणं टिप्पणमप्यत्र द्रष्टव्यम् ॥ ३ ( चेलि न ? ) (लिङ्गं चेन्न ? ) ॥ ४ (प्रकाशकम् ? ) ॥ ५ 'सर्वस्यादर्शनान्न स्यात्' इत्यपि भवेत् पाठः, दृश्यतां पृ० ७०८ पं० १४ । ( ततः प्रकाशकं न स्यात् ? ) ( लिङ्गं न लिङ्गमेव स्यात् ? ) ( ततो न लिङ्गमेव स्यात् ? ) ॥ ६ ‘सर्वथा वा गतिर्भवेत्' इत्यपि पाठः । दृश्यतां पृ० ७१७ पं० ६४७१-२ ॥ ७ तुलना“हेतुरपदेशो लिङ्गं निमित्तं प्रमाणं कारणमित्यनर्थान्तरम्" - वै० सू० ९।२० ॥ ८ व्यतिरेवचनीयं प्र० । ( ततोऽन्यत्राभावमात्रं सामान्यतो व्यतिरेके वचनीयं ? ) ॥ ९ स्पृता भा० । स्मृता य० ॥ १० धूमादि प्र० । ११** एतचिहान्तर्गतो 'दसत्यो' इत्यत आरभ्य सत्त्वात् इत्यन्तः पाठो य० प्रतौ नास्ति । १२ दृश्यतां पृ० ६१६ पं० ३ ॥ १३ तत्वाल्लिंगं प्र० । ( तस्मा लिङ्गं ?) ( तल्लिङ्गं ? ) ( तथा लिङ्गं ? ) | १४ एकत्वादापितं भा० । एकत्वापितं य० । 'एकत्वापादितम्' इत्यपि पाठः स्यात् ॥ Jain Education International 5 तत्त्वाल्लिङ्गं शब्दो धूमादि वा कथं गमकं भवति ? उच्यते - भेदानामविवक्षया सामान्यस्य एक- 20 त्वादापादितं तेषामेकत्वं भेदानां यस्मिंस्तल्लिङ्गं भेदाविवक्षापादितैकत्वं सामान्यं लिङ्गं तद्भावापन्नो धर्मो धूम-शब्दादिः, तथाभावितैकत्वस्य तेन शब्द-धूमादिप्रकारेण भावितमेकत्वं शाखादिभिन्नावयववतस्तरो For Private & Personal Use Only 10 www.jainelibrary.org

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403