________________
दिङ्गागप्रणीता पोहवाद निरासः ]
द्वादशारं नयचक्रम् |
यत्तूच्यते - अतुल्ये सत्यप्यानन्त्ये शक्यमदर्शनमात्रेणावृत्तेराख्यानम् । अत एव स्वसम्बन्धिभ्यो ऽन्यत्रादर्शनात् तद्व्यवच्छेदेनानुमानम् [ प्र० समु० वृ० ५ ३४ ] इति । अत्र ब्रूमः –न, द्विधरूपेण नै वेल्लिङ्गं प्रकाशयेत् । सर्वत्रादर्शनान्न स्यात् सर्वथा वाऽगतिर्भवेत् ॥ लिङ्गमपदेशः कारणं निमित्तम् [ इत्यनर्थान्तरम् ] भेदाविवक्षैकत्वापादितैकत्वं सामान्यं लिङ्गं तथाभावितैकत्वस्य लिङ्गिनो गमकं तद्भावेनैव । एवं लिङ्गं गमकं लिङ्गी गम्यश्चेत्यदोषः ।
अत्र परिहारस्त्वयोक्त आशय ते यत्तूच्यत इत्यादि । अन्वयगतदोषाभावं व्यतिरेकगतं गुणं च दर्शयति ग्रन्थः - - अतुल्ये सत्यप्यानन्त्ये इत्यादि । ततोऽन्यस्याभावमात्रं सामान्यतो व्यतिरेचनीयं तद्भेदरूपाणि असंस्पृशता शब्देन लिङ्गेन वा । तस्माददोष इति परिहारः ।
७०७
अत्र ब्रूमः - न, दृष्टवदित्यादि । यदि दृष्टवद् विधिरूपेण लिङ्गं लिङ्गिनं न प्रकाशयेत् सर्वत्र लिङ्गिन्यदर्शनात् तल्लिङ्गं लिङ्गमेव न स्यात्, अगतिर्वा सर्वथा भवेत् कस्यचिदप्यर्थस्येति पिण्डार्थः ।
एतद्व्याख्या-लिङ्गमपदेशः कारणं निमित्तमित्यादि पर्यायकथनम् । शब्दः परार्थः, धूमादिः स्वार्थः । वाच्यवाचकसम्बन्धस्यानुमानानुमेयसम्बन्धस्य चाविशिष्टत्वादैकध्येन द्विविधस्याप्यनुमानस्य ग्रहणम् । तत्र विशेषस्यैव वाच्यत्वादनुमेयत्वाच्चार्थस्य सामान्यस्यासत्वादसत्योपाधिसत्यशब्दार्थत्वं त्वयो- 15 क्तत्वात्, अस्माभिर्यथा अर्थशब्द विशेषस्य वाच्यवाचकतेष्यते सामान्यस्यासत्त्वाद् विशेषस्यैव सत्त्वात् *, न भावो वाच्यः खपुष्पवत् । तस्य सामान्यस्यासत्त्वादेव पूर्वमदृष्टत्वे विशेषस्यैव दृष्टस्य कल्पितासत्य- ४६०-२ सामान्योपसर्जनद्वारेण वाच्यत्वाच्छन्दस्यापि तथैव वाचकत्वात् सामान्योपसर्जनोपायेन । तथानुमानेऽपि विधिः ।
१ तुलना- पृ० ६५२ पं० ३ ॥ २ दृष्टवद् विधिरूपेण यदि लिङ्गं प्रकाशयेत् । सर्वथाऽप्रतिपत्तिः स्यात् सर्वथा वा गतिर्भवेत् ॥ [ प्र० समु० ३।१४ ] इति दिङ्गागमतनिराकरणायेयं कारिका । पृ० ४७१ - १ इत्यत्र वक्ष्यमाणं टिप्पणमप्यत्र द्रष्टव्यम् ॥ ३ ( चेलि न ? ) (लिङ्गं चेन्न ? ) ॥ ४ (प्रकाशकम् ? ) ॥ ५ 'सर्वस्यादर्शनान्न स्यात्' इत्यपि भवेत् पाठः, दृश्यतां पृ० ७०८ पं० १४ । ( ततः प्रकाशकं न स्यात् ? ) ( लिङ्गं न लिङ्गमेव स्यात् ? ) ( ततो न लिङ्गमेव स्यात् ? ) ॥ ६ ‘सर्वथा वा गतिर्भवेत्' इत्यपि पाठः । दृश्यतां पृ० ७१७ पं० ६४७१-२ ॥ ७ तुलना“हेतुरपदेशो लिङ्गं निमित्तं प्रमाणं कारणमित्यनर्थान्तरम्" - वै० सू० ९।२० ॥ ८ व्यतिरेवचनीयं प्र० । ( ततोऽन्यत्राभावमात्रं सामान्यतो व्यतिरेके वचनीयं ? ) ॥ ९ स्पृता भा० । स्मृता य० ॥ १० धूमादि प्र० । ११** एतचिहान्तर्गतो 'दसत्यो' इत्यत आरभ्य सत्त्वात् इत्यन्तः पाठो य० प्रतौ नास्ति । १२ दृश्यतां पृ० ६१६ पं० ३ ॥ १३ तत्वाल्लिंगं प्र० । ( तस्मा लिङ्गं ?) ( तल्लिङ्गं ? ) ( तथा लिङ्गं ? ) | १४ एकत्वादापितं भा० । एकत्वापितं य० । 'एकत्वापादितम्' इत्यपि पाठः स्यात् ॥
Jain Education International
5
तत्त्वाल्लिङ्गं शब्दो धूमादि वा कथं गमकं भवति ? उच्यते - भेदानामविवक्षया सामान्यस्य एक- 20 त्वादापादितं तेषामेकत्वं भेदानां यस्मिंस्तल्लिङ्गं भेदाविवक्षापादितैकत्वं सामान्यं लिङ्गं तद्भावापन्नो धर्मो धूम-शब्दादिः, तथाभावितैकत्वस्य तेन शब्द-धूमादिप्रकारेण भावितमेकत्वं शाखादिभिन्नावयववतस्तरो
For Private & Personal Use Only
10
www.jainelibrary.org