________________
७०६
न्यायागमानुसारिणीवृत्त्यलङ्कतं
[अष्टम उभयनियमारे - तावद् द्वयमप्युक्तम्-अनुमानमभिधानं चाधाराधेयवद्वृत्त्या न गमयति, अत्र च पक्षे कांश्चिद दोषानत्यदिशाम । संयोगिवद् विधिवृत्त्या गमयति, अत्र च पक्षे गुणानभ्यधाम ।
__ यत् पुनर्निरुक्तीकृत्यान्वयासम्भवं व्यतिरेकासम्भवमाशङ्कयोक्तं स्यादेतद् 5व्यतिरेकस्याप्यसम्भवः [ ] इति, तद् युक्तमेवोक्तम्, अन्वयव्यतिरेकयोर
भावात् । अन्वयव्यतिरेको हि प्रत्ययात्मको, न वस्तुगते तुल्यातुल्ययोवृत्त्यवृत्ती, विशेषस्यैव वस्तुत्वादस्य नयस्य । तत्रान्वयाभाव उक्त एव त्वया । न च सम्भवोऽस्ति सर्वावृक्षार्थव्यतिरेकस्य, आनन्त्यात्, सर्ववृक्षार्थान्वयवत् ।
तावदित्यादिरुक्तार्थोपसंहारः । द्वयमप्युक्तम् , अन्यापोहविशिष्टार्थैकदेशान्वयदर्शनादनुमानमभिधानं 10 चाधाराधेयवद्वृत्त्या न गमयतीत्युक्तम् , अत्र च पक्षे कांश्चिदोषानत्यदिशाम अदीदृशाम, पाठान्तरं
संयोगिवद् विधिवृत्त्या उभयतो व्याप्त्या गर्मैयतीत्युक्तिम् , अत्र च पक्षे गुणानभ्यधामेत्येवं शब्देन स्मारयति ।
किश्चान्यत् , यत् पुनर्निरुक्तीकृत्येत्यादि । त्वया 'अन्वयव्यतिरेकावानुमाने द्वारम् [ ] इत्युक्त्वा गुणसमुदाये डित्थाख्येऽर्थे काण-कुण्टाद्यवयवान्वयानभिधानादन्वयासम्भवं निरुक्तीकृत्य अन्वया15 सम्भववद् व्यतिरेकासम्भवमाशङ्कयोक्तं स्यादेतद् व्यतिरेकस्याप्यसम्भव इति, तद् युक्तमेव त्वयोक्तम् , अस्मदुक्तसंयोगिव द्विधिवृत्तिमन्तरेणान्वयव्यतिरेकयोरभावात् । तयोरेव तावद् लक्षणम् – अन्वयव्यतिरेको हि प्रत्ययात्मकौ, समानभवनानुवृत्तिप्रत्ययोऽन्वयः, तद्विपरीतो व्यतिरेकः, न वस्तुगते तुल्यातुल्ययोवृत्त्यवृत्ती त्वदुक्ते । कस्मात् ? विशेषस्यैव वस्तुत्वादस्य नयस्य स्याद्वादेऽनेकात्मकत्वात् । तत्रान्वया.
भाव उक्त एव त्वयाऽस्माभिश्च त्वन्मतवत् । ४६०.१ व्यतिरेकाभावोऽधुनोच्यते न च सम्भवोऽस्तीत्यादि । वृक्षशब्दस्य शक्तिर्नास्ति सर्वानवृक्षान्
व्यतिरेचयितुम् । कस्मात् ? आनन्त्यात् , आनन्त्ये हि भेदानाम् [प्र० समु० वृ० ५।२ ] इत्यादिग्रन्थव्याख्यानन्यायवदवृक्षार्थानां घटपटादीनामानन्त्याद् व्यतिरेचनाभावे न्यायो द्रष्टव्यः । सर्ववृक्षार्थान्वयवदिति दृष्टान्तः, यथा सर्वे वृक्षार्थी आनन्त्यात् सम्बन्धाशक्यत्वादन्वयाभावाच्चानभिधेयास्तथा बहुतरव्यावर्त्यघटपटाद्यनन्ततरत्वादव्यतिरेकः, तथा धूमस्य उदकादिसर्वानग्निव्यतिरेचने सामर्थ्याभावो 25 वाच्यः सर्ववृक्षानन्त्यादन्वयवदिति ।
१°त्यादिभक्त्यर्थो भा० । त्यादिभक्त्यार्थी य० ॥ २ पृ० ६८१॥ ३ षानतिदिशाम यदीदृशान पाठान्तरं य० । षानतिदिशा यदीदृशान पाठान्तरं भा०। (°षानतिदिश्यादीदृशाम, पाठान्तरं ?)। षानत्यदिशाम, 'अदीदृशाम' पाठान्तरम् । संयोगिवद्......' इत्यपि योजना समीचीना। ४गमयतीत्युत्र च पक्षे भा० । गमयतीत्यत्र च पक्षे य० । य० प्रतिपाठोऽप्यत्र संगच्छत इति ध्येयम् ॥ ५ तुलना-पृ० ६५२ पं० २॥ ६ तुलना पृ० ६५२ पं० १६ ॥ ७युक्तमेत त्वयोक्तम् अस्मादुक्त° प्र०॥ ८ (तयोरेवं?)॥ ९ वृक्षान् भा० ॥ १० दृश्यतां पृ० ६०७ पं० १४ पृ. ६२७ पं० ६ ॥
.
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org