________________
७०८
[ अष्टम उभयनियमारे
यदि तु न तथा प्रकाशयतीतीष्टं किन्त्वन्यापोहेन ततो नैव प्रकाशकं स्यात् सर्वस्यादर्शनात् प्रतिद्रव्यमपोह्यस्यादर्शनात् ।
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
"
न हि स वा भवति ततोऽन्यो वा अदृष्टत्वात् वन्ध्यापुत्रवत् । न च तदतुल्यमतच्छन्दमतद्रूपं तथा तथाऽदृष्टं प्रतिपत्तुं शक्यम् । अप्रतिपन्ने च तस्मिन् कस्य कथं वापोहः स्यात् ?
अपितृत्ववत् स्यादिति चेत् । यथा 'पितुरन्योऽपिता सर्वो व्यावृत्तिबुद्धिमात्रेण
स्तापादिभिन्नं कर्मवतश्चाग्नेर्लिङ्गिनश्च, वाच्यलिङ्ग्यभेदात् प्रागुक्तन्यायेन आत्मनैवात्मनो वाचका आत्मनैवात्मनोऽनुमेयाः, तद्भावदर्शनादेव सामान्यस्य विशेषप्रतिपादनार्थस्याच्छिबिका वाहकयानेश्वरयानवद् गमकं तद्भावेनैव, अग्नेरेव धूमत्वात् बद्धमूलादिविशिष्टतया धूमस्यैवाग्नित्वादादिमध्यान्तेषु अरण्यादीन्धनसन्धु10 क्षणमुर्मुराद्यवस्थधूमादिपुद्गलाग्नित्वात् । एवमुक्तन्यायेन लिङ्गं गमकं लिङ्गी गम्यश्चेत्यदोष इत्यतीतं न्यायं स्मारयति ।
यदि तु न तथेत्यादि परमते दोष: । यदि येन प्रकारेण दृष्टस्तेनैव प्रकारेण लिङ्गं दृष्टं तेनैव च प्रकारेण विधिना प्रकाशयतीतीष्टं न त्वया तु किमिष्टम् ? अन्यापोहेनेति । ततः किम् ? ततो नैव प्रकाशकं स्यात् । कस्मात् ? सर्वस्यादर्शनात्, यथा विधेयमदृष्टं त्वन्मतेन तथा व्यावर्त्यमपि
15
४६१-१ दृष्टमवृक्षानन्याख्यम्, घटपटादिभेदानामानन्त्याद् द्रव्यं द्रव्यं प्रति प्रतिद्रव्यमपोह्यस्यादर्शनात् किं तद् वृक्षादर्थादन्यदवृक्षानम्याख्यम् ? अदृष्टमेव भवेत् । यतश्च बुद्धेर्व्यावृत्तिरिष्टा, न दृष्ट्वार्थम् 'अयं भवति, अयं न भवति' इत्यन्वयव्यतिरेकौ भवितुमर्हतो बुद्धेः, दृष्टानेव बुद्धिरन्वियादर्थान् तेभ्य एव च व्यावर्तेत, यथा 'देवदत्तोऽयं यज्ञदत्तो न' इत्यादि, नात्यन्तादृष्टख पुष्पवन्ध्यापुत्रादिविषया ।
एतदर्थप्रदर्शनार्थमाह-न हि स वृक्षोऽग्निर्वा भवति ततोऽन्यो वा घटादिः, अदृष्टत्वात्, 20 वन्ध्यापुत्रवत् । दृष्ट ऍव स वा भवति अन्यो वा ततः । न च तेन दृष्टेनाऽतुल्यमतच्छब्दम्, न स वृक्षशब्दोऽग्निशब्दो वा शब्दोऽस्य तदिदमतच्छब्दमवृक्षोऽनन्यादि वा । तथा न तस्य रूपं रूपमस्यातद्रूपम् । किं कारणम् ? यस्मात् तथा तथा तेन तेन प्रकारेणाऽदृष्टं घटपटकुड्यादिभेदप्रकारेणादृष्टत्वात् प्रतिपत्तुमशक्यम् । ततश्चाऽप्रतिपन्ने चेत्यादि व्याख्यातार्थभेदरूपेणाग्रहणम्, तत एवान्योऽपि नास्ति, सति चाग्रहणेऽन्यस्य चाभावात् कस्य कथं वापोहः स्यात् ? प्रागुक्तविधिना किं न कुतोऽपोह्य 25 इत्यादिग्रन्थोऽत्र योज्य इति ।
अपितृत्ववत् स्यादिति चेत्, स्यादियमाशङ्का, यथेत्यादि तद्व्याख्या, पितुरन्ये सर्वे पुरुषा अनाश्रितभेदरूपास्तदन्वयादृतेऽपि दृष्टात् पितुरन्यत्वव्यावृत्ति बुद्धिमात्रेण स्वभेदानपेक्षा निरवयवा एव
१ दृश्यतां पृ० ४७०-१ ॥ तेनैव ? ) ॥ ४ व्यावृत्य य० ॥ भा० । एवमत्रान भवति य० ॥
Jain Education International
२ ( भिन्नधर्मव ? ) ॥ ३ दृष्टः शब्दो धूमादिर्वात्र विवक्षितो भाति । ( दृष्टं ५ वृक्षाने भा० ॥ ६ रर्थान्यदवृक्षा प्र० ॥ ७ एवमत्रा भवति ८ क कथं भा० ॥ ९ दृश्यतां पृ० ६४५ पं० ४ । १० ग्रन्थोक्तयोज्यः प्र० ॥
For Private & Personal Use Only
www.jainelibrary.org