________________
दिङ्गागप्रणीतापोहवाद निरासः ] द्वादशारं नयचक्रम् |
निरवयव एव प्रतीयते तथाग्निवृक्षाभ्यामन्येऽवृक्षाज्वलनाः सर्वेऽपि व्यावृत्तिबुद्धिमात्रेण निरवयवाः प्रतीयेरन्, को दोषः ?
सर्वस्यादर्शनान्न स्यात् । युक्तं पितुरपितुश्च दृष्टस्य व्यक्तग्रहणोत्तरकालं पितुः पर्युदासेनान्यस्यापितृत्वं प्रतिपाद्येत, न तु पितुरेवादर्शने । स हि पितरि प्रत्ययोत्पत्तिः ।
७०९
यथा त्विदं त्वयेष्टं तुल्ये वृत्तिरतुल्ये चावृत्तिः । तत्र तुल्ये नावश्यं सर्वत्र वृत्तिराख्येया, क्वचिदानन्त्येऽर्थस्याख्यानासम्भवात्, न हि सम्भवोऽस्ति वृक्षशब्दस्य सर्ववृक्षेषु दर्शने । नापि सर्वत्र लिङ्गिनि सर्वलिङ्गस्य सम्भवः, अग्निधूमादिवत् । यद्यपि च क्वचिदस्ति डित्थादिषु सम्भवः तथापि गुणसमुदायमात्रस्य काणकुण्टादेर्दर्शनासम्भवः, सत्यपि च दर्शने सर्वथाऽनुमानासम्भवः [ ] इति तथा सर्वस्यादर्शनात् पितृकल्पस्य "तदपोहस्य वा[s] प्रतिपत्तिः । 10
यदि हि स्वार्थः परार्थश्च सपिण्ड्य विधिना गृहीतः स्यात् तत एवं प्रतिपद्येत 'अयं वृक्षः, अयं न भवति' इति, नात्यन्ताविदितवृक्षावृक्षशब्दार्थतायाम् ।
प्रतीयन्त इति दृष्टान्तस्तथाग्निवृक्षाभ्यामन्येऽवृक्षाज्वलना वृक्षज्वलनपर्युदासेनानन्ता भेदा अपि व्यावृत्तिबुद्धिमत्रेण निरवयवाः प्रतीयेरन् को दोष इति ।
अत्र दोषकुतूहलं चेद् ब्रूमः – सर्वस्यादर्शनाद् न स्यात् । युक्तं पितुरस्मद्दर्शनेन विधिरूपेण 15 दृष्टस्य अङ्गादङ्गं सम्भवसि | कौषीतकिना० २७] इत्यादिन्यायात् स्वपुत्रस्य गुणसमुदायरूपस्य प्राणान् ४६१-२ दत्तवतः पर्युदासेनान्यस्य भ्रात्रादेः स्वजनस्य पितृविपरीतबुद्धेरैध्यासेन ग्राह्यस्य 'एष पिता देवदत्तः, नेमे वसुरातादयः' इति पितुरपितुश्च व्यक्तग्रहणोत्तरकालं पैरजनस्य चान्यस्यापितृत्वं प्रतिपाद्येतेत्येषोऽस्ति न्यायः । त्वद्दर्शने पुनर्गुणसमुदायस्य न तु पितुरेवादर्शने 'युक्तम्' इति वर्तते न घटते पितुरेव ग्रहणासम्भवे असति वा पितरि गुणसमुदायमात्रार्थग्रहणाभिधानाभाव प्रकारेणोक्तेन । स हि पितरी - 20 त्यादिना दर्शनविधिं पितुः पितृदर्शनाच्चापितॄणां तदितरभेदानां च कथयति दर्शनविधिं यावत् प्रत्ययो - त्पत्तिरिति ग्रन्थेन । एषा दृष्टान्तवर्णना । दाष्टन्तिकोसमञ्जसतेदानीम् । यथा विदमित्यादि यथा त्वयेष्टं 'तुल्ये वृत्तिरतुल्ये चावृत्ति:' इत्युद्राहेण यावत् सर्वथानुमानासम्भव इति ग्रन्थो व्याचक्षाण एव गतः परमतम् । न्यायेन त्वदुक्तेनैव तथा सर्वस्यादर्शनात् पितृकल्पस्येत्यादिना दान्तिकवैषम्यापादनं गतार्थं यावत् तदपोहस्य वा[s]प्रतिपत्तिरिति । त्वन्मन कस्यचिदेव स्वार्थस्य परार्थस्य, चादर्शनादपि पितृत्वप्रत्ययाभाव एवेति पिण्डार्थः । अथवा 'सर्वस्यादर्शनात्' इत्यादिना प्रकारान्तरेण दोषं ब्रूमः - यदि हि स्वार्थ इत्यादि, 'वृक्षः' इत्युक्तेऽस्मदुक्तेन न्यायेन सामान्योपसर्जनो विशेषः समस्तः शिंशपादिरभिहितः स्यात् तेनापोढश्चावृक्षः सभेदो घटपटादिः सपिण्ड्य 'अयमन्योऽस्माद् वृक्षात् '
25
१ तुलना पृ० ६५२ पं० २ । २ तुलना - पृ० ६६२ पं० २, पृ० ७०९ पं० १८ ॥ ३ तुलना पृ० ४७०-१ ॥ ४ अङ्गादङ्ग संभवसि य० । दृश्यतां पृ० ४६९ पं० ३ टि० १॥ ५ व्यासेन प्र० ॥ ६ ग्राह्यस्यैष्य पिता य० । ग्राह्यशैष्यपिता भा० ॥ ७ 'खजनस्य' [पं० [१७] इति प्रागभिहितत्वादत्र 'परजनस्य च' इत्युक्तम् ॥ ८ ( प्रतिपद्येते ? ) । तुलना - पृ० ७१० पं० ७ ॥ ९ 'समाजस्ते य० ॥ १० मत पर य० ॥
Jain Education International
5
For Private & Personal Use Only
www.jainelibrary.org