Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 352
________________ ६९८ न्यायागमानुसारिणीवृत्त्यलङ्कतं [ अष्टम उभयनियमारे वानित्यत्वस्य । स एव निमित्तमग्निधूमस्य सहचरश्च । न हि तस्याग्नितोऽन्यद् निमित्तं भवितुमर्हति सहचरं वा........ क्रियेत । पूर्वप्रत्यक्षसम्बन्धस्मरणादन्यतरेणेतरस्याभिव्यक्तिः प्रत्यक्षवत् । ....... अनित्यं सर्व प्रयत्नानन्तरीयकम् , आईतत्वस्याभ्युपगम्यमानत्वात् । 5 खवचनानपेक्षायामपि तान्यपि सिद्धप्रयत्नानन्तरीयकान्येव लोकप्रत्यक्ष......."विहितवृत्तित्वात्, कुड्यादिवत् । जीवशरीरं नात्यन्त(क्त ?)शरीरचित्त प्रवृत्तत्वात् स्थपतिवत् । चेतनविहितवृत्ति च .....सवितृगति..... । कृतकत्वेनेवानित्यत्वस्य, तद्यथा प्रागभावप्रध्वंसाभावाख्यमेकमेव [व]स्त्व[६]वमनित्यं कृतकं 'चोच्यते, 10 ध्रुव स्थैर्ये, ध्रुवं स्थिरम् , नेधुंवे त्यप् [पा० म० भा० ४ । २ । १०४ ] नित्यम् , न नित्यमनित्यमिति ‘कृतकम्' इत्युक्ते तदेवानित्यमध्रुवमित्युक्तं भवति उत्पादविनाशयोरध्रौव्याभेदात् तथा धूमग्रहणेऽग्निग्रहणं प्रदेशात्माभेदात् । स एव निमित्तमग्निधूमस्य सहचरश्च, न हि तस्येत्यादि श्यावत् क्रियेतेत्यादि*, नहि तस्य धूमस्य अग्नितोऽन्यद् निमित्तं प्रदेशपरिणामात्मकाद् देशान्तरस्थाग्निपाषाणाम्बुकुम्भादि भवितु४५५-१ मर्हति सहचरं वा तदसम्बद्धत्रैलोक्यलिङ्गित्वप्रसङ्गात् , परिणाम्यभेदपरिणामान्तरसाध्यत्वे परिणामान्तर15 साधनत्वात् एवमस्यैव हेतु-हेतुमद्भावभावनार्थमाह-पूर्वप्रत्यक्षेत्यादि यथा पूर्व प्रत्यक्षकालेऽग्निना सम्बद्धो धूमोऽग्निश्च धूमेन तथान्वयकाले तस्य सम्बन्ध]स्य स्मरणाद् 'यत्राग्निस्तत्र धूमः, यत्र धूमस्तत्राग्निः' इत्यन्यतरेण विवक्षितेन हेतुनोपात्तस्य इतरस्य साध्यस्याभिव्यक्तिः प्रत्यक्षकाले इव प्रत्यक्षवत् । स्यान्मतम्-धूमविज्ञानकालेऽग्निविज्ञानस्याभावात् ... ... ............। .......... अनित्यत्वप्रयत्नानन्तरीयकत्वयोरन्योन्यव्याप्तिं प्रतिज्ञाय हेतुमाह-आर्हतत्वस्याभ्यु20 पगम्यमानत्वादिति अन्यापोहाभ्युपगमात् स्ववचनादेव जैनेन्द्रं मतमभ्युपगतं त्वयेति वक्ष्यामः । स्ववचनानपेक्षायामपीत्यादि । यद्यपि त्वं वचनमनपेक्ष्यापि 'अनित्यं सर्व प्रयत्नानन्तरीयकं न भवति' इति ब्रूषे तथापि ते वचनं न्यायापेतमेवेदम् । तद्यथा-तान्यपीत्यादि, तान्यपि अभ्रेन्द्र चापादीनि सिद्धप्रयत्नानन्तरीयकान्येवेति प्रतिज्ञा, लोकप्रत्यक्षेत्यादि समासदण्डको हेतुर्यावद् विहितवृत्ति त्वादिति । कुड्यादिदृष्टान्तः । तद्व्याख्या लोकप्रत्यक्षेत्यादिविशेषणप्रयोजनानि च पिण्डार्थेन विद्युदा25 दीनां चैतन्यं तावत् साध्यते-जीवशरीरं वातादयः, अनण्यादित्वे स्पर्शादिमत्त्वात् , गोवत् । तस्यापि गोम॑तस्य जीवत्वाभावाद् मा भूदनैकान्तिकते[ति ] जीवशरीरत्वेऽपि तु नात्यन्त(क्त)शरीरै चित्तेत्यादि यावत् स्वयं प्रवृत्तत्वादिति विशेषणव्याख्या । स्थपतिवदिति स्थपतेश्चैतन्यवत् । वातादिचैतन्ये सिद्धे ४५५-२ चेतनविहितवृत्ति चेत्यादिना विद्युदभ्रमेघशब्दादीनां चेतनवातप्रयत्नोत्थता दर्श्यते, सवितृगतीत्या दिना . १ चोच्यते वस्थैर्य भा० ॥ २“धु स्थैर्ये'-पा० धा० ९४३ ॥ ३ न ध्रुवे त्यप्र प्र० । “त्यब् नेवि॒वे । त्यब् नेधुवे वक्तव्यः । नियः।"-पा०म० भा० ४।२।१०४॥४* * एतदन्तर्गतः पाठो भा० प्रतौ नास्ति ॥ ५क्रियतेत्यादि य० ॥ ६ एवंस्यैव भा० । ( एकस्यैव ? )। 'परिणाम्यभेदपरिणामान्तरसाध्यत्वे परिणामान्तरसाधनत्वादेकस्यैव र्थमाह' इत्यपि पाठोऽत्र भवेदिति ध्येयम् ॥ ७ हेतूसद्भावभावनार्थ य०॥ ८'सम्बद्धस्य' इत्यपि पाठोऽत्र स्यात् ॥ ९ इतः परं पाठस्त्रुटितः सर्वासु प्रतिषु ॥ १० ते कवचनं य०॥ ११ रचेत्तेत्यादि प्र०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403