________________
६९८
न्यायागमानुसारिणीवृत्त्यलङ्कतं [ अष्टम उभयनियमारे वानित्यत्वस्य । स एव निमित्तमग्निधूमस्य सहचरश्च । न हि तस्याग्नितोऽन्यद् निमित्तं भवितुमर्हति सहचरं वा........ क्रियेत । पूर्वप्रत्यक्षसम्बन्धस्मरणादन्यतरेणेतरस्याभिव्यक्तिः प्रत्यक्षवत् ।
....... अनित्यं सर्व प्रयत्नानन्तरीयकम् , आईतत्वस्याभ्युपगम्यमानत्वात् । 5 खवचनानपेक्षायामपि तान्यपि सिद्धप्रयत्नानन्तरीयकान्येव लोकप्रत्यक्ष......."विहितवृत्तित्वात्, कुड्यादिवत् । जीवशरीरं नात्यन्त(क्त ?)शरीरचित्त प्रवृत्तत्वात् स्थपतिवत् । चेतनविहितवृत्ति च .....सवितृगति..... ।
कृतकत्वेनेवानित्यत्वस्य, तद्यथा प्रागभावप्रध्वंसाभावाख्यमेकमेव [व]स्त्व[६]वमनित्यं कृतकं 'चोच्यते, 10 ध्रुव स्थैर्ये, ध्रुवं स्थिरम् , नेधुंवे त्यप् [पा० म० भा० ४ । २ । १०४ ] नित्यम् , न नित्यमनित्यमिति ‘कृतकम्' इत्युक्ते तदेवानित्यमध्रुवमित्युक्तं भवति उत्पादविनाशयोरध्रौव्याभेदात् तथा धूमग्रहणेऽग्निग्रहणं प्रदेशात्माभेदात् । स एव निमित्तमग्निधूमस्य सहचरश्च, न हि तस्येत्यादि श्यावत् क्रियेतेत्यादि*, नहि
तस्य धूमस्य अग्नितोऽन्यद् निमित्तं प्रदेशपरिणामात्मकाद् देशान्तरस्थाग्निपाषाणाम्बुकुम्भादि भवितु४५५-१ मर्हति सहचरं वा तदसम्बद्धत्रैलोक्यलिङ्गित्वप्रसङ्गात् , परिणाम्यभेदपरिणामान्तरसाध्यत्वे परिणामान्तर15 साधनत्वात् एवमस्यैव हेतु-हेतुमद्भावभावनार्थमाह-पूर्वप्रत्यक्षेत्यादि यथा पूर्व प्रत्यक्षकालेऽग्निना
सम्बद्धो धूमोऽग्निश्च धूमेन तथान्वयकाले तस्य सम्बन्ध]स्य स्मरणाद् 'यत्राग्निस्तत्र धूमः, यत्र धूमस्तत्राग्निः' इत्यन्यतरेण विवक्षितेन हेतुनोपात्तस्य इतरस्य साध्यस्याभिव्यक्तिः प्रत्यक्षकाले इव प्रत्यक्षवत् ।
स्यान्मतम्-धूमविज्ञानकालेऽग्निविज्ञानस्याभावात् ... ... ............।
.......... अनित्यत्वप्रयत्नानन्तरीयकत्वयोरन्योन्यव्याप्तिं प्रतिज्ञाय हेतुमाह-आर्हतत्वस्याभ्यु20 पगम्यमानत्वादिति अन्यापोहाभ्युपगमात् स्ववचनादेव जैनेन्द्रं मतमभ्युपगतं त्वयेति वक्ष्यामः ।
स्ववचनानपेक्षायामपीत्यादि । यद्यपि त्वं वचनमनपेक्ष्यापि 'अनित्यं सर्व प्रयत्नानन्तरीयकं न भवति' इति ब्रूषे तथापि ते वचनं न्यायापेतमेवेदम् । तद्यथा-तान्यपीत्यादि, तान्यपि अभ्रेन्द्र चापादीनि सिद्धप्रयत्नानन्तरीयकान्येवेति प्रतिज्ञा, लोकप्रत्यक्षेत्यादि समासदण्डको हेतुर्यावद् विहितवृत्ति
त्वादिति । कुड्यादिदृष्टान्तः । तद्व्याख्या लोकप्रत्यक्षेत्यादिविशेषणप्रयोजनानि च पिण्डार्थेन विद्युदा25 दीनां चैतन्यं तावत् साध्यते-जीवशरीरं वातादयः, अनण्यादित्वे स्पर्शादिमत्त्वात् , गोवत् । तस्यापि गोम॑तस्य जीवत्वाभावाद् मा भूदनैकान्तिकते[ति ] जीवशरीरत्वेऽपि तु नात्यन्त(क्त)शरीरै चित्तेत्यादि
यावत् स्वयं प्रवृत्तत्वादिति विशेषणव्याख्या । स्थपतिवदिति स्थपतेश्चैतन्यवत् । वातादिचैतन्ये सिद्धे ४५५-२ चेतनविहितवृत्ति चेत्यादिना विद्युदभ्रमेघशब्दादीनां चेतनवातप्रयत्नोत्थता दर्श्यते, सवितृगतीत्या दिना
. १ चोच्यते वस्थैर्य भा० ॥ २“धु स्थैर्ये'-पा० धा० ९४३ ॥ ३ न ध्रुवे त्यप्र प्र० । “त्यब् नेवि॒वे । त्यब् नेधुवे वक्तव्यः । नियः।"-पा०म० भा० ४।२।१०४॥४* * एतदन्तर्गतः पाठो भा० प्रतौ नास्ति ॥ ५क्रियतेत्यादि य० ॥ ६ एवंस्यैव भा० । ( एकस्यैव ? )। 'परिणाम्यभेदपरिणामान्तरसाध्यत्वे परिणामान्तरसाधनत्वादेकस्यैव
र्थमाह' इत्यपि पाठोऽत्र भवेदिति ध्येयम् ॥ ७ हेतूसद्भावभावनार्थ य०॥ ८'सम्बद्धस्य' इत्यपि पाठोऽत्र स्यात् ॥ ९ इतः परं पाठस्त्रुटितः सर्वासु प्रतिषु ॥ १० ते कवचनं य०॥ ११ रचेत्तेत्यादि प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org