________________
दिमागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
६९७ त्वाद् धूमस्यापि । यदि हि स सदा......... । पाण्डूर्धगतिबहलोत्सङ्गयेकदेशबद्धमूलपुनःपुनरुत्थायिधूम[स्याग्निमन्तरेणाभावाद निमित्तनैमित्तिकभाव एषितव्यः] । बलाकापताकावच [सहचरिभावोऽप्येषितव्यः, निमित्तनैमित्तिकभावे सत्यपि] धूमेऽग्नेर्व्यभिचारदर्शनात् ।
सहचरिनिमित्तोपपत्तौ तु न काचिद व्यभिचारदिक । देशान्तरासश्चारिधूमस्य तत्कालसन्निहिताग्निनिमित्तत्वाद् विशिष्टस्यैव धूमस्याग्नौ गमकत्वम्, विशेषणार्थवत्त्वात् । स यथाग्निमत्त्वं गमयति तथा सन्निहिताग्निनिमित्तत्वमपि ।
एवं चाग्नेरपि गृहीतत्वाद् न प्रत्यक्षादि प्रमाणान्तरमपेक्ष्यते कृतकत्वेनेपनेन विशिष्टधूमग्रहणं 'तस्मिन्नेव देशे काले च नानुत्पन्नो नातीतो नापनीतो वाग्निः' इत्येतस्या[र्थ]स्य 10 प्रख्यापनार्थम् । सत्यपि सहचरिभावे निमित्तभूत्तं तमग्निमन्तरेण धूमस्यैवाभावाद् निमित्तनैमित्तिकभाव एषितव्यः । ततस्तवधारणार्थानि लिङ्गानि दर्शयन्नाह-पाण्डूर्धगतीत्यादि । पाण्डुविशेषणं बाष्पनीहारादिव्युदासार्थम् । ऊर्धगत्या बहलत्वेन च धूमिकाव्युदासः । उत्सङ्गिग्रहणात् शेरावाकारो विस्तारित्वं सूच्यते, पार्श्वविस्तारित्वाद् धूमिकादीनाम् । एकदेशबद्धमूलग्रहणादभूता-ऽपनीताग्नि-बात्यादिव्युदासोऽनेकत्र भ्रमणादित्वात् तेषाम् । पुनःपुनरुत्थायिधूमग्रहणा[द]पनीताग्निकवासगृहारणिनिर्मथनावस्था- 15 व्युदासः । तस्मात् सलिल-बलाकयोः सहचरिणोरिवाग्निधूमयोर्व्यभिचारदर्शनाद्' निमित्तनैमित्तिकभावोऽपीष्ट इति । सोऽपि निमित्तनैमित्तिकभावः सहचरिभावेन विना व्यभिचरत्येवेति दर्शयन्नाह बलाकापताकावच्चत्यादि यावद् धूमेऽग्नेर्व्यभिचारदर्शनादिति भावना गतार्था, नैमित्तिकसद्भावे निमित्ताभावदर्शनात् स्थपतिकृतप्रासादादिवदिति ।
तदुभयगतदोषपरिहारेण व्यवयवगुणप्रकाशनार्थं चाह - [सह] चरिनिमित्तोपपत्तावित्यादि यावद् 20 विशेषणार्थवत्त्वादिति । उभयविशेषणसम्पत्तौ सत्यां काचिद् व्यभिचारैदिग् न सम्भवति । तत् कथम् ? इति तद् दर्शयति-देशान्तरासञ्चारीत्यादिना भावयन् , तत्कालसन्निहिताग्निनिमित्तत्वाद् धूमस्य व्यभिचारमलविशुद्धस्य तैर्विशेषणैर्विशिष्टस्यैव सहचरिण्यग्नौ गमकत्वम् , इतरथा धूमस्यापि अग्नेरिव धूमे व्यभिचाराद् विशेषणसामोदेवानुमानार्थवत्त्वम् , विशेषणानुपादानेऽग्निमत्त्वमेव न गमयति उभयतोऽपि सहचरित्वे निमित्तनैमित्तिकत्वे वाऽसति यस्मात् तस्मात् स यथाग्निमत्त्वं गमयति तथा सन्निहिताग्नि-25 निमित्तत्वमपि 'गमयति' इति वर्तते, यथाग्निमत्त्वेन विना नास्ति धूमवत्त्वं तथा तन्निमित्तत्वमन्तरेण नास्तीत्यग्निमत्त्ववन्निमित्तत्वमपि गमयति उभयत्राव्यभिचारादिति ।
स्यान्मतम्-लिङ्गत्वादग्निः प्रत्यक्षं प्रमाणान्तरमपेक्षेत धूमवदिति । तन्न भवति, एवं चेत्यादि । एवमुक्तबद्धमूलत्वादिविशिष्टधूमपरिग्रहेऽग्नेरपि गृहीतत्वाद् न प्रत्यक्षादिप्रमाणान्तरमपेक्ष्यते । किमिव ?
१ नानीतो या० ॥ २ नायतीतो प्र० ॥ ३ पाण्डूर्वगती प्र० ॥ ४ बाप्यनीहा प्र० ॥ ५ सरावा प्र० ॥ ६ तादित्यादि प्र० ॥ ७ रदिङ्गसंभवति प्र० ॥ ८ 'प्य¥गत्वम् प्र० ॥ ९ 'नार्थत्वम् य० ॥ १० पादानाग्निम प्र० ॥ ११ वासति प्र० । 'चासति' इत्यपि पाठोऽत्र भवेत् ॥ १२ धूमवथा तन्नि भा० । धूमत्वं तथा तन्नि य०॥
नय० ८८
४५४-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org