________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[ अष्टम उभयनियमारे
धूमश्च पक्षधर्मोऽनुबद्धरूप एवाग्निना भवति अग्निसहचरित्वाग्निनिमित्तत्वख्यापनार्थम् । इह क्वचित् सहचरिभावः, कचिच्च निमित्तनैमित्तिकभावः । इह तु द्वयवयवमेव लिङ्गम् । तत्राविना भावी [ सहचरी । सहचरावग्निधूमौ । ] सहचरोऽस्मिन् विद्यत इति सहचरी । अस्मिन् विद्यत एवाग्निर्धूमे, न न विद्यत एव न च न 5 विद्यतेऽपि कचित् । तस्मिन् हि किल सति विद्यत एवाग्निः, न न विद्यते वात्यादिवत् न च न विद्यतेऽपि धूमासहचरायोनिधूमवत्, न वा सपक्षसहचरे न विद्यत एव कृतकमिव नित्ये । एवमसिद्ध विरुद्धानैकान्तिकव्युदासेन सहचरिभावानुमानं सिध्यति ।
नन्वेवं किमर्थं निमित्तनैमित्तिक भावोपादानम् ? न, अग्निवद् व्यभिचारि
६९६
10 अव्युत्पत्तिविध्यनवधृतेः, विधिनैवाव्युत्पादितावधारणेनोक्तत्वात् 'रक्तमिदं करवीरपुष्पम्' इत्यव्युत्पन्न - रक्तश्वेतविशेषणाय पुरुषायेव तन्निरूपणार्थ 'रक्तमेव, 'श्वेतमेव वा' इत्यवधारणानपेक्षा प्रतिज्ञा । ४५३-२ धूमश्च पक्षधर्मोऽनुबद्धरूप एवाग्निना भवति । किमर्थम् ? अग्निसहचरित्वाग्निनिमित्तत्वख्यापनार्थम्। तद्व्याख्या - इह क्वचिदित्यादि, रूपस्पर्शयोः सहचैरिभावः, दण्डादि निमित्तम् घैटो नैमित्तिक इति निमित्तनैमित्तिकभावः, तावेतौ सहचरिनिमित्तनैमित्तिकभावाववयवौ, तदेव हि तत्, इह तु द्व्यवयव15 मेव लिङ्गम् । तत्राविनाभावीत्यादि, सहचरिभावं तावदादौ निरूपयामः सोऽविनाभाव एव । तद्व्याख्या निरूपणार्थी - सहचरावित्यादि सहचरो यस्मिन् विद्यत इति सहचरी धूमस्याग्निरिति इनिप्रत्ययः सप्तम्यर्थे, अस्य त्रिविधोऽर्थः - अस्मिन् विद्यत एवाग्निर्धूमे अग्नित एव चायमिति पक्षधर्मावधारणम् । नन विद्यत एवेति 'सपक्षाननुगतो विपक्ष एव सन्' इति विरुद्धासाधारणानैकान्तिकाशङ्का मा भूदिति । न च न विद्यतेऽपि क्वचित् सहचरी धूम इति साधारणानैकान्तिकौशङ्का मा भूदिति वा । 20 तद्व्याचष्टे - तस्मिन् हि किल सतीति, पराभिमतस्य धूमे लिङ्गिनि अग्निलिङ्गत्वस्य व्युदासार्थं तदुदाहरणानि, सति विद्यत एवाग्निर्न न विद्यते वात्यादिवदित्यसिद्धव्युदासेन । न च न विद्यतेऽपि धूमा सहचरायोग्निधूमवदिति साधारणानैकान्तिकाशङ्काव्युदासेन । न वा सपक्षसहचरे न विद्यत एव कृतकमिव नित्य इति विरुद्धासाधारणानैकान्तिकाशङ्काव्युदासेन । एवमसिद्धेत्या शुक्तोपसंहारो गतार्थः ।
नवे मित्यादि । एवं तर्हि असिद्धविरुद्धानैकान्तिकव्युदासेन सहचरिभावानुमानसिद्धौ सत्यां 25 किमर्थमनर्थकनिमित्त नैमित्तिकभावोपादानम् ? तस्मादेकावयवमेवास्त्विति ।
४५४-१
एतच्च न, अग्निवद् व्यभिचारित्वाद् धूमस्यापि यथाग्निर्धूमं व्यभिचरति अयोध्यादावभावात् तथा धूमोsपि अग्निमपनीतानिकवासगृहादौ अरणिनिर्मथनादौ चेति समानम् । तद्व्याख्या यदि हे (हि) ससदेत्यादि दृष्टान्तोपनया सभावना गतार्था प्रागुक्तन्याया । सन्निहितनिमित्त-सहचरिप्रख्या
प्र० ॥
१ पुरुषायैवातन्निरू २ श्वेतमेवेत्य य० । श्वेतमेवत्यव भा० ॥ ३ चरिताभावः भा० । 'चरितः य० ॥ ४ घटादि य० ॥ ५ भावावयवौ प्र० ॥ ६ तदेव हि तदिह तु द्यवयमेव य० । तदेतदतदिह तुद्यवयवमेव भा० ॥ ७ ( अस्मिन् ! ) ॥ ८ वा भा० ॥ ९ विरुद्धसाधारणानैकान्तिका मा भूदिति प्र० । १० शङ्का य० ॥ ११ धूमसहचरायो भा० । धूमसहचरयों य० । १२ सावधार प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org