________________
६२९
10
दिनागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । याप्याधाराधेयवद्वत्तिः
'लिङ्गे लिङ्गी भवत्येव लिङ्गिन्येवेतरत् पुनः ।
नियमस्य विपर्यासे सम्बन्धो लिङ्गलिङ्गिनोः ॥ यस्माल्लिङ्गे लिङ्गी भवत्येव तस्माद् युक्तं यदग्निवद् धूमो द्रव्यत्वादीनामपि प्रकाशको न तैक्ष्ण्यादीनाम् । यस्माच्च लिङ्गिन्येव लिङ्गं भवति नान्यत्र तस्माद् युक्तं यद् धूमो धूमत्वेनेव पाण्डुत्वा- 5 दिभिरपि प्रकाशयति न द्रव्यत्वादिभिः । एवं ह्यवधारणवैपरीत्येन सम्बन्धो लिङ्गलिङ्गिनोः । [प्र० समु० वृ० २।२०३]। .
एषापि तद्भावदर्शन विधेरेव गमयति न व्यावृत्तिबलेन । न हि योषिद्गण्डपाण्डुत्वं गमयत्यग्निम् , अभूताग्निधूमकत्वात् । धूमभूतं गमयति धूमभूताग्नित्वात् तद्भावस्य तद्भावत्वेनैव गमकत्वात् ।
___ यथा चेदं तथा द्रव्यत्वादिसामान्यस्यापि धूमभूतेर्गमकत्वमग्नेः पाण्डुत्ववत् । अग्नेरपि द्रव्यत्वसामान्यगतिरग्निभूतत्वात् । यत्तु धूमो दीप्त्यादिविशेषाणामगमकस्तत् तद्भावदर्शनविधेरेव तथा चान्यथा च दृष्टत्वाद् व्यभिचारात् । इन्द्रधनुषः। तस्माद् विद्युदादीनि प्रयत्नानन्तरीयकानि अनित्यानि चेत्यनित्यप्रयत्नानन्तरीयकत्वयोरन्यो- 15 न्यगम्यगमकता।
___ एवमविनाभावित्वकुतर्कस्य विनाभावेनास्माभिः तद्भावदर्शनादेव साध्यसाधनधर्मयोः विधेः संयोगिवद्वृत्तिः यथाप्रतिज्ञर्मुक्ता, 'न त्वाधाराधेयवद्वृत्तिः' इति प्रतिपादयिष्यामः-याप्याधाराधेयवदित्यादि । यामपि आधाराधेयवद्वृत्तिं मन्यसे लिङ्गे लिङ्गी भवत्येवेत्यादि श्लोकः । तद्वयाख्या-यस्माद् लिङ्गे धूमे लिङ्गी अग्निर्भवत्येव न [ न ] भवत्यपि तस्माद् युक्तमित्यवधारणार्थप्रदर्शनम् । यस्माच्च 20 लिङ्गिन्येवेत्यादि यावद् द्रव्यत्वादिभिरित्यादि तद्विपरीतावधारणप्रदर्शनं गतार्थम् । सामान्यस्य गेम्यत्वं लिङ्गिनि न विशेषाणाम् , लिङ्गस्य च विशेषाणां केषाश्चिद् गमकत्वं न सामान्यस्य दृष्टम् , तत् सर्वमविनाभावादाधाराधेयवद्वृत्तेरिति पूर्वपक्षः।।
___ अत्रोत्तरम् -एषापीत्यादि । इयमपि आधाराधेयवद्वृत्तिः तद्भावदर्शनविधेरेव यत्र दृष्टस्तद् गमयति दर्शनबलेन, न यत्रादृष्टस्तव्यवच्छेदेन व्यावृत्तिबलेनेति । अत्रापि न हीत्यादि यौवन(त् ? ) 25 योषिद्गण्डपाण्डुत्वं न गमयति अग्निम् , अभूताग्निधूमकत्वात् ; धूमभूतं तु पाण्डुत्वं गमयत्यग्निं धूमभूताग्नित्वात् , विधेरेवं तद्भावस्य तद्भावत्वेनैव गमकत्वात् ।।
यथा चेदमित्यादि, पाण्डुत्वादिविशेषस्य धूमभूतत्वेन गमकत्ववद् द्रव्यत्वादिसामान्यस्यापि धूमभूतेर्गमकत्वमग्नेरिति भावना यावत् पाण्डुत्ववदिति । एवं तावद्धूमभूतसामान्य-विशेषधर्माणां गमकत्वं तुल्यम् । ' विधेरेव गम्यत्वनियमाविशेषः । तथाहि-अग्नेरपि द्रव्यत्वसामान्यगतिः, अग्निभूतत्वात् ।।१६-१ नोदकादितद्व्यतिरिक्तद्रव्यत्वगतिः, अतद्भूतत्वात् । यत्तु धूमो दीप्त्यादीत्यादि, दीप्ति-तैक्ष्ण्यादिविशेषा
१ दृश्यतां पृ० ६७९ पं० ४-८॥ २विनास्माभिः भा०॥ ३ पृ. ६८१ पं० २॥ ४ मुक्त्वा प्र० ॥ ५ गमकत्वं य०॥ ६ अत्रोत्तरमेषामपीत्यादि प्र. । 'अत्रोत्तरमियमपीत्यादि' इत्यपि पाठोऽत्र भवेत् ॥ ७ अत्र किञ्चिदशुद्ध त्रुटितं वा प्रतीयते । 'न हीत्यादि भावना, योषिद्दण्डपाण्डत्वं न......' इति चेत् पाठस्तदा सम्यक् सङ्गच्छते॥ ८ धूमत्वात् य० ॥ ९ विधिरेव प्र०॥ १० विधिरेव प्र०॥ ११ तथा व्यग्नेपि प्र० । 'तथा चाग्नेरपि' इत्यपि पाठोऽत्र स्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org