________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[ अष्टम उभयनियमारे
तद्भावदर्शनानुबन्धेन हि बुद्धयुत्पत्तिरनुमानम् । धूमवत्त्वमग्निमत्त्वानुबद्धमेवेत्यैकान्तिकग्रहणेऽनुमानं भवति, अव्यभिचारात् । व्यभिचारात्त्वनुमानाभासम्, तद्यथा वृक्षक्षुपादिवज्वलनतैक्ष्ण्यादिव्यभिचारेण । तथाविधदर्शनबुद्ध्यनुबद्धमेवानुमानमपि । तदतत्पक्षद्वयगतैकान्तमनाश्रित्य ज्ञानमनव धृतार्थमनध्यवसायो विपर्ययश्चानुमानाभासौ ।
व्यावृत्तेस्त्वनुमानाप्रामाण्यापत्तिः, अत्यन्ताज्ञानादन व्यवसायवत्, ग्राह्यवृत्यननुरोधिप्रतिपत्तेर्वा विपर्ययवत् ।
गतिरपि तद्भाÎदर्शनविधेरेव, तथा चान्यथा च दीप्ति-तैक्ष्ण्यादिरूपेण तद्विरहितत्वेन च दृष्टत्वाद् 10 व्यभिचारात्, नात्यन्ताभूत शीतादिव्यभिचार दसम्बद्धादगतिः, किं तर्हि ? सम्बद्धव्यभिचारादेव |
किञ्चान्यत्, दर्शनविधेरेवानुमानलक्षणोपपत्तेः स एवैषितव्य इत्यत आह-तद्भावदर्शनानुबन्धेन हि बुद्ध्युत्पत्तिरनुमानमित्येतदनुमानर्हेक्षणम् । तद् व्याचष्टे - धूमवत्त्वमित्यादि, यदा 'धूमवत्त्वं प्रदेशस्याग्निमत्त्वानुबद्धमेव' इत्यैकान्तिकं ग्रहणं तदानुमानं भवति 'धूमादग्निरत्र' इति, तस्याग्नेरेकान्तेनैव ग्रहणमव्यभिचारात् । व्यभिचारात् त्वनुमानाभासम्, तद्यथा - वृक्ष - क्षुपादिवज्वलन तैक्ष्ण्यादिव्यभिचारेण, 15 यथा यदा तु 'वृक्षः क्षुपो वात्र, धूमात्' इति तदानुमानाभासं भवति, विनापि वृक्षादिना दृष्टत्वाद् व्यभिचाराद् दर्शनबलेनैव । तदुपसंहारः तथाविधदर्शन बुद्ध्यनुबद्धमेवानुमानमपीत्यादि तार्थ एवं सन्देहानुमानाभासश्च । अनध्यवसाय विपर्ययानुमानाभासावपि तद्यथा - तदतत्पक्षेत्यादि । स चाश्च पक्षौ तदतत्पक्षौ तयोर्द्वयम्, तद्गतमेकान्तं 'भूतमेव, अभूतमेव' इत्यनाश्रित्य यथा 'अग्निरत्रैव, अभिरत्र भवत्येव' एवमाद्यनिश्चितासन्दिग्धरूपं ज्ञानमनवधृतार्थमनध्यवसायः, विपर्ययश्चाभूते भूतप्रत्ययः, भूते 20 चाभूतप्रत्ययः, पुरुषप्रत्ययवत् । एतावप्यनुमानाभासौ । तत्परिणामाव्यवच्छेदेन तथाविधदर्शन४५६-२ बुद्ध्यनुबद्धमेवानुमानं दृष्टवत्, तथैवानुमानाभासोऽपि ।
७००
त्वन्मत्या व्यावृत्तेस्त्वनुमानाप्रामाण्यापत्तिः ' न भवति न भवति' इत्युभयतोऽप्यभवनपरमार्थत्वदर्थान्तरभावो वाऽत्यन्तमदृष्टत्वात् 'अग्निर्न भवति, उदकमनग्निः स न भवति घटः खपुष्पं वा इति 25 अज्ञानमेवेत्यप्रामाण्यापत्तिः पूर्वोक्तन्यायेन । कस्मात् ? अत्यन्ताज्ञानादनध्यवसायवदित्यप्रामाण्यम् । तथा विपर्ययवदप्रामाण्यापादनार्थमाह-ग्राह्यवृत्त्यननुरोधिप्रतिपत्तेर्वा विपर्ययवदिति । ग्राह्यस्याग्नेर्विधिरूपेण वृत्तिरग्निभवनम्, तदनुरोधिनी न भवति या प्रतिपत्तिः सा ग्राह्यवृत्त्यननुरोधिनी, तस्याः प्रतिपत्तेर्ग्राह्यवृत्त्यननुरोधिन्या हेतोरप्रामाण्यं व्यावृत्त्यनुमानस्य, पुरुषे स्थाणुप्रत्ययवदिति प्रागुक्तन्यायबलेनानिष्टापादनं गतार्थम् । तस्माद् दृष्टवदेवानुमानतदाभासौ यथादृष्टज्ञानानुबद्धत्वादिति ।
१ दर्शने विधिरेव प्र० ॥ २संबद्ध य० ॥ ३ संबंधव्यभि प्र० ॥ ४ लक्षणं च य० ॥ ५ मपीति य० ॥ ६ गतार्थ एवं सन्देहानुमानाभासं च प्र० । ( गतार्थमेवं सन्देहानुमानाभासं च ? ) ॥ ७ तमेवेत्या प्र० । ( तमेव वेत्यना' ? ) ॥ ८ तथाविधिदर्श प्र० 11 ९ यन्तरं मत्वात् भा० ॥ १० 'नमेवोत्यप्रा भा० । 'नमेवोत्पत्यप्राय० ॥ ११ यत्रवदिति प्र० ॥ ( त्याsनुमानस्य ? ) ॥
१२
ननुमानस्य प्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org