________________
७०१
15
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
एवं च तदपि न दूषणं यत् किल सम्बन्धानुमानलक्षणस्य अस्येदं कार्य कारणम् [वै० सू० ९।१।१८ ] इत्यादेश्वोक्तं दूषणम् , उक्तविधिवृत्तिभावनत्वादनुमानस्य ।
लिङ्गेन न विना लिङ्गी..............।
लिङ्गे चेल्लिङ्गिनियमस्तैक्षण्यं किमिति नेष्यते ॥ न यथाह-['लिङ्गे लिङ्गी भवत्येव । न तु लिङ्गिनि लिङ्गं भवत्येव लिङ्गि- 5 सत्त्वेऽपि लिङ्गाभावाद] अयोग्निवत् ।' लिङ्गिनि देशे धूमो भवन्नेव पक्षधर्मो भवति।
यथा वाह-लिङ्गिन्येव लिङ्गं भवति नालिङ्गिनि, तदपि न घटते, नियमेन तस्य सद्भावे तत्रैवाग्नौ लिङ्गत्वात् ।
एवं च तदपीत्यादि। अतिदेशेन सम्बन्धानुमानलक्षणस्य 'सम्बन्धादेकस्मात्' [ ]इत्यादेः 'अस्येदं कार्य कारणम्' [वै० सू० ९।१।१८] इत्यादेश्च यत् किल दूषणं सम्बन्धस्याविशिष्टत्वाद् धूमादग्नि-10 द्रव्यादिवद् दीप्तितैक्ष्ण्यादीनामपि गम्यत्वम् , धूमपाण्डुत्वादिविशेषगमकत्ववद् द्रव्यसत्त्वादिसामान्यस्यापि गमकत्वम् , अग्नेर्वा गमकत्वं धूमवत् , धूमस्य वाग्निवद् गम्यत्वम्' इत्येते दोषाः प्रसक्ता दृष्टवद् विधिवृत्तेरनुमानोक्तेः यथा दृष्टस्तथा सन्देहानध्यवसायविपर्ययनिश्चयकृदित्यभ्युपगमादिति । एतदपि न दूषणम् , उक्तविधिवृत्तिभावनत्वादनुमानस्येति ।
किश्चान्यत् , 'लिङ्गे लिङ्गी भवत्ये' इत्यस्याः कारिकाया योऽर्थोऽवधारणवैपरीत्येनाऽनुमानमि-४५७-१ त्युक्तस्तस्य दूषणार्थमाहाचार्यः-लिङ्गेन न विना लिङ्गीत्यादि श्लोकः । न यथाहेत्यादि परमतप्रदर्शनं यावदयोग्निवदिति नियमविपर्ययेण सोदाहरणम् । अत्रोत्तरम्-लिङ्गिनि देशेऽग्निमति धूमो भवन्नेव पक्षधर्मो भवति, नाभवन् असिद्धत्वादलिङ्गत्वात् । आबद्धमूलत्वादिविशेषणावधृतपक्षधर्मत्वस्यैव लिङ्गत्वाल्लिङ्गिनि लिङ्गं भवत्येव वात्यादिव्युदासेन । तस्य च धूमस्याग्निगततैक्ष्ण्यादिलिङ्गत्वं न भवति, न दृष्टत्वाद् धूमे तस्याग्नेरदृष्टत्वात् तैक्ष्ण्यादिना च सह विधिवृत्त्येति ।।
20 यथा वाहेत्यादि । 'लिङ्गिन्येव' इत्यस्यावधारणस्य निरूपणम्-यदा भवति लिङ्गं तदा नालिङ्गिनि भवति उदकादौ धूम इति । तदपि न घटते, कस्मात् ? नियमेनेत्यादि, तस्य धूमस्य सद्भावे बद्धमूलत्वादिविशेषपरिच्छिन्ने तत्रैवाग्नौ नान्यत्रायोन्यादौ लिङ्गत्वम् । किं कारणम् ? 'अग्निरत्र' इति अत्रशब्दस्याधिकरणवाचिनोऽर्थवत्त्वे 'अत्र'शब्दवाच्यैतत्प्रदेशसम्बन्धिन्येवाग्नौ 'लिङ्गित्वात् , अन्यथाऽनुमानाभावदोषस्योक्तत्वात् । तस्मात् स एव तस्यैव लिङ्गमिति सिद्धम् । यत् पुनर्धूमगतद्रव्यत्वाद्यम्यप्रकाशनं तत्तु 25 अस्मदिष्टदर्शनविधेरेव तथा व्यभिचारात् । .
१ 'लिङ्ग एवेतरत् पुनः' इत्यपि द्वितीयपादोऽत्र स्यात् ॥ २ दृश्यतां पृ० ७०२ पं० ९-१०॥ ३ पृ. २४० पं० ११॥ ४ वैशेषिकमतपरीक्षावसरे प्रमाणसमुच्चयवृत्तौ द्वितीयपरिच्छेदे विस्तरेणापादितमिदं दूषणं दिडागेन । विस्तरार्थिभिः Gaekwad's Oriental Series, Baroda इत्यत्र प्रकाशितस्यास्मत्सम्पादितस्य वैशेषिकसूत्रस्य सप्तमे परिशिष्टे पृ० १८४
त्र सवत्तिकात सटीकाच प्रमाणसमचयादद्धता वैशेषिकानुमानपरीक्षा विलोकनीया ॥ ५ दृष्टवविविवृत्ते भा० । दृष्टविष्विविवृत्ते य०॥ ६ पृ० ६७९ पं. ४ ॥ ७ योर्थावधाभा । यार्थावधा य०॥ ८ अबंधमूल' प्र०॥ ९°ण्यादिलिंगं न भवति प्र० ॥ १० 'न भवति, दृष्टत्वाद् धूमे तस्याग्नेः, अदृष्टत्वात् तैपण्यादिना च सह विधिवृत्त्येति' इत्यपि पाठोऽत्र भवेत् ॥ ११वाचिनोयथावत्वे य॥ १२°वाचेतत्प्र० प्र०॥ १३ लिनित्वात् प्र०॥ १५ नुमानदोषाभावस्यो प्र० ॥ १५पृ० ६७६ पं. ६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org