________________
७०२ न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[अष्टम उभयनियमारे लिङ्गे चेल्लिङ्गिनियमस्तक्ष्ण्यं किमिति नेष्यते ? । अदर्शनमिति चेत्, तन्न, प्रचुरहरिततृणेन्धनो धूमस्तार्णाल्पतादिविशेषानग्रेर्गमयति । बहल................ [ धूमो बहुतापादिविशेषान् गमयति ] हस्तलगृहागणगतस्तौषस्तौषाग्निं गमयति । इति लिङ्ग एव लिङ्गिनो भावः । 5 अथोच्येत-विशेषा न तु गम्यन्ते तस्यैव व्यभिचारिणः [प्र० समु० २।१८ ] । न, तैक्ष्ण्यादिवचनात् । तत्रापि चोक्तमेव तद्भावदर्शनविधेरेव तदिति ।
न च लिङ्गिन्येव लिङ्गमिति नियमो वासगृहवत् । शक्यते च लिङ्गे धूमे नियमादग्निरिति वक्तुम् , असन्धुक्षितानग्नित्वात्।।
किन्तु यथा च त्वयोच्यते “लिङ्गे लिङ्गी भवत्येव' इति, तत्र लिङ्गे चेल्लिङ्गिनियमः तथा चेदं 10 दोषजातम् - तैक्ष्ण्यं किमिति नेष्यते ? धूमत्वावधारणकारणविशेषाणां दीप्ततर-मन्दप्रकाशनादिविशेष४५७-२ सहचरत्वाद् धूमादग्निगतिवत् तदवधारणकारणविशेषसहचराग्निविशेषः कस्मान्नेष्यते तेभ्य एव धूमावधारणकारणविशेषेभ्यः ?।
स्यान्मतम्-अदर्शनमिति चेत्, तन्नेति 'दर्शनमस्ति' इत्युच्यते । तद्यथा प्रचुरहरितेत्यादि, यत्र दोग्धारः पुरुषा एव दोहयन्तीभिर्विरहिताः, गोकुले हरिततृणाकीर्णे नवावासे गवां मशकनिवारणार्थ 15 हरिततृणेन्धनोऽग्निः क्रियते तत्रैतदण्डकोक्तविशेषो धूमस्तार्णाल्पतादिविशेषानग्नेर्गमयति । तथा बहलेत्यादिना तापाभिवृद्ध्या विशेषः । हस्तला मृत्पात्रकाराः शिल्पिनः, तद्गृहाङ्गणगतस्तौषस्तौषाग्निं गमयतीति विशेषाणामपि लिङ्गित्वदृष्टेलिङ्गे धूम एव लिङ्गिनोऽग्नेर्भावः । तस्माद् नावधारणवैपरीत्येन लिङ्गलिङ्गिता, न च विशेषागम्यतेति ।
___अंथोच्यतेत्यादि । स्यान्मतम्-मया विशेष्योक्त एंवादोषोऽस्य विशेषा न तु गम्यन्ते, के ? ये 20 तस्यैव व्यभिचारिण इति । एतदपि न, तैक्ष्ण्यादिवचनात् , त्वया हि दीप्तितैक्ष्ण्यादयो विशेषा न गम्यन्ते इति कारिका) विवृण्वतोक्तत्वात् तैक्ष्ण्यादीनां च गम्यतत्त्व[स्य] दर्शितत्वादिति ।
किश्चान्यत् , मया तत्रापि चोक्तमेव तद्भावदर्शन विधेरेव तदिति, तदपि च विशेषाणां गम्यगमकत्वं साध्यसाधनधर्मयोस्तद्भावेन दृष्टयोर्विधिरूपेण संयोगिवद् वृत्तदृष्टवलेनैव न व्यावृत्त्येत्यभिहितमेव ।
तस्मात् लिङ्गे लिङ्गी भवत्येव इत्ययुक्तमुक्तम् । "लिङ्गेन न विना लिङ्गी इत्यादि श्लोकश्च साधूक्तः । 25 यदप्युक्तं 'लिङ्गिन्येव लिङ्गम्' इति, तदपि न च 'लिङ्गिन्येव लिङ्गम्' इति नियमो ४५८-१ वासगृहवत्, यथा वासगृहेऽपनीताग्निके लिङ्गिनाग्निना "विनापि धूमस्य दृष्टत्वादरणिनिर्मथनावस्थस्येति । शक्यते च 'लिङ्गे धूमे नियमादग्निः' इति वक्तुम् , कस्मात् ? असन्धुक्षितानग्नित्वात् , न ह्यसन्दीप्ते
१ दृश्यता पृ० ६७५ पं० २॥ २ पृ. ६७९ पं० ४॥ ३°त्वाचकरणविशेषाणां प्र०॥ ४न्तीतिविरहिता प्र० ॥ ५ तत्रैव तद्दण्ड य० ॥ ६ "ल्पतापादि' इत्यपि पाठोऽत्र भवेत् । तुलना-पृ० ६७३ पं० ५ ॥ ७ अथोच्यतेत्यादि प्र०॥ ८ एवादोषस्यापि शेषाननु य० । पवादोस्यापि शेषा ननु भा० । (एवादोषो विशेषा न तु?) ( एव दोषो विशेषा न तु?)॥ ९केषे तस्यैव भा० । केषा तस्यैव य०॥ १० दृश्यतां पृ. ६०६ टि. ७ । प्रमाणसमुच्चयवृत्तौ 'अनेकधर्मणोऽर्थस्य न लिङ्गात् सर्वथा गतिः ।।१२।' इति का रिकार्धस्य विवरणे एतद् वाक्यं विलोक्यत इति ध्येयम् ॥ ११ गम्यतत्वदर्शितत्वा प्र० । 'गम्यत्वस्य दर्शितत्वा' इत्यपि पाठः सम्भाव्यते ॥ १२ पृ०६८१ पं० २॥ १३ पृ० ७०१ पं०३॥ १४ विना धूमस्य य०॥ १५ (स्थस्य चेति?)॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org