________________
दिङ्गागप्रणीत पोहवाद निरासः ]
द्वादशारं नयचक्रम् |
एवं च लिङ्गं लिङ्गिनि व्यापित्वादेव गमकत्वं भजते कृतकानित्यत्ववत् । त्वन्मतिवत् साध्यधर्मस्य लिङ्गित्वे साधनधर्मस्य लिङ्गत्वेऽपि ब्रूमः - यथा लिङ्गमपि व्यापि तथा लिङ्गमप्यङ्ग्यपि ।
उभयं लिङ्गं लिङ्गि वा न यत् तद् गोविषाणवत् ॥ यथा लिङ्गमपि व्यापि संयोगिवद्वृत्ती
७०३
] इत्यङ्ग
न्धनावस्थोऽरण्यवस्थो वाग्निरधूमकः, अधूमत्वादनग्निरेव अगि रगि लगि गत्यर्थाः [ नाद् गमनादग्निः । अनिन्धनो न गच्छति न दहति, अगच्छन्नदहन्ननग्निरेव । भस्मच्छन्नस्यापि बाष्पोष्मपुद्गलनिश्चरणात् सेन्धनत्वं सधूमत्वं च परमार्थतः तत्परिणामादम्यभिहतकाष्ठतृणादीन्धनानां सन्दीपनप्रज्वलनज्यालाङ्गारमुर्मुरभस्मच्छन्नोष्ममात्राद्यवस्थासु लक्ष्णधूम परिणामशून्यत्वात् सर्वत्र धूमेऽग्निर्नियतः 10
“तथा लिङ्गमप्यङ्ग्यपि ।
तथाग्न धूमः ।
एवं च कृत्वात्र प्रयोगः - लिङ्गं धूमो लिङ्गिन्यग्नौ व्यापित्वादेव गमकत्वं भजते विधिवृत्त्यैवेत्यर्थः । कृतकानित्यत्ववदिति दृष्टान्तः, यथा कृतकत्वमनित्यतां व्यामुवद् गमयति तथा धूमोऽप्यग्निमिति । एवं लिङ्ग एंव लिङ्गीत्यपि ग्राह्यम् ।
त्वमतिवदित्यादि । अस्मन्मतेन 'साध्यं साधनं च एकमेव ' इत्युक्तत्वात् परस्परव्यापित्वाद् 15 विधिरूपेणैवोभयतोऽपि गम्यगमकता न व्यावृत्त्येत्यत्र किं चित्रम् ? त्वन्मतेनापि भेदं कृत्वा साध्यधर्मस्याग्नेर्लिङ्गित्वे साधनधर्मस्य धूमस्य लिङ्गत्वेऽपि ब्रूमः - यथा लिङ्गमपि व्यापीत्यादि श्लोकः । येथेोच्यते त्वया -
कामं लिङ्गमपि व्यापि लिङ्गिन्यङ्गि तु तत्ततः ।
20
व्यापित्वान्न तु तत्तस्य गमकं गोविषाणवत् ॥ [ प्र० समु० २ । २१३] इति । किमुक्तं भवति ? सत्यपि किल कृतकानित्यत्रत् संयोगिवद्वृत्त्याऽन्योन्यव्यापित्वे धूम एवाग्नेर्गमको ४५८-२ ननिर्धूमस्य यथा 'गोत्वाद् विषाणी' इति गोत्वं विषाणित्वस्य गमकम् ; न 'विषाणित्वाद् गौः ' इति विषाणित्वं गोः, गज- वृष - महिष- वराहादिषु व्यभिचारादिति । अत्रापि गम्यगमक नियमोsस्मन्मतेनेत्येष श्लोकः - यथा लिङ्गमपि व्यापीति । अस्य व्याख्या - संयोगिवद्वृत्तावित्यादि प्रदेशधर्मत्वात् तस्यैव साध्यसाधनत्वोपवर्णनं प्रागुक्तमतिदिश्य तथा लिङ्गमप्यङ्ग्यपि, वात्यादिव्युदासेनाग्निपरिणामत्वेन बद्ध- 25 मूलत्वादेरुभयलिङ्गलिङ्गिताऽस्यैव प्रागुक्ता स्मर्यताम्, को दोष: ? इति तमेव न्यायं स्मारयति । अत
Jain Education International
२ दृश्यतां पृ० ६१ पं० ७ टि० ३ ॥ २ अगच्छन्ननदहनग्निरेव प्र० ॥ ३° निश्चयंरणात् प्र० ॥ ४ णादीत्ववनानां भा० । 'णादीत्वचनानां य० ॥ ५ मा सून्य प्र० । ६ एवं प्र० ॥ ७ लिंगित्वेऽपि प्र० ॥ ८ मभिव्यापी प्र० ॥ ९ 'न यथोच्यते' इत्यपि पाठः स्यादत्र । तुलना - पृ० ७०४ पं० १३ ॥ १० दृश्यतां पृ० ६५९ पं० १० ॥ ११ प्रति प्र० ॥
For Private & Personal Use Only
www.jainelibrary.org