________________
७०४
४५९-१
व्यभिचारि
लिङ्गस्य लिङ्गिनि व्याप्तिस्तस्मात् सत्येव साधनम् ॥
'विधेयो भावः । तस्य प्रकर्षेण गतिः प्रचारोऽनुत्पिञ्जलगमनिका, न धूमसामान्यानिमगतिवत् । यस्माद् व्याप्तिरेवंविधाऽपेक्ष्यतेऽस्मदिष्टा द्वैविध्येन उभयाव्यभि चारात्मिका यत्र यत्र "तस्मात् सत्येव व्याप्तिः साधनम् ।
धूमो यथाग्निसान्निध्यार्थ विशेषणैरात्मलाभादग्निसान्निध्यं गमयति तथा
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[ अष्टम उभयनियमारे
न यत्तद् गोविषाणवत् । विषाणं हि प्रमेयत्ववद् "इतरवदगौरव्यभिचारी - । किं कारणम् ?
विधेयार्थप्रचारेण यस्माद्व्याप्तिरपेक्ष्यते ।
अत एव च
एव चेत्यादि सहेतुकं प्रतिज्ञातं निगमयति । नियत्तं ( न यत्तद् ) गोविषाणवदिति, यच्छन्दो यस्मा10 दर्थे, तच्छब्दस्त निर्देशे, यस्माद् गोविषाणवदेकतो न व्यभिचरति तस्मादुभयं लिंगं लिङ्गि वेति ग्राह्यम् । तद्व्याख्या - विषाणं हीत्यादि असाधर्म्यदर्शनं गो- विषाणयोः कृतकानित्यत्वयोश्च गतार्थम् । प्रमेयत्ववद् व्यभिचारि विषाणित्वम् । इतरो धूमः, तद्वद् गौरव्यभिचारीति ।
25
किं कारणमित्थमिति चेत्, अस्मदुक्ताया व्याप्तेर्विधिरूपाया एव गम्यगमकत्वादिति । अत आह - विधेयार्थेत्यादि श्लोकः । अत्रापि न यथा त्वयोच्यते-प्रेतिषेध्याप्रचारेण इत्यादि । तद्र्याख्या 15 विधेयो भाव इत्यादि, भावग्रहणमभावरूपाया व्याप्तेर्निराकरणार्थम् । कस्मात् ? अर्थत्वादेव । तस्य भावस्य, नाभावः प्रतिषेध्यः तत्राप्रचारः, स चाप्रमाणफलं भवितुमर्हति अर्थान्तरस्यात्यन्ताभावस्य चाविवक्षितत्वात् प्रागुक्तदोष सम्बन्धाच्च, प्रकर्षेण गतिः प्रचारो वस्तुयथाभावावगम इत्यर्थः, अनुत्पिञ्जलगमनिकेति तदर्थगमनम् अव्यथागमनम् । वैधर्म्येण न यथा त्वदिष्टमिति दर्शयति-न धूमसामान्यानिमगतिवदिति एकतो व्याप्तिं विषाणित्वादिकल्पां दर्शयति । यस्माद् व्याप्तिरेवंविधा परस्परसंसृष्टाऽपेक्ष्यते 20 गतावर्थस्य तस्मात् सत्येव व्याप्तिः साधनमित्यभिसम्भन्त्स्यते, 'वि'शब्दस्य द्वैविध्यार्थत्वात् । तद्दर्शयतिअस्मदिष्टा द्वैविध्येन व्याप्तिरुभयाव्यभिचारात्मिका, तस्मात् किम् ? स्फुटमेवान्वयात्मको दृष्टान्तो नोच्यतेऽस्माभिः, यत्र यत्रेत्यादिरुभयव्याप्तिप्रदर्शनो गतार्थो यावत् सत्येव साधनमित्युपसंहार इति । तस्माद् दृष्टान्तलक्षणमपि साध्येनानुगमो हेतोः [ प्र० समु० ४ । २ ] इत्यादि प्रयोगनियमाभिधानात्मकमनर्थकम्, मुधा भ्रान्तं चात्र [ये ]ति ।
धूमो यथेत्यादि । एवं कृत्वा यथाऽग्निसान्निध्यार्थैर्विशेषणैर्धूमात्मलाभादग्निसान्निध्य[मेवग्निसान्निध्य] साधकं तथा कृतकत्वं घटादौ, घकौरा - Sकार-टकारा- कारविसर्जनीयानां पूर्वस्य पूर्वस्य विनाश
Jain Education International
१ तुलना- पृ० ६८० पं० १ ॥ २ लिंगलिंगि वेति प्र० ॥ ३ पृ० ६७७ पं० २२, पृ० ६८० पं० २ ॥ ४ मध्यथा प्र० । उत्पिञ्जलगमनिका अव्यथागमनमित्यर्थः । " उत्पिञ्जल समुत्पिञ्जपिञ्जलाभृशमाकुले || ३ | ३० ॥ उत्पिञ्जयतीति उत्पिञ्जलः । समुत्पिञ्जयति समुत्पिञ्जः । पिञ्जयतीति पिञ्जलः । भृशमत्यर्थ माकुले ।" - अभिधानचिन्तामणिस्वोपज्ञवृत्तिः ॥ ५ व्याप्तिरेव - विधा प्र० D ६ अस्मद्दिष्टा प्र० । ( अस्मदुद्दिष्टा ? ) ॥ ७ युक्त पसंहारः प्र० । ( °त्युक्तोपसंहारः ? ) ॥ ८ दृश्यतां टिपृ० १३३ पं० ९ ॥ ९ त्वति भा० । त्वावि य० ॥ १० तुलना- पृ० ७०५ ॥ ११ घकाराकारटकारविसर्ज भा० । घटाकाराकार विसर्ज य० ॥
For Private & Personal Use Only
www.jainelibrary.org