Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 351
________________ दिमागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । ६९७ त्वाद् धूमस्यापि । यदि हि स सदा......... । पाण्डूर्धगतिबहलोत्सङ्गयेकदेशबद्धमूलपुनःपुनरुत्थायिधूम[स्याग्निमन्तरेणाभावाद निमित्तनैमित्तिकभाव एषितव्यः] । बलाकापताकावच [सहचरिभावोऽप्येषितव्यः, निमित्तनैमित्तिकभावे सत्यपि] धूमेऽग्नेर्व्यभिचारदर्शनात् । सहचरिनिमित्तोपपत्तौ तु न काचिद व्यभिचारदिक । देशान्तरासश्चारिधूमस्य तत्कालसन्निहिताग्निनिमित्तत्वाद् विशिष्टस्यैव धूमस्याग्नौ गमकत्वम्, विशेषणार्थवत्त्वात् । स यथाग्निमत्त्वं गमयति तथा सन्निहिताग्निनिमित्तत्वमपि । एवं चाग्नेरपि गृहीतत्वाद् न प्रत्यक्षादि प्रमाणान्तरमपेक्ष्यते कृतकत्वेनेपनेन विशिष्टधूमग्रहणं 'तस्मिन्नेव देशे काले च नानुत्पन्नो नातीतो नापनीतो वाग्निः' इत्येतस्या[र्थ]स्य 10 प्रख्यापनार्थम् । सत्यपि सहचरिभावे निमित्तभूत्तं तमग्निमन्तरेण धूमस्यैवाभावाद् निमित्तनैमित्तिकभाव एषितव्यः । ततस्तवधारणार्थानि लिङ्गानि दर्शयन्नाह-पाण्डूर्धगतीत्यादि । पाण्डुविशेषणं बाष्पनीहारादिव्युदासार्थम् । ऊर्धगत्या बहलत्वेन च धूमिकाव्युदासः । उत्सङ्गिग्रहणात् शेरावाकारो विस्तारित्वं सूच्यते, पार्श्वविस्तारित्वाद् धूमिकादीनाम् । एकदेशबद्धमूलग्रहणादभूता-ऽपनीताग्नि-बात्यादिव्युदासोऽनेकत्र भ्रमणादित्वात् तेषाम् । पुनःपुनरुत्थायिधूमग्रहणा[द]पनीताग्निकवासगृहारणिनिर्मथनावस्था- 15 व्युदासः । तस्मात् सलिल-बलाकयोः सहचरिणोरिवाग्निधूमयोर्व्यभिचारदर्शनाद्' निमित्तनैमित्तिकभावोऽपीष्ट इति । सोऽपि निमित्तनैमित्तिकभावः सहचरिभावेन विना व्यभिचरत्येवेति दर्शयन्नाह बलाकापताकावच्चत्यादि यावद् धूमेऽग्नेर्व्यभिचारदर्शनादिति भावना गतार्था, नैमित्तिकसद्भावे निमित्ताभावदर्शनात् स्थपतिकृतप्रासादादिवदिति । तदुभयगतदोषपरिहारेण व्यवयवगुणप्रकाशनार्थं चाह - [सह] चरिनिमित्तोपपत्तावित्यादि यावद् 20 विशेषणार्थवत्त्वादिति । उभयविशेषणसम्पत्तौ सत्यां काचिद् व्यभिचारैदिग् न सम्भवति । तत् कथम् ? इति तद् दर्शयति-देशान्तरासञ्चारीत्यादिना भावयन् , तत्कालसन्निहिताग्निनिमित्तत्वाद् धूमस्य व्यभिचारमलविशुद्धस्य तैर्विशेषणैर्विशिष्टस्यैव सहचरिण्यग्नौ गमकत्वम् , इतरथा धूमस्यापि अग्नेरिव धूमे व्यभिचाराद् विशेषणसामोदेवानुमानार्थवत्त्वम् , विशेषणानुपादानेऽग्निमत्त्वमेव न गमयति उभयतोऽपि सहचरित्वे निमित्तनैमित्तिकत्वे वाऽसति यस्मात् तस्मात् स यथाग्निमत्त्वं गमयति तथा सन्निहिताग्नि-25 निमित्तत्वमपि 'गमयति' इति वर्तते, यथाग्निमत्त्वेन विना नास्ति धूमवत्त्वं तथा तन्निमित्तत्वमन्तरेण नास्तीत्यग्निमत्त्ववन्निमित्तत्वमपि गमयति उभयत्राव्यभिचारादिति । स्यान्मतम्-लिङ्गत्वादग्निः प्रत्यक्षं प्रमाणान्तरमपेक्षेत धूमवदिति । तन्न भवति, एवं चेत्यादि । एवमुक्तबद्धमूलत्वादिविशिष्टधूमपरिग्रहेऽग्नेरपि गृहीतत्वाद् न प्रत्यक्षादिप्रमाणान्तरमपेक्ष्यते । किमिव ? १ नानीतो या० ॥ २ नायतीतो प्र० ॥ ३ पाण्डूर्वगती प्र० ॥ ४ बाप्यनीहा प्र० ॥ ५ सरावा प्र० ॥ ६ तादित्यादि प्र० ॥ ७ रदिङ्गसंभवति प्र० ॥ ८ 'प्य¥गत्वम् प्र० ॥ ९ 'नार्थत्वम् य० ॥ १० पादानाग्निम प्र० ॥ ११ वासति प्र० । 'चासति' इत्यपि पाठोऽत्र भवेत् ॥ १२ धूमवथा तन्नि भा० । धूमत्वं तथा तन्नि य०॥ नय० ८८ ४५४-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403