Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
६९५
10
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
अग्निसाधनवदेव हि धूमसाधनेऽपि विनाग्निना धूमस्य दृष्टत्वाद् व्यभिचाराद् नानुमानसम्भवः।
_ सम्भाव्यते तु धूमदर्शनात् 'अग्निरत्र' इति अग्निदर्शनाद्वा 'धूमोऽत्र' इति, अग्ने रन्धनगृहत्ववत् । यत्र धूमासम्भवस्तत्राग्नेरप्यसम्भवोऽन्तर्जलवत् । अन्वयार्थः सम्भवार्थत्वेन इतरवत् । प्रतीतिरपि तथा । अथवालं भवतु।। ___ 'अग्निरत्र' इति प्रतिज्ञायाम् 'अग्निरेवान' इति नावधार्यते तावत् तत्र पृथिवीन्धनादिसद्भावात् । नापि 'अग्निरत्रैव' इत्यवधार्यते प्रत्यक्षादिप्रसिद्धिविरुद्धार्थत्वात्। नापि 'अग्निरत्र भवत्येव' इत्यवधार्यते सदाग्निधूमाभावात् तत्र।
तस्माद् विवक्षिते देशे काले भवत्यग्निरिति प्रतिज्ञार्थः, अव्युत्पत्तिविध्यनवधृतेः, 'रक्तमिदं करवीरपुष्पम्' इति प्रतिज्ञावत् ।
अत्र ब्रूमः-अग्निसाधनवदेव हीत्यादि अग्नि-धूमयोरविशिष्टगम्यगमकभावापादनग्रन्थो गतार्थः । वासगृहेऽपनीताग्निके [ धूमोऽग्निना ] *'विना दृष्टोऽरैणिनिर्मथने वाऽभूताग्निके *तस्मात् तुल्यो व्यभिचारः।
कथं पुनरनुमानसम्भवः ? सम्भाव्यते तु धूमदर्शनादग्निरत्रेति अग्निदर्शनाद्वा धूमोऽत्रेति, तत् पुनः प्रमाणान्तरगते देशेऽमित एव धूमः, बद्धमूलत्वादिभिधूमाद्वाग्निरिति । तत्र दृष्टान्तः-अग्ने रेन्धन. गृहत्ववदिति त्वरिततरणकरणार्थाज्ञाप्ताग्निहस्तसूपकारके रन्धनगृहे 'धूमः सम्भवति' इति । वैधयेण यत्र 15 धूमासम्भवस्तत्राग्नेरप्यसम्भवोऽन्तर्जलवदिति । धूमोऽग्नेरन्यत्र न सम्भवतीत्यन्वयस्यार्थः सम्भवार्थत्वेन इतरवदिति धूमवत् , यथा धूमोऽग्नौ सम्भवति स कदाचित् कचित् तथाग्निधूमे सम्भवति इत्यन्वयार्थः ४५३. शक्यत एव, प्रतीतिरपि तथा । अथवालि(लं) भवत्विति अलमियता क्रीडितेनेति वस्तुतः प्रतिपत्तितश्च प्रतिपादितमपि अस्माभिर्न प्रतिपद्यसे लिङ्ग-लिङ्गित्वाविशेषं किमर्थम् ? यद्यपि न प्रतिपद्यसे तथाप्यत उत्तरमवयवनिरूपणेनापि प्रतिपादयिष्यामः ।
20 ___ 'अग्निरत्र' इत्यस्यां प्रतिज्ञायामित्यादि । 'अग्निरेवात्र' इति नावधार्यते तावत् तत्र पृथिवीन्धनादिसद्भावात् तदभावेऽनेरेव दुर्लभत्वात् , देशस्यैव वाऽभावात् तदाधेययोरग्निधूमयोरप्यभावापत्तः । नापि 'अग्निरत्रैव' इत्यवधार्यते तत्प्रदेशाग्नितोऽन्येषामग्नीनामनग्नित्वाभ्युपगमे प्रत्यक्षादिप्रसिद्धिविरुद्धार्थत्वात् प्रतिज्ञादोषात् , तत्प्रदेशव्यतिरिक्तेषु प्रदेशेष्वन्यभावात् 'यत्र यत्राग्निस्तत्र तत्र धूमः' इति दृष्टान्तो न शक्यो वक्तुम् , अतस्तन्निरासः । नापि 'अग्निरत्र भवत्येव' इत्यवधार्यते भवतिप्रयोग- 25 व्यवहारेण, ने न भवत्यपि कदाचिदिति । किं कारणम् ? सदाग्निधूमाभावात् तत्र तस्मिन् देशे कादाचित्काग्निव्युदाँसो निरर्थकः सततमग्निधूमयोरभावात् ।
तस्माद् 'विवक्षिते देशे तस्मिंस्तस्मिन् काले भवत्यग्निः' इति प्रतिज्ञार्थः । कस्मात् ? १°नचदेव भा० । नंचदेव य० ॥ २ * * एतदन्तर्गतः पाठो भा० प्रतौ नास्ति ॥ ३°रणिनिमर्थने वा भूताग्निके य० ॥ ४°व्यतोसु धूम प्र० ॥ ५ रत्वन' य० । नत्वन भा०॥ ६ तुलना-पृ०६९१ पं० ५॥ ७ संभवोन्नर्जल° भा० । संभवेनिर्जल य० ॥ ८ अथवालिरुवत्विति भा० । अथवालिसरु
य० ॥ ९चाभावात् भा० ॥ १० तदाचययों य० ॥ ११ प्रयोगाव्यवहारेण प्र० । (प्रयोगाध्याहारेण ?)॥ १२ न भवत्यपि य०॥ १३ दासोनर्थकः भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403