Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 340
________________ न्यायागमानुसारिणीवृत्यलङ्कतं [अष्टम उभयनियमारे __ यत्तुच्यते-ने, तस्य सम्बन्धित्वेनाग्रहणात् । लिङ्गमनुमेयस्थं पूर्व धूमादित्वेन गृह्यते पश्चात्तस्याझ्यादिभिरविनाभावित्वं स्मर्यते [प्र० समु० वृ० २।३७] इति । तदिहापि तुल्यम् , अनुमेयस्थं [वं पूर्व गृह्यते पश्चात् तत्रस्थश्चैत्रोऽविनाभावीति स्मयते] न तद्देशसम्बन्धीति, देशादिस्थानग्निधूमवत् । 5 यत्तक्तम्- 'स्वस्वाम्यादिसम्बन्धाच्छेषसिद्धिरनुमानम्' इत्ययुक्तमिदम् , कस्मात् ? अव्युत्पनस्य तद्गतः । दृष्टः स्वस्वाम्यादिसम्बन्धानभिज्ञानामपि अविनाभावित्वमात्रोपलब्धेनिश्चयः, न चागृहीतः सम्बन्धोऽनुमानस्य कारणम् , ज्ञान कारणत्वेन तस्य ज्ञापकत्वात् [प्र० समु० वृ० २॥३७] इति। एतदयुक्तम्, अविनाभावित्वस्य सहचरिभावसम्बन्धत्वात् तस्मादपि यो निश्चयः सोऽपि स्वाम्याद्यर्थव्युत्पन्नानामेव भवति तदादित्वात् सहचरिभावस्य । 10 सम्बधित्वाल्लिङ्गस्येत्यादि तत्तुल्यत्वप्रदर्शनं गतार्थं यावद् लिङ्गी गृहीत इति । अथान्यथा तन्नोक्त. मिति, यथान्यांस्त्वमुद्धट्टयसि स्वाम्यादित्वेनाग्रहणेऽन्यथा ग्रहणं चेत् तन्नोक्तमिति तथा वयमपि त्वामुद्धदृयामः-अन्यथा लिङ्गे ग्रहणं स्वस्वाम्यादिषु अन्यथेति चेन्मन्यसे तन्नोक्तमिति । अत्र यत्तूच्यते त्वया-मा मंस्था लिङ्गग्रहणे तुल्यमिति, लिङ्गे त्वस्ति विशेषः-न, तस्य सम्बन्धि[त्वेनाग्रहणात् । न हि लिङ्गं सम्बन्धित्वमात्रेण गृह्यते, किं तर्हि ? अनुमेयदेशस्थं धूमादित्वेन 15 पूर्व गृह्यते, पश्चात् तस्याग्न्यादिभिरविनाभावित्वं स्मर्यते, आदिग्रहणाच्छब्दस्य कृतकादित्वेन प्राग् ग्रहणं पश्चादनित्यत्वाविनामावित्वेन स्मर्यत इति सर्वत्र व्यापीति । अत्रोच्यते-तदिहापि तुल्यमित्यादि । ४४. तत्तुल्यत्वभानम् – अनुमेयस्थमित्यादि यावन्न तदेशसम्बन्धीति गतार्थम् । देशादिस्थाननिधूमवदिति दृष्टान्तः, यथाऽग्निरभवन धूमो देशादिस्थः प्राग् गृह्यते प्रत्यक्षोऽप्रत्यक्षाग्नेरन्यत्वात् ततः पश्चात् 'अग्निरिह' इत्यनुस्मयते तथाश्वः स्वं चैत्रादन्यो गृह्यते प्रामादिस्थः ततः पश्चात् तत्रस्थश्चैत्रोऽविनाभावीति स्मर्यते 20 'इहाग्निः' इति धूमसम्बन्ध्यग्निस्मरणवदिति तुल्यमिति । यत्तूक्तमित्यादि । 'स्वस्वाम्यादिसम्बन्धेन सम्बन्धाच्छेषसिद्धिरनुमानम्' इत्यस्य लक्षणस्य दोषस्तेनोक्तः, अत्र ब्रूमः-अयुक्तमिदम् । कस्मात् ? अव्युत्पन्नस्य तद्गतेरित्यादि तन्मतप्रत्युच्चारणं यावज्ज्ञापकत्वादिति, स्वस्वाम्यादिसम्बन्धानभिज्ञा अपि धूमादग्निमविनाभावसम्बन्धाद् निश्चिन्वन्तो दृश्यन्ते, स च मा भूदगृहीतसम्बन्धत्वान्निश्चयः, ज्ञानकारणत्वं हि ज्ञापकस्य हेतोर्लिङ्गादेहीतस्वरूपस्य 25 नोत्पादकबीजादिवदिति । - एतदयुक्तम् । कस्मात् ? अविनाभावित्वस्य सहचरिभावसम्बन्धत्वात् , न विना भवति सह भवति सह चरतीत्येकोऽर्थः । तस्मादपि सहचैरिभावसम्बन्धाद् यो निश्चयः सोऽपि स्वाम्याद्यर्थव्युत्पन्नानामेव भवति, नाव्युत्पन्नानाम्। कस्मात् ? तदादित्वात् स्वस्वाम्यादित्वात् सहचरिभावस्य, सप्तानां सम्बन्धाना १ दृश्यतां पृ० ६८३ टि० २॥ २ तुलना-पृ० ६८४ पं० १॥ ३ ग्रहणतुल्य प्र०॥ ४ भावम् य० ॥ ५ प्रत्यक्षे प्रत्यक्षाग्ने प्र०॥ ६ संबंधात्वान्नि भा०॥ ७°जादिति भा०॥ ८सहचारि प्र० । दृश्यता पृ० ६९६ पं० १६॥ ९चरतीत्यर्थः य० ॥ १० चरितभावसंबंधत्वाद् य० ॥ ११ स्वाम्यादित्वात् सहचरितभावस्य य०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403