Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 344
________________ ६९० न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे भिव्यञ्जकत्वव्यक्तेः । तथेहापि, चैत्राश्वोदाहरणं स्वस्वामिसम्बन्धस्योपलक्षणार्थमग्निधूमानित्यकृतकत्वादिषु । सोऽत्र, तद्वत्सत्त्वात् , पूर्ववत् । नन्वेवमविनाभावोपवर्णनमेवेदम् । एवमेवैतत्, आधाराधेयसंयोगिवद्वृत्त्यभेदात् त्वदुक्तस्य व्यावर्तितत्वादस्मदभिहितेस्तु पूर्वत्वात् । त्वया न ज्ञातमनुमान5 स्वरूपं सत् मया ज्ञातम् । यथा त्वमाह तथा सम्बन्धानुमानकदेशस्य भाष्यमात्रमेवेदम्, तदनतिरिक्तार्थत्वात्, वृद्धिरादैजर्थव्याख्यानवत् । एवं च द्रव्याथासत्यो तत्साधर्म्य योजयति । चैत्राश्वेत्यादि, यञ्चैत्राश्वोदाहरणमत्रानुमानलक्षणभाष्ये तत् स्वस्वामिसम्बन्धस्योपलक्षणार्थमग्निधूमानित्यकृतकत्वादिषु तुल्यन्यायत्वात् । सोऽत्र स इत्यप्रत्यक्षोऽग्निचैत्रानित्यत्वादिधर्मः 'अत्र' इति प्रदेशे प्रत्यक्षाद् धूमाश्वकृतकत्वादेः पक्षधर्मात् साध्यार्थः पक्षोऽवगम्यताम् । तद्वत्सत्त्वादिति 10 हेतुः, सोऽस्मिन् सम्बन्धी वह्निचैत्रशब्दादिरस्तीति तद्वान् धूमाश्वकृतकत्वादिः, स एव धर्मः सन् तस्य भावात् तद्वत्सत्त्वात् । यत्र यत्र तद्वत्सत्त्वं तत्र तत्र सोऽस्ति, पूर्ववत्, यथा पूर्वोत्तरधूमादिरम्यादिना सम्बन्धात् तत्स्वामिक एव तेथेहापीत्येवमादीनामुपलक्षणार्थं चैत्राश्वोदाहरणमिति । अत्राह-नन्वेवमविनाभावोपवर्णनमेवेदम् । नन्वित्थमविनाभावसम्बन्धो मदिष्ट एव, अव्यभिचाराकाङ्क्षानुमानत्वादिति । अत्रोच्यते-वयमपि ब्रूमः-एवमेवैतत् अविनाभावसम्बन्धात् स्वस्खाम्यादि15 विकल्पादनुमानम् । कस्मात् ? आधाराधेयसंयोगिवद्वत्त्यभेदात् , आधाराधेयवद्वृत्तेः संयोगिवद्वत्तेश्चा भेदात् यत्त्वयोक्तम्-आधाराधेयवदृत्तिस्तस्य संयोगिवन्न तु [प्र० समु० ] इति, तस्य व्यावर्तितत्वात् । किञ्चान्यत् , अस्मदभिहितेस्तु पूर्वत्वात् , दिन्न-वसुबन्ध्वादिभ्यो बुद्धाच्च पूर्वकालत्वात् कापिलस्य तन्त्रस्य आर्हतैकदेशनयमतानुहारित्वाच्च तदनुमानस्य तच्चास्मन्मतोपजीवनमेव । त्वया न ज्ञातमनुमानस्वरूपं सत् मया ज्ञातमिति । 20 तद्व्याख्या यथा त्वमित्यादि । भाष्यमात्रमेवेदमिति पक्षः, सम्बन्धानुमानैकदेशस्यैवैतल्लक्षणस्य ४५०-१ भाष्यमात्रं *त्वत्प्रयासफलम् , तदनतिरिक्तार्थत्वात् , यद् यतोऽनतिरिक्तार्थव्याख्यानं तत् तदेकदेशस्यैव भाष्यमात्रम् यथा 'वृद्धिरितीयं संज्ञा भवति आदेचां वर्णानाम् , संज्ञाधिकारः संज्ञासम्प्रत्ययार्थः' इत्यादि वृद्धिरादैच् [पा० १।१।१] इत्यस्य, तथेदं त्वदीयमविनाभावसम्बन्धव्युत्पादनमस्मज्ज्ञातस्य सम्बन्धानुमानैकदेशस्य भाष्यमात्रम् , तदपि सर्वं न विदितमित्यभिप्रायः । कापिलमपि चास्मदुपज्ञमेव द्रव्यार्थविकल्पैक25 देशत्वादिति चाभिप्रायः । अत आह-एवं च द्रव्यार्थासत्योपाधिसत्यार्थव्याख्यानुज्ञा कृता त्वया 'सामान्योपसर्जनो विशेषः शब्दार्थः' इति द्रव्यार्थस्याप्यनुज्ञानादभ्युपगतं भवति द्रव्यार्थवादिमतार्जुमानलक्षणानुज्ञानात् । तस्यां चासत्योपाधिसत्यार्थव्याख्यानुज्ञायां 'लिङ्गिनो लिङ्गत्वं प्रसक्तम्' इत्यस्याभावः, न १ इत्यत्रप्रत्यक्ष प्र. । (इत्यत्राप्रत्यक्षों)॥ २ तद्वानुमाश्च प्र.॥ ३स्वत्तस्य प्र०॥ ४(पूर्वोऽत्र धूमादि)॥ ५ तत्वेहा प्र०॥ ६ भावोपर्णन प्र०॥ ७वन्निति भा० । वन्निति य० । दृश्यतां पृ० ६७८ पं० ६॥ * * एतचिह्नान्तर्गतः पाठो य. प्रतौ नास्ति ॥ ९नुमानं लक्ष य०॥ १० तस्या प्र०॥ ११ दृश्यतां पृ. ६८२ पं० १६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403