Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 345
________________ न ''""" दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । ६९१ पाधिसत्यार्थव्याख्यानुज्ञा कृता त्वया । तस्यां च नहि लिङ्गिनो लिङ्गत्वं प्रसञ्जयितुं शक्यम् । तथापि स्यात् विवक्षाभेदात् तथा तथा स्वखाम्यादिगम्यगमकत्वात् । तद्यथा देवदत्त यज्ञदत्तयोः संयुक्तयोरन्योन्यं लिङ्गत्वं लिङ्गित्वं च भवति तथा स्वस्वाम्यादिषु । तथाहि राज्ञो लाजपेयातरणं तत्करणाज्ञया... . . . . . . . . । न, संयोगित्व एकरूपत्वाद् अग्नितोऽपि धूमानुमितिप्रसङ्गः । तत्काल एव च धूमोऽस्ति । न, असम्भवात् । प्रत्यक्षत्वाद्भूमोऽसाध्यः, साध्यस्त्वग्निरप्रत्यक्षत्वात् संयोग्येकरूपत्वाचानिष्टापादनमनपेक्षितार्थम् । संयोगित्व...... । यत् पुनरिदमुक्तम्-यस्य त्वविनाभावित्वं सम्बन्धोऽभिमतस्तस्यायमदोषः [प्र० समु० वृ० २।३७] इति । अत्र गुणदोषाभिमान: 110 हि लिङ्गिनोऽप्रत्यक्षस्य लिङ्गत्वं प्रत्यक्षत्वं प्रसञ्जयितुं शक्यमृद्धिमद्भिर्बुद्ध-बोधिसत्त्वादिभिरपि यथोक्तोऽस्माभिरव्यतिकर इति । तथापि स्यादित्यादि । न हि लिङ्गस्य लिङ्गित्वे लिङ्गिनो वा लिङ्गत्वे कश्चिद् दोषोऽस्ति विवक्षाभेदात् तथा तथा स्व-स्वाम्यादिगम्यगमकत्वात् , स्वं वा गम्यत्वेन गमकत्वेन वा विवक्ष्येत स्वामी वा यदा तदा विवक्षितस्यान्यतरस्य गम्यत्वं गमकत्वं वा यथाविवक्षं दृश्यते, तद्यथा-देवदत्तेत्यादि 15 दृष्टान्तः, यथा कस्मिंश्चित् कालेऽन्यतरकर्मणा देवदत्तो यज्ञदत्तेन युक्तो भवति यज्ञदत्तो वा देवदत्तन तयोश्चान्योन्यं लिङ्गत्वं [लिङ्गित्वं ] च पर्यायेण विवक्षावशाद् भवति युगपद्वोभयकर्मजसंयोगित्वात् तथा ४५०-२ स्वस्वाम्यादिष्विति । तथाहीत्यादि राज्ञो विशेषितस्य लाजपेयातरणं तत्करणाज्ञयेत्यादि गतार्थमग्निना धूमानुमानमिति । ____ अत्राह–न, संयोगित्वं एकरूपत्वादित्यादि । नाग्नेः पूर्व पश्चाद्वा धूमः संयोगी न धूमो 20 वाग्नेरिति मत्वाऽनिष्टमापाद्यते-अग्नितोऽपि धूमानुमितिप्रसङ्ग इति; किं तर्हि ? तत्काल एव चाम्युपलब्धिकाल एव 'धूमोऽस्ति' इति भवत्येवानिष्टापादनमिदं व्यतिकरप्रसङ्ग इति । अत्रोच्यते-न, असम्भवात्, न सम्बन्धाविशेषादग्निलिङ्गत्वं [धूमलिङ्गित्वं] च प्राप्तम् , किं तर्हि ? प्रत्यक्षत्वाद्धमोऽसाध्यः साधनं तु, साध्यस्त्वग्निरप्रत्यक्षत्वादनुमेयत्वादसाधनम् । धूमोऽपि साध्यश्चेत् प्रत्यक्षमप्रमाणं स्यात् तदप्रामाण्ये चानुमा निर्बीजा स्यात् । 'अनुमितिः' इत्यपशब्देन परानुकरणं 25 दोषश्चैष स्यादिति । किश्चान्यत् , संयोग्येकरूपत्वानुमानाच्चानिष्टापादनम् 'अग्नितोऽपि धूमानुमानप्रसङ्गः' इति यदेतद् भवत्साधनमेतदैनपेक्षितार्थम् । तत्प्रदर्शनार्थ साधनम्-संयोगित्वेत्यादि गतार्थमनिष्टापादनम् । यत् पुनरिदमित्यादि स्वपक्षे दोषाभावप्रदर्शनार्थं यदुक्तं त्वया यस्य त्वविनाभावित्वमित्यादि १ दृश्यतां पृ० ६८३ टि० २ ॥ २ दृश्यतां पृ० ६८३ टि० २ ॥ ३ मद्भिर्बुधबोधि प्र० ॥ ४ °व्यतिकरमिति य० । व्यति भा० ॥ ५ म्यादीगम्य प्र०॥ ६°श्चान्यलिंगत्वं य० ॥ ७ वाजपेयाप्र० ॥ ८ तत्कारणाप्र० । दृश्यतां पृ० ६९५ पं० १५॥९°त्वरूपत्वा य० ॥ १० नमितिदं य० ॥ ११ वात् सत्यं बंधाविशे प्र० ॥ १२ °दनुपेक्षि य० ॥ १३ पुनरित्यादि य० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403