Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 331
________________ दिङ्गागप्रणीत पोहवाद निरासः ] द्वादशारं नयचक्रम् साधनधर्मभावाल्लिङ्गिनि लिङ्गस्यासम्भवो न सम्भवति तयोस्तत्रैव प्रधानोपसर्जनभावेन परस्परं नियतभावत्वात् । अग्निमत्प्रदेशपरिचिच्छित्सायाम् · तत्सम्बन्धिमत्प्रतिपत्तिश्च यदि च तस्य देशस्य तल्लिङ्गतां लभते, तयोरेकवस्तुधर्मत्वात् । नासम्भवन् धूमो लिङ्गतां लभते अपक्षधर्मत्वात् । वनस्पतिचैतन्ये खापवद् धूमः सन्देहहेतुः स्यात् पक्षाच्या पिसाधनधर्मत्वात् तत्प्रतिपत्त्याधानाधारधर्म भावात्मकप्रत्ययाव्यवस्थानकारणत्वात् स्थाणुपुरुष भावाभावप्रतिपत्तिवत् । ६७७ धूमवत्त्वेन साधनं प्रत्यक्षधूमकत्वात् । तस्माद्विशिष्टदेश साध्यसाधनधर्मभावाद् लिङ्गिनि साध्ये लिङ्गस्य साधनस्य असम्भवो न सम्भवति, सम्भव एव सम्भवतीत्यर्थः । कस्मात् ? तयोस्तत्रैव प्रधानोपसर्जनभावेन परस्परं नियतभावत्वात्, अग्निः प्रधानं धूमनिर्वृत्तौ धूमस्याग्निपरिणामत्वात् तन्नि- 10 र्वर्त्यत्यात् । धूम उपसर्जनमग्निनिर्वृत्तौ तत्परिणामत्वाभावादतन्निर्वर्त्यत्वात् । धूमः प्रधानमन्निगतौ, तल्लिङ्गत्वात् तमन्तरेणानिर्वृत्तेरनुपपत्तेरविनाभावात् । उपसर्जनमग्निर्धूमगतौ, अप्रत्यक्षत्वात् तत्कालदेशयोः, अन्यथा भवत्येवेत्युक्तत्वात् तेनान्योन्यप्रधानोपसर्जनभावेन नियमेन भवन्तौ तौ धर्मावनिधूमाख्यौ देशस्यैकस्य भेदविवक्षायां साध्य - साधने भवतः । तद्वयाख्या- -अग्निमत्प्रदेशपरिचिच्छित्सायामित्यादि पूर्वं गमकत्वेन लिङ्गस्य धूमस्य प्राधान्यं 15 गम्यस्य लिङ्गिनोर्गुणभावं दर्शयति यावत् तत्सम्बन्धिमत्प्रतिपत्तिश्चेति । ततः परं यदि च तस्य देशस्येत्यादिना निर्वृत्तावग्नेः प्राधान्यं धूमाप्राधान्यं च यावत् तल्लिङ्गतां लभत इति । पक्षधर्मत्व-सपक्षानुगति - ४४२-१ विपक्षव्यावृत्तिरूपतां व्याख्याय धूमस्य पूर्वेणाग्निसाध्यतां गमयति । उत्तरेणाग्निविशिष्ट देशसाध्यत्वं व्याख्याय तद्बलनिर्वृत्तधूमप्रत्यक्षतायां त्रैलक्षण्येन गमकत्वं धूमस्य व्याचष्टे । तयोरेकवस्तुधर्मत्वादिति, एतदुक्तं भवति–सम्भवतोरेव लिङ्गलिङ्गिनोः साध्यसाधनभावोऽन्वयप्राधान्यात् नापोहप्राधान्यात् । न चेदिच्छसि 20 ततोऽनिष्टापादनसाधनम् - नासम्भवन् धूमो लिङ्गतां लभते, अपक्षधर्मत्वात् । त्वन्मतादेव सर्वलिङ्गिन्यसम्भवात् सिद्धमपक्षधर्मत्वम् । यत्र यत्रापक्षधर्मत्वं तत्र तत्र तल्लिङ्गत्वाभावः, यथा तस्मिन् प्रदेशेऽनभिधूमादेरधूमायोग्न्यादिकाले वा । किञ्चान्यत् प्राक्छब्दे व्याख्यातमधुना लिङ्गेऽप्युच्यते वनस्पतिचैतन्ये स्वापवदित्यादि । 'अग्निमानयं देशः धूमवत्त्वात्' इत्यस्मिन् साधने त्वदभिमत्या धूमः सन्देहहेतुः स्यात्, पक्षाव्यापि साधनधर्मत्वात्, तद्व्याख्या - तत्प्रतिपत्त्याधानेत्यादि दण्डकहेतुः । 25 तस्य प्रतिपत्तिस्तत्प्रतिपत्तिः, तस्या आधानं तत्प्रतिपत्त्याधानम्, तस्याधारो धर्मः, तस्य भाव आत्मा यस्य स भवति तत्प्रतिपत्त्याधानाधारधर्मभावात्मकः प्रत्ययो यथास्माभिर्व्याख्यातः । तस्य प्रत्ययस्याव्यवस्थाने कारणीभवति स धूमस्त्वन्मतेन पक्षाव्यापिसाधनधर्मत्वात् सर्वत्र लिङ्गिन्यभावादनियतलिङ्गि सम्भवत्वात् । किमिव ? स्थाणु- पुरुषभावाभावप्रतिपत्तिवत् । यथा स्थाणावभवन् वस्त्रसंयमनादिधर्मः पुरुषे च भवन १ मत्प्रदेशपरिविच्छित्साया भा० । 'मत्प्रक्षेपरिविच्छित्साया य० ॥ २ यावलिंगतां य० ॥ ३ दृश्यतां पृ० ६८१ ॥ ४ न्यान्यापोह य० ॥ ५ न्यनुवेदमिच्छसि भा० । न्यननु चेदिच्छसि य० ॥ ६ प्रदेशमादेर्धूमायोश्यादि प्र० ॥ ७ पृ० ६६५ पं० १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403