Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 329
________________ दिङ्गागप्रणीता पोहवादनिरासः ] द्वादशारं नयचक्रम् यन्ते तेsपि लिङ्गेन 'लिङ्गिनो येऽनुबन्धिनः । विशेषा न तु गम्यन्ते तस्यैव व्यभिचारिणः ॥ लिङ्गानुबन्धिनस्त्वर्था गमयन्ति न लिङ्गिनम् । यभिचाराद् विशेषास्तु प्रतीताः प्रतिपादकाः ॥ [प्र० १६३ समु० २१८३] किमङ्गम् . . . . . . . * *** यत्तूक्तं नै सर्वत्र लिङ्गिनि लिङ्गं सम्भवति यथा अग्निरत्र धूमात् [ ] तदिदमयप्रेक्ष्यवादिता । यदि लिङ्गयेव तत् सर्वं कथं तस्य लिङ्गं नास्ति ? अथ नास्ति लिङ्गं कथं तद्वान् । ६७५ अग्निधूमोदाहरणे च 'अग्निरत्र' इति निर्देशादग्निमत्त्वेन देशस्य साध्यत्वादग्निमति प्रदेशे सर्वत्र धूमवत्त्वं लिङ्गमस्त्येव । || 5 तैरविनाभावाल्लिङ्गस्य । विशेषास्तौष - कारीषादयो न गम्यन्ते तस्यैव, व्यभिचारित्वाद् लिङ्गस्य विशेषैः सहादृष्टत्वात् । एवं लिङ्गस्यान्यव्यावृत्तं सामान्यं गमकम्, नाव्यावृत्तमन्यतः सत्त्वादि । लिङ्गिनः सामान्यं गम्यं निवृत्तमनग्न्यादिभ्योऽग्नित्वं सत्त्वादि चाग्नित्वानुबद्धमव्यभिचारादिति । लिङ्गे त्वयं पुनर्विशेषः-लिङ्गानुबन्धिनस्त्वर्था इत्यादिश्लोकः । पूर्वोदाहृताः सामान्यधर्माः सत्त्वादयो लिङ्गस्य धूमस्य न गमयन्ति, उक्तकारणत्वात् । विशेषास्तु केचिद् लिङ्ग्यविनाभाविन: 15 प्रतीताः प्रतिपादकाः पाण्डुत्व - बहुलत्वादय इति । एतत् पुनः कथं पूर्ववदलक्षणम् ? इत्यत आह- किमङ्गमित्यादि लोकत्रयं क्षेपप्रस्तारेणोपन्यस्तं समस्तस्य त्वदुक्तस्यार्थ जातस्य पूर्वोक्तेन ' न भवति, न भवति' इत्यभवनपरमार्थत्वात् खपुष्पवदर्भावेन गम्यगमक नियमो नास्त्येवेति गतार्थम् । 10 किञ्चान्यत्, यत्तूक्तमित्यादि पूर्वपक्षप्रत्युच्चारणं यावद्धूमादिति । यत् स्वार्थस्यांशेऽपि दर्शनाद 20 गमकत्वं समर्थयतोक्तं 'न सर्वत्र लिङ्गिनि लिङ्गं सम्भवति' इति, तदिदमप्यप्रेक्ष्यवादितया, ४४१-१ न वादिता कौशलमित्यभिप्रायः । तद् व्याचष्टे - यदि लिङ्गयेवेत्यादि । लिङ्गमस्यास्तीति लिङ्गि, यदि तत् सर्व लिङ्गि भस्माङ्गारायगुडपाकाद्यग्न्याख्यं वस्तु कथं तस्य लिङ्गं नास्ति लिङ्गाभावे लिङ्गित्वस्यैवाभावात् ? मत्वर्थीयेनिर्देश्यस्य लिङ्गित्वाभ्युपगमादेव लिङ्गास्तित्वमित्यभिप्रायः । अथ नास्ति लिङ्गं कथं तद्वान् ? 'लिङ्गमस्यास्ति' इति लिङ्गवान् लिङ्गीत्यर्थः, मत्वर्थीयनिर्देश्यो न भवितुमर्हति सोऽर्थस्तन्नि- 25 मित्तत्वाभावादिति स्ववचनविरोधि ते वचनमिति । Jain Education International अग्निधूमोदाहरणे चेत्यादि । इदं तावत् प्रष्टव्योऽस्ति - 'अग्निरत्र धूमात्' इति इदमः प्रत्यक्षविषयस्य प्रातिपदिकस्य सप्तम्यन्तनिर्देशे 'अत्र' इति प्रत्यक्षोपलभ्यधूमाधारप्रदेशाभिसम्बन्धो धूमवत्त्वाद्धूमादिति यथा 'अग्निरत्र' इति धूमाधार प्रदेशप्रत्यक्षनिर्देशादग्नेः परोक्षस्य जिज्ञासितत्वात् तद्वत्त्वेन देशस्य For Private & Personal Use Only १ (ये लिङ्गिन्यनुबन्धिनः ? ) ॥ २ दृश्यतां पृ० ४५७-२ ॥ ३ सांख्यकारिका युक्तिदीपिकायाम् [ पृ० ४५] उद्धृतमेतत् ॥ ४ दृश्यतां पृ० ६५२ पं० १३, पृ० ६६२ पं० १ ॥ ५ चाग्निनानु य० ॥ ६ स्वार्था प्र० ॥ ७ क्षेपप्रश्नारे भा० । प्रेपप्रस्तारे' य० ॥ ८ भावे गम्य भा० ॥ ९ पृ० ६५२ पं० १ ॥ १० नवाधिवाकौशल प्र० । ( न वादिवाकौशल ? ) ॥ ११ यनिर्देशस्य लिंगि मा० । 'यनिर्देश्य लिंगि य० ॥ १२ समाधार प्र० ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403