Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 296
________________ ६४२ न्यायागमानुसारिणीवृत्यलङ्कतं अष्टम उभयनियमारे रूपादिरूपादिस्वरूपशब्दार्थत्ववत् । पर्यायशब्दा अपि तद्विधानाः घटनविशेषस्य कुटनकुम्भाद्यर्थात्मकत्वात् । [न] हि कुटन[-कुम्भताभ्यां विना घटनम्, नापि घटनं विना कुटन-कुम्भते] । इत्येतदवगम्यताम्-सामान्यविशेषपर्यायशब्दार्थानामन्यत्वेऽपि विधिप्राधान्यादेव तान्नापोहते। 5 विध्यतिक्रमे स्वप्रस्तुतासत्त्वशब्दार्थापत्तरन्यापोहायुक्तिश्च । विधिपक्षे तु साक्षादेव स्वार्थ ब्रूते । पर्यायशब्दस्य तावद् विधेय एवार्थः, दर्शनात् , द्विमातृवत् । विशेषणवरूपापन्नविशेष्यप्रतीतित्वाद् युगपदप्रयोगेऽपि स एव भेदः प्रतीयते । न हि खार्थानुपातित्वाद् विधिः खरससमापतितः प्रतिक्षेप्तुं युक्तः। पर्यायशब्दा अपीत्यादि । ये पुनः पर्यायशब्दास्ते तद्विधाना एवमेव विशेषं विदधति, घटन10 विशेषस्य कुटन-कुम्भाद्यर्थात्मकत्वात् , तस्य कुटिलता कुटनम् , घटनं चेष्टा, कुम्भता वृत्तत्वम् । ताभ्यां घटन-कुटनाभ्यां विना नास्ति कुम्भता नाम काचित् , तया वा विना न घटन-कुटने स्त इति [न ?] हि कुटनेत्यादिनान्योन्याविनाभावं दर्शयति । प्रकृतमुपसंहरति-इत्येतदवगम्यतामित्यादिना । इत्थं प्रतिपद्यस्व यथा 'घटः' इत्युक्ते पटस्तत्प्रतिपक्षशब्दार्थोऽन्यस्तथैवाप्रतिपक्षसामान्य-विशेष-पर्यायशब्दार्था अन्ये, ततस्तेषामन्यत्वे तुल्ये विधि15 प्राधान्यांदेव तान् नापोहते, नान्यत् कारणं विधेः । अतोऽस्माकमपवादलक्षणान्तरारम्भक्लेशाहते व्यापि युक्तं चासत्योपाधिसत्यविध्यर्थलक्षणशब्दार्थकथनं श्रेयोगुणप्रकर्षयुक्तं च । ४२१-२ भवतस्तु विध्यतिक्रमे त्वप्रस्तुतासत्त्वशब्दार्थापत्तेरन्यापोहायुक्तिश्च । यदि विधिर्नेष्यते ततो न केवलौवव्याप्त्यतिप्रसङ्गदोषावेव, किं तर्हि ? एषोऽप्यनिष्टोपचयः-उदकाद्याहरणार्थिने 'घटः' इत्युक्ते तंत्राप्रस्तुतस्य अविवक्षितस्य पटादेरघटस्याऽसत्त्वं व्यावृत्तिरविवक्षितोऽशब्दार्थ एव शब्दार्थ इत्येतदापन्नम् । 20 अनिष्टं चैतदिति । __ किञ्च; विधिपक्षेऽस्मदिष्टे साक्षादेव अव्यवहितमेव स्वार्थ ब्रूत इत्येष च विशेषः । तद्यथापर्यायशब्दस्य तावदित्यादि यावत् प्रतिक्षेप्तुं युक्त इति । पर्यायशब्दस्य घट-कुटादेविधेय एवार्थः, कस्मात् ? दर्शनात्, विधेयत्वदर्शनात् , तदेव हि विधेयं घटनं कुटनमुभयं वा । किमिव ? द्विमातृवत् , यथा विशेष[ग]द्वारेण विशेष्यप्रधाने निर्देशे 'राधकमाता, पूर्णकमाता, राधकपूर्णकमाता' इति द्वाभ्याम25 न्यतरेण वा विशेष्यते सैव तथा विशेषणस्वरूपापन्नविशेष्यप्रतीतित्वात् सम्बन्धिविशिष्टरूपप्रतिपत्तेरित्यर्थः, युगपदप्रयोगेऽपीति निमित्तभेदेऽप्यर्थै कत्वाद् युगपदप्रयोगेऽपि स एव निमित्तोपलक्षितो भेदः प्रतीयते । स्यान्मतम्-निमित्तभेदे निमित्तिभेदात् किमर्थं निमित्तान्तरापोहो न भवतीति, एतच्च न हि स्वार्थानुपातित्वाद् विधिः खरससमापतितः प्रतिक्षेप्तुं युक्तः । निमित्तान्तरेणापि तस्यैव विशेषार्थस्य १ प्रतिपाद्यश्व प्र० ॥ २°न्यादेवदत्तान् प्र० ॥ ३°क्रमेण प्रस्तुत य० ॥ ४ (पत्ति? ) ॥ ५ लावव्याप्यति भा० । लावध्यायति य० ॥ ६ तवाप्र भा०। ७ टस्यात्वं प्र०॥ ८ अवविहतमेव य० । अविहितमेव भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403