Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 317
________________ 10 दिनागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । यः स वृक्षशब्दस्तदितरो वा तस्य तेनार्थेन न शक्यते सम्बन्धः कर्तुम् , तेन सहात्यन्तमदृष्टत्वात् , श्रावणत्वनित्यानित्यत्ववत् । न च सम्बन्धद्वारं मुक्त्वा शब्दस्य लिङ्गस्य वा स्वार्थख्यापनशक्तिरस्ति । स च सम्बन्धो नास्ति उक्तवत् । अत एव न नास्ति व्यभिचारिता, असाधारणधर्मत्वात् । 'यो ह्यसाधारणः पक्षधर्मः स यावता भेदेन सर्वसङ्ग्रहस्तत्र संशयहेतुः तद्वता तत्सङ्ग्रहादेकान्तव्यावृत्तेश्च [ 4० समु० वृ० ? ]। 5 तदुपसंहृत्य प्रतिज्ञायते-यः स वृक्षशब्दो यस्य स वृक्षोऽर्थः तदितरो वेत्यवृक्षशब्दावृक्षार्थयोः ४३३-२ सम्बन्धो वृक्षशब्दार्थयोः प्रतिपत्त्यर्थः, तस्य शब्दस्य तेनार्थेन लोकप्रसिद्धेन वा त्वदभिप्रायान्न शक्यते सम्बन्धः कर्तुमिति पक्षः, तेन सहात्यन्तमदृष्टत्वात् श्रावणत्वनित्यानित्यत्ववदिति गतार्थ साधनम् । नं च सम्बन्धद्वारं मुक्त्वा शब्दस्य लिङ्गस्य वा स्वार्थख्यापनशक्तिरस्तीति त्वयैवोक्तोऽयं न्याय इति दर्शयति । स च सम्बन्धो नास्ति उक्तवत् , उक्तं सम्बन्धदौष्कर्यम् । अत एवेत्यादि । एतस्मादेव सम्बन्धदौष्कर्याद् यदुक्तं त्वया भेदाभिधानपक्षे दोषजातं *व्यभिभिचारः, सोऽपोहपक्षे न चास्ति व्यभिचारितादोषः, भेदानभिधानादिति । तदपि न भवति, न नास्ति व्यभिचारिता अस्त्येव सम्बन्धदौष्कर्यस्योक्तत्वात् न नास्ति अस्त्येव व्यभिचारितादोष इति १“तथा च आचार्येणाप्ययं व्यतिरेकी कथितः । तथाचाह-यो ह्यसाधारणः साधनधर्मः स यावता भेदेन सर्वसंग्रहस्तत्र संशयहेतुः, तद्वता तत्संग्रहादेकान्तव्यावृत्तेश्च ।”-प्र० वार्तिकालं० पृ० ६२९ । “युक्तं तावत् चतुर्विधस्य [अनै कान्तिकस्य ] उभयत्र सत्त्वात् संशयहेतुत्वम् । श्रावणत्वस्य कथम् ? असाधारणत्वात् । यो ह्यसाधारणः साध्यधर्मः स यावता भेदेन सर्व भाव Psv]संग्रहस्तत्र संशयहेतुः, तद्वता तत्संग्रहादेकान्तव्यावृत्तेश्च ।"-प्र० समु० वृ० Psvc. ed. पृ. ४७, N. ed. पृ० ५१ B, Psy: N. ed. पृ० १३४ A । अस्य व्याख्या-"युक्तं तावदिति । चतुर्विधस्य संशयहेतुत्वे कारणमुभयत्र सत्त्वमस्ति । ततः प्रमेयत्वादिना संशयो जन्यते । श्रावणत्वे तन्नास्तीत्याहश्रावणत्वस्य कथमिति केन प्रकारेणेति कारणादर्शनात् पृच्छति । असाधारणत्वादिति कारणमाह । यद्यसाधारणः संशयहेतुत्वं कुत इत्यत आह-य इत्यादि । साध्यधर्म इति पक्षधर्मः । अनेन सम्बद्धत्वमुक्तम् । असम्बद्ध चाक्षुषत्ववद् विचाराभावात् । यावता भेदेनेति नित्यानित्यभावभेदेन वा साश्रवानाश्रवभेदेन वा तीर्थकरव्यवस्थापितभावभेदेन वा सर्वभावसङ्ग्रहस्तत्र तेषु भावेषु संशयहेतुः । तद्वतां तत्संग्रहादिति असाधारणधर्मवतां तैः संग्रहात् तेषु वा संग्रहात् एकान्तव्यावृत्तश्चेति एकान्तो निर्णयः, तद्व्यावृत्तिरभावः, अनेन एकत्र भावे साधनाभावमाह।"विशाला D.ed पृ० १६९ B-१७० A | P. ed. पृ० १९४ ॥ २ अत्र VT. मध्ये 'तद्वतां' इति पाठो भाति ।। ३ तुलना टिपृ० ८४ पं० १३॥ ४ न्यायमुखेऽपि एतदस्ति, तथाहि Prof. Giuseppe Tucci इत्येभिर्विहिते English भाषानुवादे इत्थमुपलभ्यते-Some say: it is logical to admit only four kinds of reasons called inconclusive, because they are in both ways in the affirmative as well as in the negative instances. But how can the cause: because [ sound ] is audible, be an inconclusive one? [I reply: because it is too-narrow [असाधारण]. When [ the predicate of the middle term ] is too narrow it includes all the possible varieties of the predicate to be proved. Therefore it is absolutely a doubtful reason. In fact it is merely included in the subject possessing that particular nature: thus it is deprived of one of the [ neccessary ] aspects of the reason, [ that is it does not reside in any positive instance.] न्यायमुख पृ० ३२-३३ ॥ ५°प्रायाच्च शक्यते भा०। प्रायोत्वशक्यते य० ॥६पृ. ६५३ पं० १४ पृ० ६५० पं० २५॥ ७* *एतचिह्नान्तर्गतो भिचार इत्यत आरभ्य सम्बन्धदौष्कर्यस्यों इत्यन्तः पाठो य. प्रतौ नास्ति ॥ ८सदपि भा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403