Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 318
________________ ६६४ न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे इदमपि चात्र 'अन्वयव्यतिरेको शब्दस्यार्थाभिधाने द्वारम्' इत्युक्त्वा पुनरन्वयस्य निराकरणं तत् केनाभिप्रायेणेति न विद्मो यदन्वयविषय एकदेशे निरूप्यते त्वया वृक्ष इत्यवृक्षो न भवतीत्यवृक्षव्युदासेन । नन्वेवं......... कासावन्वय इति सर्ववृक्षार्थदर्शनासम्भवात् । 5 लिङ्गयेकदेशसम्भविलिङ्गवत्तु न स्वार्थांशमात्रे सम्भवति प्रत्यक्षवृक्ष[मूलादिभेदानन्त्ये सम्बन्धाशक्यत्वे प्रतिपत्त्यभावात्। अवृक्षव्यवच्छिन्नस्यापि खार्थस्य नानुमानाय नाभिधानाय स्याद् वृक्षशब्दः, पक्षः । असाधारणधर्मत्वादिति हेतुः । असाधारणधर्मत्वं सपक्षासपक्षयोरदृष्टत्वात् तद् व्याचष्टे-'यो ह्यसाधारणः पक्षधर्म इत्यादि यावदेकान्तव्यावृत्तेश्चेति तद्व्याख्यया गतार्थम् । 10 किश्चान्यत्-इदमपि चात्रेत्यादि । अन्वयस्य निर्मूलनीतत्वाद् यद् अन्वय-व्यतिरेको शब्दस्यार्थाभिधाने द्वारम् इत्युक्त्वा पुनरन्वयस्य निराकरणं तद् भवतः केनाभिप्रायेणेति न विद्मः । किमज्ञानाद् अस्मद्बुद्धिपरिभवाद् इहपरलोकाभ्यामयशसश्चाभीरुत्वात् ? इति । कतमदन्वयनिराकरणमिति चेत् , उच्यतेयदन्वयविषय एकदेशे निरूप्यते त्वया वृक्ष इत्यवृक्षो न भवतीत्यवृक्षव्युदासेन । कथं पुनरनेनान्वयो निराक्रियत इति चेद् ब्रूमः-नन्वेवमित्यादि यावत् वासावन्वय इति इति 15 भावना गतार्था । तत्र कारणमाह-सर्ववृक्षार्थदर्शनासम्भवात् , भेदानन्त्याच्चासम्भव उक्तः । स्वार्थदेश४३४-१ व्याप्यन्वयो नास्तीति चोक्तो गुणसमुदायमात्रत्वात् गुणभूतेषु चावयवेध्वसत्त्वं दर्शनस्योक्तं त्वयैव । तस्मादन्वयाभावेऽनुमानानुमेयसम्बन्धाभावादनुमानानुपपत्तिवदभिधानाभिधेयभावस्यानुपपत्तिरिति । स्यान्मतम्-लिङ्गथेकदेशसम्भविलिङ्गवदभिधेयैकदेशसम्भव्यभिधानदर्शनादस्त्यन्वयोऽभिधानं चेति । अत्रोच्यते तदप्यभ्युपेत्य-लिङ्गयेकदेशेत्यादि । लिङ्गिनामग्नीनामेकदेशेऽनावेकस्मिन् सम्भवतो धूमस्य 20 लिङ्गस्याग्नेर्गमकत्ववत् तु न स्वार्थांशमात्र सम्भवतीति शब्दादभिधेयप्रतिपत्तिर्न भवितुमर्हति । प्रत्यक्षवृक्षेत्यादि, 'अयं वृक्षः' इति प्रत्यक्षस्यापि मूलादिमतः साक्षादुपलभ्यमानस्य संज्ञाव्युत्पत्तिकाले सम्बन्धकरणं नास्ति । शिंशपादिभेदानन्त्य जातिशब्दस्य भेदैरनन्तैः सम्बन्धाशक्यत्वे प्रतिपत्त्यभाववंदेकांशेऽपि स्वार्थाख्ये मूलादि-कोटरादि-हस्व-दीर्घ-तनु-विशालादिभेदानन्ये सम्बन्धाशक्यत्वं क्वचिददृष्टत्वात् , किमङ्ग पुनरत्यन्तपरोक्षस्वर्गादिशब्दस्वार्थांशमात्रेऽपि, तद्वदेवाप्रतिपत्तेः ? नो चेद् धवखदिराद्यनन्तभेदाभिधानं 25 वृक्षशब्दस्य स्याददृष्टस्वार्थांशत्वात् । अनानिष्टापादनसाधनम्-अवृक्षव्यवच्छिन्नस्यापि स्वार्थस्य नानुमानाय नाभिधानाय स्याद् ४३४-२ वृक्षशब्दः न प्रभवतीत्यर्थः । तदेकदेशवर्तित्वात् , * स्वार्थस्य धर्मिणः पक्षस्यानुमेयस्य अभिधेयस्य एकदेशे वर्तितुं शीलमस्य धर्मः साधु वा वृत्तिरस्येति तदेकदेशवर्ती । किमुक्तं भवति ? अव्यापिपक्षधर्मत्वात् * १ बाह्यसाधारणः प्र० ॥ २ पृ० ६५२ पं० २ ॥ ३ तुलना पृ० ४५९-२॥ ४ कासाबंधय इति भा० । कासासंबंधय इति य०॥ ५°संभवव्यभिधान प्र० । (संभवेऽप्यभिधान° ?)॥ ६ स्वार्थासमात्र प्र०॥ ७ वदेकशेपि भा० । वदेकस्वोपि य० । वदेकदेशेऽपि' इत्यपि भवेत् पाठः ॥ ८ * * एतच्चिदान्तर्गतः पाठः प्रतिषु द्विर्भूतः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403