Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
६७०
न्यायागमानुसारिणीवृत्यलङ्कृतं [अष्टम उभयनियमारे शब्दवत्तु लिङ्गे द्वैलक्षण्यमेव स्यात्, [ पक्ष एव वृत्तत्वात् , असाधारणवत्। एकलक्षणत्वमन्वयव्यतिरेकाभावाद् विरुद्धवत् । सपक्षवृत्त्यभावादन्यत्र वृत्त्यसम्भवादन्वयाभावाद् व्यतिरेकव्यापारावकाशाभावादेकलक्षणं वा शब्दवल्लिङ्गमपि। 5 सन्निहिततायामप्यननुमानत्वम् , तावन्तरेणाप्यनुमानत्वोपपत्तेः, साध्यधर्मसाधनव्याप्तिवत् ।
ततस्तयोरकारणत्वादेकलक्षणं शब्दवल्लिङ्गमपि । अनुमानत्वादेकलक्षणत्वाच्च
15
४३८-१
'लिङ्गमपि शब्दवन्न भवति' इत्युपपादयिष्यामीत्यत आह-शब्दवत्तु लिङ्गे द्वैलक्षण्यमेव स्यादित्यादि । प्रथममेव तावदनुमानत्वाच्छब्दवद् द्विलक्षणं लिङ्गमिति साधयति, ततो 'द्विलक्षणत्वाद10 साधारण इत्यादि यदुक्तमनन्तरं शब्दे दोषजातं तत् सर्वं लिङ्गस्य शब्दवदित्येवोक्तक्रमेण ज्ञेयम् ।।
___ एकलक्षणत्वमन्वयव्यतिरेकाभावात् पक्षधर्मत्वमानं विरुद्धवदिति शब्दे यदुक्तं तद् लिङ्गे स्यात् । तद्व्याख्या-सपक्षवृत्त्यभावात् , किमुक्तं भवति ? अन्यत्र वृत्त्यसम्भवात् , पक्षादन्यत्रावृत्तेरित्यर्थः । अत एवान्वयाभावाद् व्यतिरेकव्यापारावकाशाभावः, तस्माद् व्यतिरेकव्यापारावकाशाभावादेकलक्षणं वा शब्दवल्लिङ्गमपि, शब्दस्य चैकलक्षणं प्रोगुक्तं विरुद्धवदन्वयव्यतिरेकाभावादिति ।
सन्निहित]तायामप्यननुमानत्वमर्थप्रतिपत्तावकारणत्वम् , तावन्तरेणाप्यनुमानत्वोपपत्तेः, __ विनापि ताभ्यामर्थगतेस्तयोः सन्निधानमप्यकारणम् । किमिव ? साध्यधर्मसाधनव्याप्तिवत् , यथा 'यत्
कृतकं तदनित्यम्' इति कृतकत्वस्यानित्यत्वेनाविनाभावेन व्याप्तत्वादविनाभाविनोऽनित्यत्वस्य गतिः कृतकत्वादिष्टा, न तु 'यदनित्यं तत् कृतकम्' इत्यनित्यत्वस्य कृतकत्वेनाविनाभाविना, व्याप्तौ सत्यामप्यगतेः
अन्यत्र तदभावे सत्यविवक्षितत्वात् पँयत्नानन्तरीयकत्वादौ त्वन्मतेन यथा तहाप्यन्वयव्यतिरेको सन्नि20 हितावप्यकारणम् , शब्दार्थे तोद्धर्म्यमात्रात् तद्गतेः । तस्मादन्वयव्यतिरेकसन्निधानेऽपि अकारणत्वान्नार्थः शब्दार्थगतौ ताभ्याम् । यथानुमानविचारेऽभिहितम्
प्रतिषेध्याप्रचारेण यस्माद व्याप्तिरपेक्ष्यते ।
लिङ्गस्य लिङ्गिनि व्याप्तिस्तस्मात् सत्यप्यकारणम्॥ [प्र० समु० २।२२३ ] इत्यादिकारिकार्था गमः कार्यः । ॐ ततः किम् ? ततस्तयोरकारणत्वात् पक्षधर्मत्वमात्रकारणत्वादेकलक्षणं शब्दवल्लिङ्गमपि, अनुमानत्वादेकलक्षणत्वाच्च 'विरुद्धोऽपि तेऽनुमानम्' इत्यापन्नम् एकलक्षणत्वाच्छब्दवदभिमतविलक्षणलिङ्गवच्च । माशंकिष्ठा एकलक्षणत्वमसिद्धमित्यत आह स्मारणार्थमुक्तन्यायसिद्धस्यैकलक्षणत्वस्य - उक्तवच्छब्दवदिति ।
१ पृ. ६६८ पं० २॥ २ पृ. ६६८ पं० २,३ ॥ ३ स्याद्व्याख्या य० ॥ ४ लक्षणं शब्द य० ॥ ५ दृश्यतां पृ० ६६८ पं० २॥ ६संनिहितायामप्य भा० । संनिहियामप्य य० ॥ ७ गतेरत्र तदभावे य०॥ ८ प्रति. पन्नान्तरीय प्र० ॥ ९ तात्वर्ण्य भा० । त्वर्य य० ॥ १० दृश्यतां पृ० ४४३-२, ४५८-२॥ ११°रपेहते प्र० । दृश्यतां पृ०४५९-१॥ १२ लिंगल्य लि° भा० । लिगलि य० ॥ १३ नुसमा प्र० ॥ १४ शब्दल्लिंग भा० । शब्दलिंग य॥ १५ लक्षलिंगवत्व य०॥ १६ शंष्टो एक प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403