Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 322
________________ न्यायागमानुसारिणीवृत्त्यलङ्कृतं [ अष्टम उभयनियमारे तद्विषयपक्षधर्मत्वादेव तुल्ये वृत्तिर्वृक्षार्थ इति चेत्, अननुमानं तर्हि शब्दः पक्ष एव वृत्तत्वाद् द्विलक्षणत्वादसाधारणवत्, [ ऐकलक्षणत्वाद्वा अन्वयव्यतिरेकाभावाद् विरुद्धवत् ] तद्विषय मात्रार्थत्वादन्यापोहशब्दार्थत्वस्य । व्यतिरेकस्य स्वार्थासम्भवादपि व्यर्थतैव वा, पक्षमात्रस्याप्यलक्षणत्वात्, अव्यक्तश्रुतिवत् । गुणसमुदायो हि वृक्षाख्योऽर्थ इति वृक्षस्य मूलकोटरायानन्त्ये वाच्यत्वाभावः संवृतिमात्रत्वात् समुदायस्य तदर्थागतेः । तस्मात् तद्वारेणानुमानासम्भव उक्तवत् । तस्मात् तदेकलक्षणतापि नास्ति, कुत एवान्यापोहः tree वृक्षशब्द [ वृक्षार्थवृत्तिः ] तत् कथम् ? गुणसमुदायसंवृत्यर्थत्वात्, सेनाशब्दवत् । ६६८ 10 स्यान्मतम् तद्विषय इत्यादि यावच्चेदिति । स एव वृक्षार्थो विषयः पक्षः, तस्य पक्षस्य धर्मो वृक्षशब्दः, तस्मात् तद्विषयपक्षधर्मत्वादेव तुल्ये वृत्तिर्वृक्षार्थे, तच्च दृष्टम्, 'पक्षस्य धर्मो हेतुः' इत्यनयैवोक्त्या गतत्वाद् विशेषार्थगतिरेवेत्यर्थः । " अत्रोच्यते - अननुमानं तर्हि शब्दः, अनुमानाभास इत्यर्थः, पक्ष एव वृत्तत्वात् तेश्च कारणत्वेनाह, द्विलक्षणत्वादसाधारणवदित्यादि गतार्थं यावत् तद्विषयमात्रार्थत्वादन्यापोहशब्दार्थत्व15 स्येति, स एव विषयस्तद्विषयो वृक्षः, 'तन्मात्रमेव वाच्यम्' इत्युक्तमन्यापोहशब्दार्थत्वम् । अतोऽसाधारणविरुद्धते । किञ्चान्यत्, व्यतिरेकस्य स्वार्थासम्भवादपि व्यर्थतैव वा, अन्यापोहो हि व्यतिरेकमात्रम्, ' न भवति न भवति' इत्यभवन परमार्थत्वादुभयतोऽप्यभाव एव वन्ध्यापुत्रवत्, न स्वार्थः कश्चित्' इत्युक्तम् । तस्माद् वृक्षशब्दस्य व्यर्थतैव पक्षमात्रस्याप्यलक्षणत्वादव्यक्तश्रुतिवत्, यथा म्लेच्छ20 प्रयुक्तशब्दार्थो व्यावृत्तिमात्रार्थत्वात् स्वार्थमात्रस्याप्यलक्षणाद् व्यर्थो "हिस्तमिस्' इत्यादि तथा वृक्षशब्दः स्यादिति तदर्थाभावप्रदर्शनार्थमाह- गुणसमुदायो हीत्यादि । तस्मात् तद्वारेणानुमानासम्भव उक्तवदिति प्रागुक्तं तन्मतमेव स्मारयति, संवृतिसतः सामान्यसमुदायाख्यस्यासत्त्वाद् विशेषाणामृजु-वक्र - निर्विवरकोटरादीनामवाच्यत्वादिति । तस्मात् तदेकलक्षणतापि नास्ति, कुत एव स्वार्थाद्भिन्नस्याभूतस्य प्रतिपत्तिरैन्यस्य यतोऽन्यापोहः सिध्येत् स तु नास्त्यन्यः, तदभावात् तत्प्रतिपत्तिनिश्चयलभ्यप्रतिपत्ति25 लभ्योऽन्यो नास्ति, तत्प्रतिनिश्चयलभ्यो हि तुल्यातुल्यविवा (वे) कात्मेति । ४३७-१ 1 यच्च वृक्षशब्द इत्यादि । वृक्षार्थस्य पक्षस्याभावात् पक्षधर्मत्वाभावो वृक्षशब्दस्येति । तद्भावनाग्रन्थः तत् कथम् इत्यादि यावत् सेनाशब्दवदिति गतार्थः । गुणसमुदायसंवृत्यर्थत्वादिति हेतुः । वृक्ष१ तुलना - पृ० ६७० पं० १४ ॥ २ तुलना - पृ० ६७१ पं० १ ॥ ३ तुलना - पृ० ६७१ पं० १२ ॥ ४ तुलना- पृ० ६७१ पं० ४ ० ६७३ पं० २ ॥ ५ तुलना - पृ० ६७३ पं० ५ ॥ ६ तुलना - " साध्यधर्मो यतो हेतुः " प्र० समु० ३ । ७ । दृश्यतां टिपृ० ७४ पं० ३ टि० ३ ॥ ७ गतिरिवेत्यर्थः प्र० ॥ ८ अननुमाना प्र० ॥ ९ ( तत्र ? ) ॥ १० दृश्यतां पृ० ६७० पं० १ ॥ पं० १४, पृ० ६७१ पं० ३, १६ ( तत्प्रतिनिश्चय ? ) ॥ ११ पृ० ६५५ पं० २, ३ ॥ १२ हिस्तमिश्र य० ॥ पृ० ६७३ पं० १ ॥ १४ तुलना - पृ० ६७१ पं० १४ ॥ १७ स्य भावात् भा० ॥ १३ तुलना- पृ० ६५२ १५ रतस्य भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403