________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[ अष्टम उभयनियमारे
तद्विषयपक्षधर्मत्वादेव तुल्ये वृत्तिर्वृक्षार्थ इति चेत्, अननुमानं तर्हि शब्दः पक्ष एव वृत्तत्वाद् द्विलक्षणत्वादसाधारणवत्, [ ऐकलक्षणत्वाद्वा अन्वयव्यतिरेकाभावाद् विरुद्धवत् ] तद्विषय मात्रार्थत्वादन्यापोहशब्दार्थत्वस्य । व्यतिरेकस्य स्वार्थासम्भवादपि व्यर्थतैव वा, पक्षमात्रस्याप्यलक्षणत्वात्, अव्यक्तश्रुतिवत् । गुणसमुदायो हि वृक्षाख्योऽर्थ इति वृक्षस्य मूलकोटरायानन्त्ये वाच्यत्वाभावः संवृतिमात्रत्वात् समुदायस्य तदर्थागतेः । तस्मात् तद्वारेणानुमानासम्भव उक्तवत् । तस्मात् तदेकलक्षणतापि नास्ति, कुत एवान्यापोहः
tree वृक्षशब्द [ वृक्षार्थवृत्तिः ] तत् कथम् ? गुणसमुदायसंवृत्यर्थत्वात्, सेनाशब्दवत् ।
६६८
10
स्यान्मतम् तद्विषय इत्यादि यावच्चेदिति । स एव वृक्षार्थो विषयः पक्षः, तस्य पक्षस्य धर्मो वृक्षशब्दः, तस्मात् तद्विषयपक्षधर्मत्वादेव तुल्ये वृत्तिर्वृक्षार्थे, तच्च दृष्टम्, 'पक्षस्य धर्मो हेतुः' इत्यनयैवोक्त्या गतत्वाद् विशेषार्थगतिरेवेत्यर्थः ।
"
अत्रोच्यते - अननुमानं तर्हि शब्दः, अनुमानाभास इत्यर्थः, पक्ष एव वृत्तत्वात् तेश्च कारणत्वेनाह, द्विलक्षणत्वादसाधारणवदित्यादि गतार्थं यावत् तद्विषयमात्रार्थत्वादन्यापोहशब्दार्थत्व15 स्येति, स एव विषयस्तद्विषयो वृक्षः, 'तन्मात्रमेव वाच्यम्' इत्युक्तमन्यापोहशब्दार्थत्वम् । अतोऽसाधारणविरुद्धते ।
किञ्चान्यत्, व्यतिरेकस्य स्वार्थासम्भवादपि व्यर्थतैव वा, अन्यापोहो हि व्यतिरेकमात्रम्, ' न भवति न भवति' इत्यभवन परमार्थत्वादुभयतोऽप्यभाव एव वन्ध्यापुत्रवत्, न स्वार्थः कश्चित्' इत्युक्तम् । तस्माद् वृक्षशब्दस्य व्यर्थतैव पक्षमात्रस्याप्यलक्षणत्वादव्यक्तश्रुतिवत्, यथा म्लेच्छ20 प्रयुक्तशब्दार्थो व्यावृत्तिमात्रार्थत्वात् स्वार्थमात्रस्याप्यलक्षणाद् व्यर्थो "हिस्तमिस्' इत्यादि तथा वृक्षशब्दः स्यादिति तदर्थाभावप्रदर्शनार्थमाह- गुणसमुदायो हीत्यादि । तस्मात् तद्वारेणानुमानासम्भव उक्तवदिति प्रागुक्तं तन्मतमेव स्मारयति, संवृतिसतः सामान्यसमुदायाख्यस्यासत्त्वाद् विशेषाणामृजु-वक्र - निर्विवरकोटरादीनामवाच्यत्वादिति । तस्मात् तदेकलक्षणतापि नास्ति, कुत एव स्वार्थाद्भिन्नस्याभूतस्य प्रतिपत्तिरैन्यस्य यतोऽन्यापोहः सिध्येत् स तु नास्त्यन्यः, तदभावात् तत्प्रतिपत्तिनिश्चयलभ्यप्रतिपत्ति25 लभ्योऽन्यो नास्ति, तत्प्रतिनिश्चयलभ्यो हि तुल्यातुल्यविवा (वे) कात्मेति ।
४३७-१
1
यच्च वृक्षशब्द इत्यादि । वृक्षार्थस्य पक्षस्याभावात् पक्षधर्मत्वाभावो वृक्षशब्दस्येति । तद्भावनाग्रन्थः तत् कथम् इत्यादि यावत् सेनाशब्दवदिति गतार्थः । गुणसमुदायसंवृत्यर्थत्वादिति हेतुः । वृक्ष१ तुलना - पृ० ६७० पं० १४ ॥ २ तुलना - पृ० ६७१ पं० १ ॥ ३ तुलना - पृ० ६७१ पं० १२ ॥ ४ तुलना- पृ० ६७१ पं० ४ ० ६७३ पं० २ ॥ ५ तुलना - पृ० ६७३ पं० ५ ॥ ६ तुलना - " साध्यधर्मो यतो हेतुः " प्र० समु० ३ । ७ । दृश्यतां टिपृ० ७४ पं० ३ टि० ३ ॥ ७ गतिरिवेत्यर्थः प्र० ॥ ८ अननुमाना प्र० ॥ ९ ( तत्र ? ) ॥
१० दृश्यतां पृ० ६७० पं० १ ॥ पं० १४, पृ० ६७१ पं० ३, १६ ( तत्प्रतिनिश्चय ? ) ॥
११ पृ० ६५५ पं० २, ३ ॥ १२ हिस्तमिश्र य० ॥ पृ० ६७३ पं० १ ॥ १४ तुलना - पृ० ६७१ पं० १४ ॥ १७ स्य भावात् भा० ॥
१३ तुलना- पृ० ६५२ १५ रतस्य भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org