________________
दिमागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
वृक्षशब्दस्य समुदायार्थवृत्तितैवेति चेत्, न, अभ्युपगतमूलादिसपक्षत्वात् तदतुल्यत्वाद् वृक्षार्थस्य तुल्यातुल्यवृत्त्यवृत्त्यादिवचनवैयर्थ्यमेव । संवृत्तिसत्यत्वाच्च समुदायस्यापि वृक्षवदनर्थत्वात् सेनावनादेरपि व्यर्थत्वमेव ।
रूपादिसत्यत्वप्रतिपादनार्थेऽपि च डित्याधुदाहरणे रूपादिपरस्परव्यावृत्त्याऽन्वयाभावे व्यतिरेकस्याभावात् न किञ्चित् सत्यम् , सजातीयासजातीयव्यावृत्त । खरूपत्वादत्यन्तापूर्वत्वादनिर्देश्यखलक्षणत्वात् । तस्मादतुल्ये पक्ष एव वृत्तिः शब्दस्य । नास्त्येव वार्थे वृत्तिः
___ शास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यते ।
अनागमविकल्पा तु स्वयं विद्योपवर्तते ॥ [वाक्यप० २।२३५] एवं सर्वत्रातुल्ये [पक्ष एव वृत्तेः] लिङ्गवच्छब्दोऽनुमानं न भवति प्रमाणमेव 10 वा न भवति ।
शब्दस्य समुदायार्थवृत्तितैवेति चेत् । स्यान्मतम्-वृक्षशब्दः समुदायेनार्थेनार्थवान् , मूलादीनां च समुदायो वृक्ष उच्यते, तस्मात् समुदायार्थवत्त्वाददोष इति । एतच्च न, अभ्युपगतेत्यादि, अभ्युपगतानां मूलादीनां तदात्मत्वेनैकत्वे संपक्षत्वम् , सपक्षादन्यत्वं पक्षत्वम् , तेनातुल्य[त्व]मन्यत्वं सैपक्षाद् वृक्षार्थस्य, तदतुल्यत्वात् तुल्यातुल्यवृत्त्यवृत्त्यादिवचनवैयर्थ्यमेव । किश्चान्यत् , संवृतिसत्यत्वाञ्च समुदायस्यापि 15 वृक्षवदनर्थत्वात् सेनावनादेरपि व्यर्थत्वमेव । 'अवृक्षो न भवति वृक्षः' इत्यस्य मूलादिस्वरूँपसत्तामात्रत्वेनाप्यतुल्य एव वृत्तिः, रूपादिभेदसमुदायसंवृत्यर्थत्वात् ।
रूपादिसत्त्वादर्थवान् स्यादिति चेत् , तदपि न, रूपादिसत्यत्वप्रतिपादनार्थेऽपि च डित्थाद्यदाहरणे त्वयैव काण-कुण्टादिगुणसमुदायान्वयाभावोक्त्याऽन्यापोहप्रयासे क्रियमाणे रूपादिपरस्परव्यावृत्त्याऽन्वयाभावे व्यतिरेकस्याभावात् 'न भवति न भवति' इत्यभवनपरमार्थत्वाद् न किञ्चित् सत्यम् । तत्कारणमाह- 20 सजातीयासजातीयव्यावृत्तस्वरूपत्वादिति, तत्सत्यस्यापि पुनः क्षणातिपातित्वात् क्षणे क्षणेऽत्यन्तान्यत्वाद् द्वितीयक्षणे तदभावात् कतमद् रूपम् , अत्यन्तापूर्वत्वाद् निर्बीजत्वादनिर्देश्यस्वलक्षणत्वात् ?
स्वलक्षणमनिर्देश्यं रूपमिन्द्रियगोचरः [प्र. समु० १।११?] इति ह्युक्तम् । तस्मादतुल्ये पक्षे सपक्षासपक्षव्यावृत्त्या तत्रैव वृत्तिः शब्दस्य । नास्त्येव वार्थे वृत्तिः, अथवा शब्दस्याप्रामाण्यं प्रतिपन्नमेव त्वया, यस्मादेतत् त्वन्मतानुसार्येव ज्ञापकम्-शास्त्रेषु प्रक्रियाभेदैरित्यादि 25 श्लोको गतार्थः ।
एवं सर्वत्रातुल्य इत्यादि । लिङ्गवच्छब्दोऽनुमानं [ न ] भवति प्रमाणमेव वा न भवतीत्युक्तस्यार्थस्य यथाप्रतिज्ञं प्रतिपादितस्योपसंहारः प्रोक्तार्थक्रमसङ्ग्रहात्मकः ।
१ दृश्यतां पृ० २४२ पं० ३, टिपृ० ७९ ॥ २ सपक्षादन्यत्वं तेनातुल्य भा० ॥ ३ सपक्षाद् वृक्षास्यर्थ तद य० । सपक्षाद् स्यर्थ तद भा० ॥ ४°दयस्यापि प्र० ॥ ५ अवृक्षे इत्यस्य भा०॥ ६ रूपासत्ता यः॥ ७°दायासंवृत्त्य प्र०॥ ८°सत्वा प्र०। (सत्यत्वा?)॥ ९°दायाभावो य०॥ १० दृश्यता पृ. ६०९ टि. ८ पं० १४॥ ११ चाथै प्र०॥ १२ यथाप्रतिज्ञा प्रतिपादित य० । यथाप्रतिपादित भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org