________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
६६७ तत्रैव वृत्तावसपक्षवृत्तिगतदोषापत्तिः । हेत्वपवादनियतव्यवस्थानियमाद् नेति चेत् , न, पक्षसपक्षासपक्षव्यवस्थायां तद्व्यवस्थाभावात् तदसिद्धावसिद्धिः।
__ आपत्त्यनभ्युपगमे त्वन्यापोहान्यथात्वं सपक्षावच्छिन्नस्यापि सपक्षत्वात् सपक्षापक्षेपणक्षीणशक्तेश्च पक्षा[स]पक्षयोर्विशेषं गमयितुं नालम् , साध्यनिर्देशवत्।
किञ्चान्यत् , त्वन्मतवत् तत्रैव वृत्तावसपक्षवृत्तिगतदोषापत्तिः। सपक्षादन्यो वा सपक्षाभावो वा स्यादसपक्षः, स च साध्यधर्मसामान्येन समानोऽर्थः संपक्षः पंक्षादन्यः पक्षाभावोऽपक्ष ए[व] वा सपक्षः । इह तत्रैव वृक्षार्थे वृत्तत्वात् वृक्षशब्दस्त धर्मोऽपि सन विरुद्धोऽसाधारणानैकान्तिको वा स्यात् ।।
हेत्वपवादेत्यादि यावद् नेति चेत् । स्यान्मतम्—स हेतुर्विपरीतोऽस्माद् विरुद्धोऽन्यस्त्वनिश्चितः [प्रै० समु० ३ । २२ ] इति लक्षणात् त्रिलक्षणस्य हेतोरपवादो हेत्वाभासो विरुद्धोऽसाधारणः साधा-10 रणोऽसिद्धो वेति नियमितत्वादस[पक्ष]त्तिगतदोषाभावोऽस्य वृक्षशब्दस्येति । एतच्च न, पक्षसपक्षासपक्ष व्यवस्थायां तव्यवस्थाभावात् , हेतु-हेत्वाभासव्यवस्था पक्ष-सपक्षा-ऽसपक्षव्यवस्थायां सिद्धायां सिध्येत् । ४३६-१ तदसिद्धावसिद्धिः, हेतु-तदाभासव्यवस्थानियमस्य पक्षादिव्यवस्थाश्रयत्वात् । पक्ष एव तावदव्य स्थित 'उभयतोऽप्यभवनपरमार्थत्वात्' इत्युक्तत्वात् । सपक्षस्तु अनन्तरन्यायो नास्ति । असपक्षस्तु स एव पक्षस्त्वन्मताभ्युपगमात् स्यात् सपक्षाभावमात्रत्वात्, इतरथा नैव स्यादुक्तवदेव । तस्माद्धेत्वादिनियमादसपक्ष- 15 वृत्तिगतदोषापत्तिस्तदवस्थैव । आपत्त्यनभ्युपगमे त्वित्यादि । यद्येवमापत्तिदोषं नाभ्युपैषि असपक्षवृत्तिगतं ततोऽन्यापोहान्यथात्वं दोषः, अन्यापोहोऽपि तर्हि अन्याभावात् तदपोहाभावाच्च स्वार्थापोह एव स्यात् । कस्मात् ? सपक्षावच्छिन्नस्यापि सपक्षत्वात् , सपक्षादन्यः पक्षस्ततोऽवच्छिन्नोऽसपक्षो वा स एव संपक्षः ततः पक्षादन्यः । पक्ष एव पक्षादन्यः सपक्षादन्यत्वात् । ततोऽन्यापोहः पक्षापोहः स्वार्थापोह इत्यापन्नः ।
20 किञ्चान्यत्, सपक्षापक्षेपणक्षीणशक्तेश्च, सपक्षादन्योऽसपक्षः पक्ष इत्युक्ते सपक्षव्यावृत्तिमात्रे चरितार्थत्वात् पक्षा[स]पक्षयोर्विशेषं गमयितुं नालं 'पक्ष एवायं नासपक्षः' इति । कस्मात् ? उक्तकारणात् । किमिव ? साध्यनिर्देशवत्, यथा साध्यनिर्देशः प्रतिज्ञा [न्यायसू० १॥१॥३३ ] इत्यक्षपादपक्षलक्षणं सिद्धिनिवृत्तौ चरितार्थत्वात् साध्यविशेषं पक्षमेवीसिद्धहेतु-दृष्टान्तेभ्यो व्यतिरिक्तं न गमयितुमलं विपक्षापक्षेपणक्षीणशक्तित्वात् तथा 'सपक्षादन्योऽसपक्षः' इत्यसपक्षात् पक्षं विशेष्य न गमयितुमलं सामान्य- 25 मात्रवृत्तेः । त्वया तु विशेषवृत्तेः पक्ष एवासपक्षावच्छिन्नवृत्तिरिष्यते, तत्तु न सिध्यतीत्थं न्यायात् ।
१ सपक्षः सपक्षादन्यः य० ॥ २ ‘पक्षादन्यः पक्षाभावोऽपक्ष एव सपक्षः' इत्यपि पाठो भवेत् । 'पक्षादन्यः पक्षाभावोऽपक्षः, पक्ष एवासपक्षः' इत्यपि पाठोऽत्र चिन्त्यः ॥ ३ दृश्यतां टिपृ० ७४ पं० ४-टिपृ० ७५ पं० १॥ ४ द्वत्ति य० ॥ ५ हेतुहेतुत्वाभास य० । हेत्वाभास भा०॥ ६ पृ० ६५५ पं० २ ॥ ७ °न्यायो नास्ति प्र० । (न्यायेन नास्ति ? ) ॥ ८ नाभ्युपैप्यसपक्ष भा० । अभ्युपेत्यसपक्ष य० ॥ ९ सपक्षादन्यः भा० ॥ १० सपक्षः पक्ष इत्युक्ते प्र० ॥ ११ °वासिद्धतुदृष्टान्तेभ्योऽव्यति° प्र० । दृश्यतां पृ० ६१४ टि० १। “ननु साध्यनिर्देशः प्रतिज्ञेत्युक्ते साध्ययोर्हेतुदृष्टान्तयोरपि प्रसङ्गो यथा[s?] नित्यः शब्दश्चाक्षुषत्वात् , नित्यः शब्दोऽस्पर्शत्वाद् बुद्धिवचेति ।"न्यायवार्तिक. ११॥३३॥
४३६-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org