________________
न्यायागमानुसारिणीवृत्यलङ्कृतं [अष्टम उभयनियमारे त्वात् , अपोहस्वार्थवत् । इति कुतोऽन्वयव्यतिरेको कुतो वा पक्षधर्मत्वं कुतस्त्रलक्षण्यं कुतोऽनुमानत्वं शब्दस्य ? * यदि लिङ्गवच्छब्दस्त्रिलक्षणोऽन्यापोहेन स्वार्थ गमयति ततो वृक्षशब्दस्या
वृक्षाव्यवच्छिन्नेषु वृत्तिः स्यात् , अनुमानत्वात् , अन्वयप्रदर्शनार्थप्रयुक्तघटादि5वत् । न तु वृक्षेषु वृत्तिः स्यात् , पक्षत्वाद् वृक्षाणां सपक्षशब्दार्थावच्छिन्नार्थत्वात् कृतकस्येव नित्येषु । तस्मात् तत्तुल्ये नास्ति वृत्तिः शब्दस्य ।
अपोहस्वार्थवदिति 'अवृक्षो न भवति' इत्यवृक्षापोहस्य स्वार्थो मूलादिमाननन्तः कोटरादिभेदेन, तद्वाचित्वे चादोषो दृष्ट एवं भेवादिनोऽप्यानन्येऽपि भेदानामकृतसम्बन्धेऽपि दोषाभावः स्यात् । त्वन्मतस्वार्थेऽपि वा तद्वद् दोष एव स्यादिति कुतस्तुल्यातुल्ययोवृत्त्यवृत्तिभ्यामन्वयव्यतिरेको ? कुतो वा शब्दस्याभिधेयस्य 10 पक्षस्य धर्मत्वं लिङ्गवल्लिङ्गिनः ? कुतस्वैलक्षण्यम् ? कुतोऽनुमानत्वमिति, एवं च शैब्दलिङ्गगतपक्षापक्षसपक्षविसंवादे साधाभावाल्लिङ्गशब्दयोः कुतोऽनुमानत्वं शब्दस्य ? इति ।
__ तद्व्याख्या-यदि लिङ्गवच्छब्द इत्यादि, यदि कृतकत्वादिलिङ्गवच्छब्दस्त्रिलक्षणोऽन्यापोहेन स्वार्थ गमयतीति मन्यसे ततो वृक्षशब्दस्यावृक्षाव्यवच्छिन्नेषु वृक्षाद भिधेयात् स्वार्थांशाख्यादन्यत्रा४३५-२ तुल्ये सपक्षे वृत्तिः स्यात् पक्षधर्माद् वृक्षशब्दादन्यस्यावृक्षशब्दादिवाच्ये तेतो व्यवच्छिन्ने कृतकत्वा15 नित्यत्वाश्रये घटे इव वृत्तिः स्यादनुमानत्वात् अन्वयदर्शनार्थप्रयुक्तघटादिवदिति गतार्थम् । न
तु वृक्षेषु वृत्तिः स्यात्, किं कारणम् ? पक्षत्वाद् वृक्षाणाम् , पक्ष एव वृक्षशब्दाख्यस्य धर्मस्य धर्मिणो वृक्षार्थाः सपक्षादवच्छिन्नाः, तेष्वेव न तु वृत्तिः स्यात्, अनुमानत्वादेव, त्वदभिर्मंताऽवृक्षान्निवृत्तिमात्रं वृक्षता नान्य स्मिन्नपि साध्यधर्मसामान्येन समानेऽर्थे, अतस्त्वदभिमत्या तुल्यत्वं येषु साध्याद् वृक्षाद् भिन्नेषु अर्थान्तरेषु [ तेषु ] वृक्षशब्दस्य वृत्तिर्नास्ति पक्षधर्माभिमतस्य । कस्मात् ? संपक्षशब्दार्था20वच्छिन्नार्थत्वात् । किमिव ? कृतकस्येव नित्येष्विति । तस्मादिति वैधयेण, तस्मात् सपक्षाभावात् तत्तुल्ये नास्ति वृत्तिः शब्दस्य, किं तर्हि ? तत्रैव वृत्तिः । तस्मात् त्रैलक्षण्याभावाद् नानुमानं शब्दः ।
१ वादोषौ प्र० ॥ २१ अत्रेदमवधेयम् । य० प्रतौ शब्दलिङ्गगतपक्षापक्ष इत्यत्र २३० पत्राङ्कः समाप्यते । तदनन्तरं २३४ तमे पत्रे प्रमादात् २३१ इत्यङ्को लिखितः, २३१ तमे २३२ इत्यङ्कः, २३२ तमे २३३ इत्यङ्कः, २३३ तमे तु २३४ इत्यङ्को लिखितः । य. प्रतौ प्रमादादेवं लिखितेष्वप्यशुद्धाङ्केषु तत्रैव पत्राणां वामकोणे शुद्धाङ्का अप्युपन्यस्ताः । पा० प्रतावपि शुद्धाङ्कानुसार्येव पाठः । किन्तु य० प्रतिमवलम्ब्य कैश्चिदन्यलेखकैर्याः प्रतयो लिखितास्तैस्त्वेतदपरिज्ञानादशुद्धाङ्कानुसारेण स्वप्रतयो लिखिता इति २३० पत्रानन्तरम् २३४ तमं पत्रं लिखितमिति तासु भूयान् पाठव्यत्ययः सञ्जातः । अतस्तासु मिष्येते इत्यत आरभ्य 'अत्र'शब्दवाच्यस्याग्निविशिष्टस्य धू इत्यन्तो वक्ष्यमाणः पाठोऽकस्मादत्रापतितः । अतः सर्वथा सोऽसम्बद्धः । अस्माभिस्तु यथा भा० प्रतौ पा. प्रतौ च पाठो दृश्यते यथा च य० प्रतौ शुद्धाङ्केषु पत्रेषु पाठो - लिखितस्तथैवात्रोपन्यस्त इति स एवोपादेयः ॥ ३ पक्षापक्षविसंवादे भा० ॥ ४°शब्दस्यावृक्षादच्छिन्नेषु भा० ।
शब्दस्याव्यवच्छिन्नेषु य० ॥ ५ (ततोऽव्यवच्छिन्ने ? ) ॥ ६ घटादिवदि गतार्थ य० । घटादिति गतार्थ भा० ॥ ७°वच्छिन्नार्थस्तेष्वेव भा०॥ ८°मतवृ य० । मति भा० ॥ ९ समानोर्थतस्त्वदभिमत्या प्र०॥ १० सपक्षधर्मार्थावच्छि य० ॥ ११ तस्यादिति भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org