________________
दिनागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । तदेकदेशवर्तित्वादव्यापिपक्षधर्मत्वात् , अवनस्पतिव्यवच्छिन्न चैतन्यसाधनार्थखापवत् । अशेषपक्षाव्यापि.......। ___ खापोदाहरणनिरपेक्षादृष्टदेशवर्तित्वाभ्युपगमे त्वतुल्येऽपि वृत्तिप्रसङ्गः । तस्मादेव वानन्त्यादकृतसम्बन्धजातिशब्दभेदवाचित्वेऽप्यदोषः, तदर्थांशेऽदृष्ट
समस्तानुमेयावृत्तित्वादित्यर्थः । अवनस्पतिव्यवच्छिन्नचैतन्यसाधनार्थस्वापवत् , यथा 'सचेतना वनस्पतयः' इति प्रतिज्ञायां 'स्वापात्' इति हेतुर्धर्मिणो वनस्पतेरेकदेशे शिरीषादौ वर्तमानोऽपि तालादिषु अवर्तमानो न चैतन्यानुमानाय प्रभवति अव्यापित्वात् , तथा वृक्षशब्दोऽपि अवृक्षव्यावृत्त्यर्थो वृक्षस्वार्थांशवृत्तिर्नानुमानाय नाभिधानाय प्रैभवति । एतत् पुनः स्वार्थांशवृत्त्यभ्युपगत्याऽनिष्टापादनम् । 'नैव वृत्ति. रस्ति' इत्युक्तमेव, वक्ष्यामश्च अनुमानस्यापि स्वार्थाभावम् ।
स्यान्मतम्-साध्याशेषानित्यत्वाव्यापिप्रयत्नानन्तरीयकत्ववदनुमानं स्यात् , वनसत्यव्यापिस्वापवदनु-10 मानाभासः स्यात् ? इति सन्देह इति । एतच्च न, अशेषपक्षाव्यापीत्यादि, प्रयत्नानन्तरीयकं हि सपक्षं न व्याप्नोति, स्वापस्तु पक्षमेव न व्याप्नोतीति परिहारः । वृक्षशब्दो ह्यशेषमवृक्षाद् व्यवच्छिन्नं वृक्षार्थं नामवृक्षं मनुष्यादि स्थापनावृक्षं चित्रादि वास्मन्मतेन साध्यधर्मसामान्येन समानं सपक्षं न तु न व्याप्नोति, नाप्यनुमानेऽत्र दोषः, स्वार्थांशवृत्तित्वादव्यापिपक्षधर्मत्वाद् वनस्पतिचैतन्ये स्वापवदित्युदाहृतम् । तस्माद् 'नानुमानाय स्यादृक्षशब्द इति साधूक्तम् । तत्र कः सम्बन्धः साध्यानित्याव्यापिप्रयत्ना- 15. नन्तरीयकत्वानुमानत्वप्राप्तेरिति ।
स्यान्मतम्-उक्तस्वापदृष्टान्तमनपेक्ष्य वृक्षशब्दो यत्र न दृष्टस्तानपि स्वार्थान्यान् गमयति दृष्टस्वार्थानुमानसाधादंशे दृष्टशक्तित्वादिति । एतच्चायुक्तम् , अपोह्ये वृत्तिप्रसङ्गात् । अत आह-स्वापोदाहरणनिरपेक्षादृष्टदेशवर्तित्वाभ्युपगमे तु अतुल्येऽपि वृत्तिप्रसङ्गः, अतुल्ये साध्यविपक्षे वृत्तिः स्यादवृक्ष घटादौ वृक्षश्रुतेः, अदृष्टदेशवर्तित्वात् , मूलादिमति पलाशादौ स्वार्थांशे वा वृत्तिवत् । तस्मादेव वान-20 न्त्यादकृतसम्बन्धजातिशब्दभेदवाचित्वेऽप्यदोषः, तदर्थाशेऽदृष्टत्वात् , अदृष्टस्वार्थांशत्वादित्यर्थः,
१ तुलना-"ननु चान्योऽप्यस्ति असिद्धः। स च द्विधा । प्रतिज्ञार्थंकदेशासिद्धः, यथा अनित्यः शब्दोऽनित्यत्वात् । अव्यापकासिद्धश्चेति, यथा सचेतनास्तरवः स्वापात् ।”-न्यायप्रवेशकवृत्ति. पृ० २३. । “प्रतिज्ञार्थस्यैकदेशः सन्नसिद्ध इति विग्रहः, प्रतिज्ञार्थस्यासिद्धत्वात् हेतुरपि तदेकदेशः सन्न सिद्ध इत्यर्थः। अव्यापकासिद्ध इति, इह पक्षधर्मो यो न भवति स एवोच्यतेऽसिद्धः। ततोऽसिद्धस्यवेह विचार्यमाणत्वात् पक्षस्य इत्यध्याहृत्य समसनीयम् । यथा पक्षस्य धर्मिरूपस्याव्यापकः सन्नसिद्धोऽव्यापकासिद्ध इति । इह पक्षीकृतेषु तरुषु पत्रसङ्कोचलक्षणः स्वाप एकदेशे न सिद्धः। न हि सर्वे रात्रौ सङ्कोचभाजो न्यग्रोधादावदर्शनात् तस्य किन्तु क्वचिदेवेति ।”-न्यायप्रवेशकवृत्तिपञ्जिका पृ० ५७ ॥ २ यथा चेतना भा० । तुलना-पृ. ४२८ पं. १८ ॥ ३न भवति प्र०॥ ४ त एत्वन प्र०॥ ५मनुष्यादिवत्स्थापनावृक्षं मनुष्यादिस्थापनावृक्षं मनुष्यादिस्थापनावृक्षं चित्रादि चास्म भा०। मनुष्यादिस्थापनावृक्षं ३ चित्रादि वाऽस्म य० ॥ ६नन न य० । अयमपि य० प्रतिपाठो विचारणीयः ॥ ७ पृ० ६६४ पं. ७ ॥ ८ मनुपेक्ष्य प्र० ॥ ९°दन्यानु प्र०॥ १० तानंत्या प्र० । ( चानन्त्या ?)॥ ११ तथादर्थांशे दृष्टत्वात् य० ॥
नय०८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org