________________
६६४
न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे इदमपि चात्र 'अन्वयव्यतिरेको शब्दस्यार्थाभिधाने द्वारम्' इत्युक्त्वा पुनरन्वयस्य निराकरणं तत् केनाभिप्रायेणेति न विद्मो यदन्वयविषय एकदेशे निरूप्यते त्वया वृक्ष इत्यवृक्षो न भवतीत्यवृक्षव्युदासेन ।
नन्वेवं......... कासावन्वय इति सर्ववृक्षार्थदर्शनासम्भवात् । 5 लिङ्गयेकदेशसम्भविलिङ्गवत्तु न स्वार्थांशमात्रे सम्भवति प्रत्यक्षवृक्ष[मूलादिभेदानन्त्ये सम्बन्धाशक्यत्वे प्रतिपत्त्यभावात्।
अवृक्षव्यवच्छिन्नस्यापि खार्थस्य नानुमानाय नाभिधानाय स्याद् वृक्षशब्दः,
पक्षः । असाधारणधर्मत्वादिति हेतुः । असाधारणधर्मत्वं सपक्षासपक्षयोरदृष्टत्वात् तद् व्याचष्टे-'यो
ह्यसाधारणः पक्षधर्म इत्यादि यावदेकान्तव्यावृत्तेश्चेति तद्व्याख्यया गतार्थम् । 10 किश्चान्यत्-इदमपि चात्रेत्यादि । अन्वयस्य निर्मूलनीतत्वाद् यद् अन्वय-व्यतिरेको शब्दस्यार्थाभिधाने द्वारम् इत्युक्त्वा पुनरन्वयस्य निराकरणं तद् भवतः केनाभिप्रायेणेति न विद्मः । किमज्ञानाद् अस्मद्बुद्धिपरिभवाद् इहपरलोकाभ्यामयशसश्चाभीरुत्वात् ? इति । कतमदन्वयनिराकरणमिति चेत् , उच्यतेयदन्वयविषय एकदेशे निरूप्यते त्वया वृक्ष इत्यवृक्षो न भवतीत्यवृक्षव्युदासेन ।
कथं पुनरनेनान्वयो निराक्रियत इति चेद् ब्रूमः-नन्वेवमित्यादि यावत् वासावन्वय इति इति 15 भावना गतार्था । तत्र कारणमाह-सर्ववृक्षार्थदर्शनासम्भवात् , भेदानन्त्याच्चासम्भव उक्तः । स्वार्थदेश४३४-१ व्याप्यन्वयो नास्तीति चोक्तो गुणसमुदायमात्रत्वात् गुणभूतेषु चावयवेध्वसत्त्वं दर्शनस्योक्तं त्वयैव । तस्मादन्वयाभावेऽनुमानानुमेयसम्बन्धाभावादनुमानानुपपत्तिवदभिधानाभिधेयभावस्यानुपपत्तिरिति ।
स्यान्मतम्-लिङ्गथेकदेशसम्भविलिङ्गवदभिधेयैकदेशसम्भव्यभिधानदर्शनादस्त्यन्वयोऽभिधानं चेति । अत्रोच्यते तदप्यभ्युपेत्य-लिङ्गयेकदेशेत्यादि । लिङ्गिनामग्नीनामेकदेशेऽनावेकस्मिन् सम्भवतो धूमस्य 20 लिङ्गस्याग्नेर्गमकत्ववत् तु न स्वार्थांशमात्र सम्भवतीति शब्दादभिधेयप्रतिपत्तिर्न भवितुमर्हति । प्रत्यक्षवृक्षेत्यादि, 'अयं वृक्षः' इति प्रत्यक्षस्यापि मूलादिमतः साक्षादुपलभ्यमानस्य संज्ञाव्युत्पत्तिकाले सम्बन्धकरणं नास्ति । शिंशपादिभेदानन्त्य जातिशब्दस्य भेदैरनन्तैः सम्बन्धाशक्यत्वे प्रतिपत्त्यभाववंदेकांशेऽपि स्वार्थाख्ये मूलादि-कोटरादि-हस्व-दीर्घ-तनु-विशालादिभेदानन्ये सम्बन्धाशक्यत्वं क्वचिददृष्टत्वात् , किमङ्ग
पुनरत्यन्तपरोक्षस्वर्गादिशब्दस्वार्थांशमात्रेऽपि, तद्वदेवाप्रतिपत्तेः ? नो चेद् धवखदिराद्यनन्तभेदाभिधानं 25 वृक्षशब्दस्य स्याददृष्टस्वार्थांशत्वात् ।
अनानिष्टापादनसाधनम्-अवृक्षव्यवच्छिन्नस्यापि स्वार्थस्य नानुमानाय नाभिधानाय स्याद् ४३४-२ वृक्षशब्दः न प्रभवतीत्यर्थः । तदेकदेशवर्तित्वात् , * स्वार्थस्य धर्मिणः पक्षस्यानुमेयस्य अभिधेयस्य एकदेशे वर्तितुं शीलमस्य धर्मः साधु वा वृत्तिरस्येति तदेकदेशवर्ती । किमुक्तं भवति ? अव्यापिपक्षधर्मत्वात् *
१ बाह्यसाधारणः प्र० ॥ २ पृ० ६५२ पं० २ ॥ ३ तुलना पृ० ४५९-२॥ ४ कासाबंधय इति भा० । कासासंबंधय इति य०॥ ५°संभवव्यभिधान प्र० । (संभवेऽप्यभिधान° ?)॥ ६ स्वार्थासमात्र प्र०॥ ७ वदेकशेपि भा० । वदेकस्वोपि य० । वदेकदेशेऽपि' इत्यपि भवेत् पाठः ॥ ८ * * एतच्चिदान्तर्गतः पाठः प्रतिषु द्विर्भूतः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org