Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 320
________________ न्यायागमानुसारिणीवृत्यलङ्कृतं [अष्टम उभयनियमारे त्वात् , अपोहस्वार्थवत् । इति कुतोऽन्वयव्यतिरेको कुतो वा पक्षधर्मत्वं कुतस्त्रलक्षण्यं कुतोऽनुमानत्वं शब्दस्य ? * यदि लिङ्गवच्छब्दस्त्रिलक्षणोऽन्यापोहेन स्वार्थ गमयति ततो वृक्षशब्दस्या वृक्षाव्यवच्छिन्नेषु वृत्तिः स्यात् , अनुमानत्वात् , अन्वयप्रदर्शनार्थप्रयुक्तघटादि5वत् । न तु वृक्षेषु वृत्तिः स्यात् , पक्षत्वाद् वृक्षाणां सपक्षशब्दार्थावच्छिन्नार्थत्वात् कृतकस्येव नित्येषु । तस्मात् तत्तुल्ये नास्ति वृत्तिः शब्दस्य । अपोहस्वार्थवदिति 'अवृक्षो न भवति' इत्यवृक्षापोहस्य स्वार्थो मूलादिमाननन्तः कोटरादिभेदेन, तद्वाचित्वे चादोषो दृष्ट एवं भेवादिनोऽप्यानन्येऽपि भेदानामकृतसम्बन्धेऽपि दोषाभावः स्यात् । त्वन्मतस्वार्थेऽपि वा तद्वद् दोष एव स्यादिति कुतस्तुल्यातुल्ययोवृत्त्यवृत्तिभ्यामन्वयव्यतिरेको ? कुतो वा शब्दस्याभिधेयस्य 10 पक्षस्य धर्मत्वं लिङ्गवल्लिङ्गिनः ? कुतस्वैलक्षण्यम् ? कुतोऽनुमानत्वमिति, एवं च शैब्दलिङ्गगतपक्षापक्षसपक्षविसंवादे साधाभावाल्लिङ्गशब्दयोः कुतोऽनुमानत्वं शब्दस्य ? इति । __ तद्व्याख्या-यदि लिङ्गवच्छब्द इत्यादि, यदि कृतकत्वादिलिङ्गवच्छब्दस्त्रिलक्षणोऽन्यापोहेन स्वार्थ गमयतीति मन्यसे ततो वृक्षशब्दस्यावृक्षाव्यवच्छिन्नेषु वृक्षाद भिधेयात् स्वार्थांशाख्यादन्यत्रा४३५-२ तुल्ये सपक्षे वृत्तिः स्यात् पक्षधर्माद् वृक्षशब्दादन्यस्यावृक्षशब्दादिवाच्ये तेतो व्यवच्छिन्ने कृतकत्वा15 नित्यत्वाश्रये घटे इव वृत्तिः स्यादनुमानत्वात् अन्वयदर्शनार्थप्रयुक्तघटादिवदिति गतार्थम् । न तु वृक्षेषु वृत्तिः स्यात्, किं कारणम् ? पक्षत्वाद् वृक्षाणाम् , पक्ष एव वृक्षशब्दाख्यस्य धर्मस्य धर्मिणो वृक्षार्थाः सपक्षादवच्छिन्नाः, तेष्वेव न तु वृत्तिः स्यात्, अनुमानत्वादेव, त्वदभिर्मंताऽवृक्षान्निवृत्तिमात्रं वृक्षता नान्य स्मिन्नपि साध्यधर्मसामान्येन समानेऽर्थे, अतस्त्वदभिमत्या तुल्यत्वं येषु साध्याद् वृक्षाद् भिन्नेषु अर्थान्तरेषु [ तेषु ] वृक्षशब्दस्य वृत्तिर्नास्ति पक्षधर्माभिमतस्य । कस्मात् ? संपक्षशब्दार्था20वच्छिन्नार्थत्वात् । किमिव ? कृतकस्येव नित्येष्विति । तस्मादिति वैधयेण, तस्मात् सपक्षाभावात् तत्तुल्ये नास्ति वृत्तिः शब्दस्य, किं तर्हि ? तत्रैव वृत्तिः । तस्मात् त्रैलक्षण्याभावाद् नानुमानं शब्दः । १ वादोषौ प्र० ॥ २१ अत्रेदमवधेयम् । य० प्रतौ शब्दलिङ्गगतपक्षापक्ष इत्यत्र २३० पत्राङ्कः समाप्यते । तदनन्तरं २३४ तमे पत्रे प्रमादात् २३१ इत्यङ्को लिखितः, २३१ तमे २३२ इत्यङ्कः, २३२ तमे २३३ इत्यङ्कः, २३३ तमे तु २३४ इत्यङ्को लिखितः । य. प्रतौ प्रमादादेवं लिखितेष्वप्यशुद्धाङ्केषु तत्रैव पत्राणां वामकोणे शुद्धाङ्का अप्युपन्यस्ताः । पा० प्रतावपि शुद्धाङ्कानुसार्येव पाठः । किन्तु य० प्रतिमवलम्ब्य कैश्चिदन्यलेखकैर्याः प्रतयो लिखितास्तैस्त्वेतदपरिज्ञानादशुद्धाङ्कानुसारेण स्वप्रतयो लिखिता इति २३० पत्रानन्तरम् २३४ तमं पत्रं लिखितमिति तासु भूयान् पाठव्यत्ययः सञ्जातः । अतस्तासु मिष्येते इत्यत आरभ्य 'अत्र'शब्दवाच्यस्याग्निविशिष्टस्य धू इत्यन्तो वक्ष्यमाणः पाठोऽकस्मादत्रापतितः । अतः सर्वथा सोऽसम्बद्धः । अस्माभिस्तु यथा भा० प्रतौ पा. प्रतौ च पाठो दृश्यते यथा च य० प्रतौ शुद्धाङ्केषु पत्रेषु पाठो - लिखितस्तथैवात्रोपन्यस्त इति स एवोपादेयः ॥ ३ पक्षापक्षविसंवादे भा० ॥ ४°शब्दस्यावृक्षादच्छिन्नेषु भा० । शब्दस्याव्यवच्छिन्नेषु य० ॥ ५ (ततोऽव्यवच्छिन्ने ? ) ॥ ६ घटादिवदि गतार्थ य० । घटादिति गतार्थ भा० ॥ ७°वच्छिन्नार्थस्तेष्वेव भा०॥ ८°मतवृ य० । मति भा० ॥ ९ समानोर्थतस्त्वदभिमत्या प्र०॥ १० सपक्षधर्मार्थावच्छि य० ॥ ११ तस्यादिति भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403