Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 319
________________ दिनागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । तदेकदेशवर्तित्वादव्यापिपक्षधर्मत्वात् , अवनस्पतिव्यवच्छिन्न चैतन्यसाधनार्थखापवत् । अशेषपक्षाव्यापि.......। ___ खापोदाहरणनिरपेक्षादृष्टदेशवर्तित्वाभ्युपगमे त्वतुल्येऽपि वृत्तिप्रसङ्गः । तस्मादेव वानन्त्यादकृतसम्बन्धजातिशब्दभेदवाचित्वेऽप्यदोषः, तदर्थांशेऽदृष्ट समस्तानुमेयावृत्तित्वादित्यर्थः । अवनस्पतिव्यवच्छिन्नचैतन्यसाधनार्थस्वापवत् , यथा 'सचेतना वनस्पतयः' इति प्रतिज्ञायां 'स्वापात्' इति हेतुर्धर्मिणो वनस्पतेरेकदेशे शिरीषादौ वर्तमानोऽपि तालादिषु अवर्तमानो न चैतन्यानुमानाय प्रभवति अव्यापित्वात् , तथा वृक्षशब्दोऽपि अवृक्षव्यावृत्त्यर्थो वृक्षस्वार्थांशवृत्तिर्नानुमानाय नाभिधानाय प्रैभवति । एतत् पुनः स्वार्थांशवृत्त्यभ्युपगत्याऽनिष्टापादनम् । 'नैव वृत्ति. रस्ति' इत्युक्तमेव, वक्ष्यामश्च अनुमानस्यापि स्वार्थाभावम् । स्यान्मतम्-साध्याशेषानित्यत्वाव्यापिप्रयत्नानन्तरीयकत्ववदनुमानं स्यात् , वनसत्यव्यापिस्वापवदनु-10 मानाभासः स्यात् ? इति सन्देह इति । एतच्च न, अशेषपक्षाव्यापीत्यादि, प्रयत्नानन्तरीयकं हि सपक्षं न व्याप्नोति, स्वापस्तु पक्षमेव न व्याप्नोतीति परिहारः । वृक्षशब्दो ह्यशेषमवृक्षाद् व्यवच्छिन्नं वृक्षार्थं नामवृक्षं मनुष्यादि स्थापनावृक्षं चित्रादि वास्मन्मतेन साध्यधर्मसामान्येन समानं सपक्षं न तु न व्याप्नोति, नाप्यनुमानेऽत्र दोषः, स्वार्थांशवृत्तित्वादव्यापिपक्षधर्मत्वाद् वनस्पतिचैतन्ये स्वापवदित्युदाहृतम् । तस्माद् 'नानुमानाय स्यादृक्षशब्द इति साधूक्तम् । तत्र कः सम्बन्धः साध्यानित्याव्यापिप्रयत्ना- 15. नन्तरीयकत्वानुमानत्वप्राप्तेरिति । स्यान्मतम्-उक्तस्वापदृष्टान्तमनपेक्ष्य वृक्षशब्दो यत्र न दृष्टस्तानपि स्वार्थान्यान् गमयति दृष्टस्वार्थानुमानसाधादंशे दृष्टशक्तित्वादिति । एतच्चायुक्तम् , अपोह्ये वृत्तिप्रसङ्गात् । अत आह-स्वापोदाहरणनिरपेक्षादृष्टदेशवर्तित्वाभ्युपगमे तु अतुल्येऽपि वृत्तिप्रसङ्गः, अतुल्ये साध्यविपक्षे वृत्तिः स्यादवृक्ष घटादौ वृक्षश्रुतेः, अदृष्टदेशवर्तित्वात् , मूलादिमति पलाशादौ स्वार्थांशे वा वृत्तिवत् । तस्मादेव वान-20 न्त्यादकृतसम्बन्धजातिशब्दभेदवाचित्वेऽप्यदोषः, तदर्थाशेऽदृष्टत्वात् , अदृष्टस्वार्थांशत्वादित्यर्थः, १ तुलना-"ननु चान्योऽप्यस्ति असिद्धः। स च द्विधा । प्रतिज्ञार्थंकदेशासिद्धः, यथा अनित्यः शब्दोऽनित्यत्वात् । अव्यापकासिद्धश्चेति, यथा सचेतनास्तरवः स्वापात् ।”-न्यायप्रवेशकवृत्ति. पृ० २३. । “प्रतिज्ञार्थस्यैकदेशः सन्नसिद्ध इति विग्रहः, प्रतिज्ञार्थस्यासिद्धत्वात् हेतुरपि तदेकदेशः सन्न सिद्ध इत्यर्थः। अव्यापकासिद्ध इति, इह पक्षधर्मो यो न भवति स एवोच्यतेऽसिद्धः। ततोऽसिद्धस्यवेह विचार्यमाणत्वात् पक्षस्य इत्यध्याहृत्य समसनीयम् । यथा पक्षस्य धर्मिरूपस्याव्यापकः सन्नसिद्धोऽव्यापकासिद्ध इति । इह पक्षीकृतेषु तरुषु पत्रसङ्कोचलक्षणः स्वाप एकदेशे न सिद्धः। न हि सर्वे रात्रौ सङ्कोचभाजो न्यग्रोधादावदर्शनात् तस्य किन्तु क्वचिदेवेति ।”-न्यायप्रवेशकवृत्तिपञ्जिका पृ० ५७ ॥ २ यथा चेतना भा० । तुलना-पृ. ४२८ पं. १८ ॥ ३न भवति प्र०॥ ४ त एत्वन प्र०॥ ५मनुष्यादिवत्स्थापनावृक्षं मनुष्यादिस्थापनावृक्षं मनुष्यादिस्थापनावृक्षं चित्रादि चास्म भा०। मनुष्यादिस्थापनावृक्षं ३ चित्रादि वाऽस्म य० ॥ ६नन न य० । अयमपि य० प्रतिपाठो विचारणीयः ॥ ७ पृ० ६६४ पं. ७ ॥ ८ मनुपेक्ष्य प्र० ॥ ९°दन्यानु प्र०॥ १० तानंत्या प्र० । ( चानन्त्या ?)॥ ११ तथादर्थांशे दृष्टत्वात् य० ॥ नय०८४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403