Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 311
________________ ६५७ दिनागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । अन्यापोह इति चानन्यापोहो न भवतीत्यपि न परिहार एव, अन्यापोह इत्यनन्याभावापोहो न भवतीति यतोऽर्थान्तरापोहेन स्वार्थापोहे वृत्त्यार्थेऽन्यविशिष्टोऽपोहः । यथा अपोह इत्यनपोहो न भवति तथान्यविशेषणापोह तत्त्वमात्मत्वमपोहमानोऽन्यापोहस्तदपोह एव भवति स्वापोह एव नान्यापोहस्त्वदिष्टः परापोह इत्यर्थः । इतीत्थं स्ववचनविरोधः 'अन्यापोहः' इति वचनात् । तथाभ्युपगमादभ्युपगमविरोधः । लोकविरोधश्चेत्थं । लोके दृष्टत्वात् स्वार्थप्रतीतेः । तथा प्रत्यक्षदर्शनात् प्रत्यक्षविरोधः । अनुमानविरोधश्चैवमनुमानात् । इत्यशेषाः पक्षदोषा आपन्नाः । विधिवादापत्तिश्चैवमिति । एवं तावद् वस्तुनो लक्षणानुसारेण दूषणमुक्तम् । स्यान्मतम्-अन्यापोहशब्दार्थानुसारच्छायामात्रेण परिहरामीति । तद्यथा- अन्यापोह इति च अनन्यापोहो न भवतीति, अन्यविशेषणविशिष्टापोहस्य अनन्यविशेषणविशिष्टापोहः प्रतिपक्षः, स न भवतीत्यर्थः । स चान्योऽन्यस्मात् । अतोऽन्यापोह एवात्रापीति । 10 अत्रोच्यते-इत्यपि न परिहार एव । कस्मात् ? अन्यापोह इति अनन्याभावापोहो न भवतीति यतः अर्थान्तरापोहेन स्वार्थापोहे वृत्त्यार्थेऽन्यविशिष्टोऽपोह इति । किमुक्तं भवति ? अनन्यस्याभावोऽन्यः अन्यस्य वाऽभावोऽनन्यः प्रतिपक्षः । तद्वदपोहस्यानपोहः प्रतिपक्षः अनपोहस्यापोह इति भवति । तं दृष्टान्तत्वेन न्यायं दर्शयति-यथा अपोह इत्यनपोहो न भवतीति, तथान्यविशेषणा-४३०.२ पोहप्रदर्शनार्थमित्यादि दार्टान्तिकम् । किमुक्तं भवति ? यथा 'अपोहः' इत्युक्ते 'अनपोहो न भवति' इति 15 पदार्थे द्वि:प्रेतिषेधप्रकृत्यापादनादपोह एवार्थो भवति तथा अन्यविशेषणविशिष्टस्यापोहस्य प्रदर्शनार्थम् 'अन्यापोहः' इत्युक्तेऽन्यस्याभावोऽनन्यः, सोऽर्थोऽस्येति अँन्याभावार्थोऽन्यशब्दः, तद्भावोऽन्याभावार्थान्यशब्दता, सत्यां च तस्यामन्याभावार्थान्यशब्दतायाम् 'अन्यापोहः' इत्यनन्याभावस्यानन्यापोहस्य तद्व्यावृत्तेः 'अंपोहो न भवति' इत्येषोऽर्थः संवृत्तः । तस्य चेदनन्याभावस्यानन्यस्यापोहो न भवति न तर्हि अनन्यानपोहो न भवति तत्प्रतिपक्षत्वादन्यानपोहस्येति यथा विशेष्यविपक्षव्यावृत्तिस्तथेह एतस्मिन् 20 'अन्यो न भवति' इत्यन्यशब्दार्थे त्वदीये 'अन्यापोहः' इत्य[न]न्याभावस्यापोहो न भवति, वस्यानन्यस्याभावोऽन्योऽनन्याभावः, तस्यापोहो न भवतीत्यन्यापोह एव न भवति, अनन्यापोहः स्वापोह एवेत्यनन्याभावार्थः । स चानिष्टस्ते शब्दानुसारेणापि दोषः प्राप्तः । स्यान्मतम्-'अन्यस्यैवापोहो नानन्यस्य' इत्यवधारणाददोष इति । तच्च न, यस्मात् तत्रापि कोऽन्यः ? 'कोऽनन्यः ? कोऽपोहः ? कोऽनपोहः ? इति विचारणायामनन्याभाव एव उक्तवदनवधारणात् 'अन्यस्यैव नानन्यस्य' इति विधिवादापत्तः 'अनन्यस्यापोह 25 एव नानपोहः' इति स्वस्यापोहानपोहाभ्याम[वधारणा]नवधारणाभ्यां विधिप्रतिषेधादन्यानन्यविचारे च १ दृश्यतां पृ० ६६० पं० १३ ॥२ चानन्यो भा०॥ ३ पृ. ६६० पं० १३ पं० ६५८ पं० १०॥ ४ स्वार्थपोहे य० ॥ ५ प्रतिषेध कृत्या भा० । प्रतिषेधः प्रकृत्या य० । (प्रतिषेधे प्रकृत्या?)॥ ६अन्यान्याभावा भा० ॥ ७ अपोहो भवती य० ॥ ८ अनस्यानपोहो प्र० । 'अन्यस्यानपोहो' इत्यपि पाठोऽत्र विचारणीयः ॥ ९ वृत्त य० ॥ १० अनन्यो भवति य० ॥ ११ कोन्यः य० ॥ १२ °नपोह्यस्याम भा० ॥ नय०८३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403