________________
६५७
दिनागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
अन्यापोह इति चानन्यापोहो न भवतीत्यपि न परिहार एव, अन्यापोह इत्यनन्याभावापोहो न भवतीति यतोऽर्थान्तरापोहेन स्वार्थापोहे वृत्त्यार्थेऽन्यविशिष्टोऽपोहः । यथा अपोह इत्यनपोहो न भवति तथान्यविशेषणापोह
तत्त्वमात्मत्वमपोहमानोऽन्यापोहस्तदपोह एव भवति स्वापोह एव नान्यापोहस्त्वदिष्टः परापोह इत्यर्थः । इतीत्थं स्ववचनविरोधः 'अन्यापोहः' इति वचनात् । तथाभ्युपगमादभ्युपगमविरोधः । लोकविरोधश्चेत्थं । लोके दृष्टत्वात् स्वार्थप्रतीतेः । तथा प्रत्यक्षदर्शनात् प्रत्यक्षविरोधः । अनुमानविरोधश्चैवमनुमानात् । इत्यशेषाः पक्षदोषा आपन्नाः । विधिवादापत्तिश्चैवमिति । एवं तावद् वस्तुनो लक्षणानुसारेण दूषणमुक्तम् ।
स्यान्मतम्-अन्यापोहशब्दार्थानुसारच्छायामात्रेण परिहरामीति । तद्यथा- अन्यापोह इति च अनन्यापोहो न भवतीति, अन्यविशेषणविशिष्टापोहस्य अनन्यविशेषणविशिष्टापोहः प्रतिपक्षः, स न भवतीत्यर्थः । स चान्योऽन्यस्मात् । अतोऽन्यापोह एवात्रापीति ।
10 अत्रोच्यते-इत्यपि न परिहार एव । कस्मात् ? अन्यापोह इति अनन्याभावापोहो न भवतीति यतः अर्थान्तरापोहेन स्वार्थापोहे वृत्त्यार्थेऽन्यविशिष्टोऽपोह इति । किमुक्तं भवति ? अनन्यस्याभावोऽन्यः अन्यस्य वाऽभावोऽनन्यः प्रतिपक्षः । तद्वदपोहस्यानपोहः प्रतिपक्षः अनपोहस्यापोह इति भवति । तं दृष्टान्तत्वेन न्यायं दर्शयति-यथा अपोह इत्यनपोहो न भवतीति, तथान्यविशेषणा-४३०.२ पोहप्रदर्शनार्थमित्यादि दार्टान्तिकम् । किमुक्तं भवति ? यथा 'अपोहः' इत्युक्ते 'अनपोहो न भवति' इति 15 पदार्थे द्वि:प्रेतिषेधप्रकृत्यापादनादपोह एवार्थो भवति तथा अन्यविशेषणविशिष्टस्यापोहस्य प्रदर्शनार्थम् 'अन्यापोहः' इत्युक्तेऽन्यस्याभावोऽनन्यः, सोऽर्थोऽस्येति अँन्याभावार्थोऽन्यशब्दः, तद्भावोऽन्याभावार्थान्यशब्दता, सत्यां च तस्यामन्याभावार्थान्यशब्दतायाम् 'अन्यापोहः' इत्यनन्याभावस्यानन्यापोहस्य तद्व्यावृत्तेः 'अंपोहो न भवति' इत्येषोऽर्थः संवृत्तः । तस्य चेदनन्याभावस्यानन्यस्यापोहो न भवति न तर्हि अनन्यानपोहो न भवति तत्प्रतिपक्षत्वादन्यानपोहस्येति यथा विशेष्यविपक्षव्यावृत्तिस्तथेह एतस्मिन् 20 'अन्यो न भवति' इत्यन्यशब्दार्थे त्वदीये 'अन्यापोहः' इत्य[न]न्याभावस्यापोहो न भवति, वस्यानन्यस्याभावोऽन्योऽनन्याभावः, तस्यापोहो न भवतीत्यन्यापोह एव न भवति, अनन्यापोहः स्वापोह एवेत्यनन्याभावार्थः । स चानिष्टस्ते शब्दानुसारेणापि दोषः प्राप्तः । स्यान्मतम्-'अन्यस्यैवापोहो नानन्यस्य' इत्यवधारणाददोष इति । तच्च न, यस्मात् तत्रापि कोऽन्यः ? 'कोऽनन्यः ? कोऽपोहः ? कोऽनपोहः ? इति विचारणायामनन्याभाव एव उक्तवदनवधारणात् 'अन्यस्यैव नानन्यस्य' इति विधिवादापत्तः 'अनन्यस्यापोह 25 एव नानपोहः' इति स्वस्यापोहानपोहाभ्याम[वधारणा]नवधारणाभ्यां विधिप्रतिषेधादन्यानन्यविचारे च
१ दृश्यतां पृ० ६६० पं० १३ ॥२ चानन्यो भा०॥ ३ पृ. ६६० पं० १३ पं० ६५८ पं० १०॥ ४ स्वार्थपोहे य० ॥ ५ प्रतिषेध कृत्या भा० । प्रतिषेधः प्रकृत्या य० । (प्रतिषेधे प्रकृत्या?)॥ ६अन्यान्याभावा भा० ॥ ७ अपोहो भवती य० ॥ ८ अनस्यानपोहो प्र० । 'अन्यस्यानपोहो' इत्यपि पाठोऽत्र विचारणीयः ॥ ९ वृत्त य० ॥ १० अनन्यो भवति य० ॥ ११ कोन्यः य० ॥ १२ °नपोह्यस्याम भा० ॥
नय०८३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org