________________
न्यायागमानुसारिणीवृत्यलङ्कृतं
[ अष्टम उभयनियमारे
प्रदर्शनार्थमन्यापोह इत्युक्तेऽन्या भावार्थान्यशब्दतायाम् 'अन्यापोह:' इत्यनन्याभावस्यापोहो न भवति । अनन्यापोहः खापोह एव ।
६५८
एवं प्रक्रमेऽपि च न स कश्चिदर्थो भवितेति स्वार्थस्यांशोऽपि न दृश्यत एव । 'अनन्यो न भवति' इत्युच्यमाने उभयतोऽप्यभावादनन्यव्यावृत्तेर भवनपरमार्थछत्वादभूतस्वानन्यत्वाद् वन्ध्यापुत्रवदविषय एव । स च निबन्धनमन्यापोहस्य स्यात् ।
येषामपि चार्थान्तराणामपोहेन स्वार्थाभिधानं तत्र यत् तदर्थान्तरं तत् किं भवदेवापत उताभवत् ? यदि तावद् भवदर्थान्तरं भवति ततस्तच्छन्दोत्पाद्यविज्ञानविषयेऽव्यावृत्त्या सिद्धे विधिवृत्तैकगतिगुरुतरप्रतिपत्त्यात्मके बहुतरविषये विधिवादे प्रतिपन्ने किमपोहेन पुनः क्रियते, अर्थप्रतीतेर्वृत्तत्वात् । तदा त्वर्थापत्त्या
10 विधिप्रसङ्गात् सर्वथान्यापोहे नैर्मूल्यमित्ययमपि न निःसरणोपायः । स्थितमेतत्- 'अनन्याभावस्य अपोहो ४३१-१ न भवतीति यतोऽर्थान्तरापोहेन स्वार्थाभिधाने न स्यात् ।
"एवं प्रक्रमेऽपि चेत्यादि । एवमापादितशब्दार्थन्यायेऽपि च न स कश्चिदित्यादिनापोहनैर्मूल्यमापादयन्नुपसंहरति पूर्वान्यविकल्पदूषावद् विपर्ययेणानन्यविकल्पदूषणं यावदभूतस्वानन्यत्वाद् वन्ध्यापुत्रवदविषय एव, स च निबन्धनमन्यापोहस्य स्यादिति गतार्थम् ।
15 येषामपि चार्थान्तराणामित्यादि । यदप्युक्तम् 'अर्थान्तरापोहेन स्वार्थामिधाने' इति, अर्थान्तराणि अर्थेभ्योऽन्यानि तेषामर्थान्तराणां मध्ये यत् तदर्थान्तरं सोऽर्थादन्योऽर्थः तत् किम् ? इति पूर्ववद् विकल्पद्वयम् । भवदेवार्थान्तरमपोह्यत उताभवत् ? इति प्रश्नः । यदि तावदित्यादि प्रथमविकल्पे दूषणम्, स एव भवन्नर्थोऽर्थान्तरत्वे स्थितः स भवतीति चेदिष्टस्तच्छन्दोत्पाद्य विज्ञानविषयः, तस्य विषयस्य सिद्धत्वात्, तस्मिन्नव्यावृत्त्या सिद्धे सा च प्रतिपत्तिरस्मदिष्टाया विधिर्वृत्तैकगतेर्लघीयस्या 20 एकार्थविषयाया गरीयसी तेषामर्थानां भूयसां प्रतिपत्तिः, स च विधिवाद एव भूयोर्थविषयो गरीयःप्रतिपत्त्यात्मकश्च तस्मिंश्च विधिवृत्तैकगतिगुरुतरप्रतिपत्त्यात्मके बहुतरविषये विधिवादे प्रतिपन्ने किमपोहेन पुनः क्रियते, सर्वार्थविषयस्य 'स एव' इति विधिप्रतिपत्तेः प्रागेव वृत्तत्वात् । त्वमेव बहुतरार्थ विषय शब्द विधिवादी संवृत्तोऽनन्तार्थशब्दवादी चेत्यतः किमपोहकल्पनया क्रियते ? तँदा ह्यर्थापत्त्येत्यादि । स्वार्थश्च विवक्षितोऽर्थः ये चान्येऽर्था अर्थान्तराणि, तदेतदुभयं स्वत एव सिद्धात्मस्वभावं 25 विधिनैव । यत् पुनरत्र 'सन् घटः' इत्युक्ते 'सत्' इत्यनुगमसामान्यज्ञानम् ' असन्नघटश्च न भवति' इति व्यावृत्तिसामान्यज्ञानं च तदुभयमर्थापत्त्या यदि भवति भवतु गुडमाधुर्यवदुपसर्जनीकृतात्मस्वरूपम्, को
४३१-२
१ पृ० ६५७ पं० २ ॥ २ भवतीति भवति भा० ॥ ३ धाने त स्यात् प्र० । न स्यात् पूर्वदोषप्रसङ्ग इत्याशयो भाति । 'स्वार्थाभिधानं ते स्यात्' इत्यपि पाठोऽत्र विचारणीयः ॥ ४ पृ० ६५५,६५९,६६० ॥ ५ पृ० ६५४ पं० १॥ ६ पृ० ६५० पं० ३ ॥ ७ त्रताभ प्र० ॥ ८ पृ० ६५४ पं० २ ॥ ९ वृत्त्यैक'० ( वृत्त्येक ? ) ॥ १० 'भूतोर्थ प्र० ॥ वृत्यैक'० ॥ १२ सर्वार्थविषयस्य विधिवादस्य इत्यर्थो भवेत् । (सर्वार्थविषयस्य स एवेति विधेः प्रतिपत्तेः ? ) ॥ १३ पृ० ६५४ पं० ३ ॥
११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org