________________
६५९
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । खार्थान्तराणां तत्त्वं स्वतः सिद्धमित्यनुगमसामान्यज्ञानं व्यावृत्तिसामान्यज्ञानं च यदि भवति भवतु, असत्योपाधिसत्यशब्दार्थत्वात् ।
___ अथार्थान्तरं न भवति ततोऽनवस्था प्रश्नस्य । अर्थान्तरस्य चोभयविषयत्वात् [तदग्रहे किमिदमर्थान्तरम् ? कुतो वार्थान्तरं न भवतीत्युच्यते ?
एवं तु न स कश्चिदर्थो भविता । उभयतोऽप्यभावप्रसङ्गात् खार्थस्यांशोऽपि । न दृश्यत एव । अर्थान्तरं न भवतीत्युच्यमाने उभयतोऽप्यभावादर्थान्तरव्यावृत्तरभवनपरमार्थत्वादभूतखार्थान्तरत्वाद् वन्ध्यापुत्रवदविषय एव । तच्च निबन्धनमन्यापोहस्य स्थात्।
- अथोच्येत-अर्थान्तरमप्यनर्थान्तरं न भवति । यद्यनर्थान्तरं [न भवति ततोऽर्थान्तरत्वस्यैवानुवदनात् कोऽसावर्थान्तरार्थान्तरत्वतदनर्थान्तरत्वातुल्यः 10 शब्दार्थः ? अर्थान्तरशब्दार्थस्य चानान्तरशब्दार्थाद् भिन्नत्वेर्थान्तरमित्यनर्थान्तरं न भवतीत्यपोहार्थः स्यात् ] अतुल्येऽन्यस्मिन्नवृत्तेः।
__ योऽसौ तदतत्त्वातुल्यः [ स आत्मान्यत्वान्यः सन् 'अर्थान्तरम्' इत्युच्यते । अतुल्यं हि घटस्यार्थान्तरत्वं पटादस्मादर्थान्तरात् । न हि घटस्य पटादितरार्थान्तरत्ववदर्थान्तरत्वम् , पटस्य वा घटादर्थान्तरत्वं घटार्थान्तरत्ववत् । यथोक्तद्विष्ठत्व-18 तुल्यतायामपि तत एव आत्मानन्तरत्वं तत्त्वम् । न हि पटस्य ] तस्मादेव पटाद् घटानान्तर[त्व]वदनान्तरत्वम् ।
नन्वेवं तदप्यर्थान्तरादर्थान्तरम् [एव भवदर्थान्तरं सदनर्थान्तरं भवति ।
20
वारयति ? असत्योपाधिसत्यशब्दार्थत्वात् पूर्ववत् । एवं तावद् भवदर्थान्तरं चेद् भवति तत उक्तो दोषः।
अथार्थान्तरं न भवतीति मन्यसे ततोऽनवस्था प्रश्नस्य पूर्वव्याख्यातान्यशब्दार्थप्रश्नानवस्थानवत् । अर्थान्तरस्य चोभयविषयत्वादित्यादि शेषम् 'अन्यत्वस्य चोभयविषयत्वात्' इत्यादिना तुल्यं यावत् तच्च निबन्धनमन्यापोहस्य स्यादिति ।
अंथोच्येतेत्यादि यावद् न भवतीति पूर्ववदेव पूर्वपक्षः । उत्तरपक्षोऽपि यद्यनर्थान्तरमित्यादि तथैव यावदतुल्येऽन्यस्मिन्नवृत्तेरिति ।
25 योऽसौ तदतत्त्वातुल्य इत्यादि पूर्ववदेव पूर्वपक्षः यावत् तस्मादेव पटाद् घटानान्तरवदनर्थान्तरत्वमिति । तत्रोत्तरपक्षो नन्वेवं तदप्यर्थान्तरादर्थान्तरमित्यादि यावदशेषपक्षविरोधापत्ति
१ पृ० ६५४ ५० ६ ॥ २ तावद्यञ्च य० ॥ ३ अथोच्यतेत्यादि भा० । अथोच्येतेत्यादि य० प्रतौ नास्ति । दृश्यतां पृ० ६५५ पं० ५॥ ४ तुल्येतस्मिन्नवृत्ते भा० ॥ ५ पृ० ६५६ पं० १॥ ६ तदप्यर्थान्तरमित्यादि य० । तुलना-पृ. ६५६ पं०५॥ ७ पत्तिरितीयदक्षर य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org