________________
६६०
न्यायागमानुसारिणीवृत्यलतं [ अष्टम उभयनियमारे तदनन्तरत्वं तत्त्वमपोहमानोर्थान्तरापोहस्तदपोह एव भवतीति ] खवचनाद्यशेषपक्षविरोधापत्तिः । अपरिहारस्तु तुल्याक्षर एव ।
__ एवं तु प्रक्रमे न स कश्चिदर्थो भविता उभयतोऽप्यभावप्रसङ्गादर्थान्तरस्वार्थस्यांशोऽपि दृश्यते न स कश्चित् । कुतः स्वार्थस्यांशेऽपि दर्शनमिष्टं त्वया ? 5 उभयतोऽप्यभावादन्यव्यावृत्तेरभवनपरमार्थत्वादभूतखान्यत्वाद् वन्ध्यापुत्रवदविषय एव । स च निबन्धनमन्यापोहस्य स्यात् ।।
तदभावेऽन्यशब्दार्थार्थान्तरशब्दार्थापोहशब्दार्थस्वार्थशब्दार्थनैर्मूल्यादन्वयव्यतिरेकनैर्मूल्यम् , तन्नैर्मूल्यादन्यापोहार्थनैर्मूल्यम् । ततः स्वार्थस्यांशेऽप्यदर्शनात् क सोऽन्वयः ? के चान्येऽनन्तास्तद्भेदाः ? एकस्मिन्नपि हि श्रुतिसम्बन्धाभाव एव 10 स्वार्थाभावस्योक्तत्वात् । क्लेशेनापि महता न शक्यः सम्बन्ध इत्थमापादयितुम् । अतोऽलं सम्बन्धसौकर्येण वाङ्मात्रसारेण ।।
रितीषदक्षरविपर्यासेन गतार्थः । अपरिहारस्तु तुल्याक्षर एवेति । अत्र 'अर्थान्तरापोह इत्यनर्थान्तरापोहो न भवति' इति पूर्ववत् परेण परिहारेऽभिहिते 'इत्यपि न परिहार एव अन्यापोह इत्यनन्याभावा
पोहो न भवतीति यतः' इत्यादिः स एव ग्रन्थोऽत्रापि तुल्यार्थ इति न 'विशेष्य लिख्यते तथा तु द्रष्टव्य 15 इत्यतिदिश्यते।
__ ऐवं तु प्रक्रमे न स इत्यादिः स एव ग्रन्थस्तुल्यार्थी यावदन्यापोहस्य स्यादिति । विशेषस्तु अर्थान्तरस्वार्थस्यांशोऽपि श्यते न स कश्चित् , कुतः स्वार्थस्यांऽशेऽपि दर्शनमिष्टं त्वयेति ।
__तदित्थं प्रतिपादितमन्यापोहार्थनैर्मूल्यमुपसंह्रियते तदभावेऽन्यशब्दार्थेत्यादिना । नान्यशब्दार्थः, ४३२-१ नार्थान्तरशब्दार्थः, नापोहशब्दार्थः, न स्वार्थशब्दार्थः इति प्रसङ्गानुप्रसङ्गागतानामेषां शब्दार्थानां 20 नैर्मूल्यम् , तन्निर्मूलत्वादन्वयव्यतिरेकयो मूल्यम् , तन्नैर्मूल्यादन्यापोहार्थनैर्मूल्यम् । यदलात् त्वयोच्यते
अन्वयव्यतिरेकौ हि शब्दार्थस्याभिधाने द्वारम् , तौ च तुल्यातुल्ययोवृत्त्यवृत्ती इति, तयोरभावादपोहार्थनैर्मूल्यं स्वार्थस्य च त्वदिष्टस्योक्तत्वात् ।
ततः स्वार्थत्यांशेऽप्यदर्शनात् के सोऽन्वयः? के चान्येऽनन्तास्तद्भेदाः ? तदभावात् किमानन्त्येन कल्पितेन यस्मादेकस्मिन्नपि श्रुतिसम्बन्धाभाव एव, स्वार्थाभावस्योक्तत्वात् । ततश्च यत् त्वया 25 कल्प्यते-स्वार्थस्यांशेऽपि दर्शनाच्छ्रुतेः सम्बन्धसौकर्यम् [प्र. समु० ], क्लेशेनापि महता न शक्यः सम्बन्ध इत्थमापादयितुम् , अतोऽलं सम्बन्धसौकर्येण वाङ्मात्रसारेण महतापि क्लेशेन दुरुपपादेन, त्यज्यता
१°यासेनेन भा० ॥ २ °स्तुस्तुल्याक्षर भा० ॥ ३ पृ० ६५७ पं० १॥ ४ विशिष्य य० ॥ ५ एवं उ प्रक्रमे य० । तुलना-पृ० ६५५ पं० १, पृ० ६५८ पं. ३ ॥ ६ ॐ a एतचिह्नान्तर्गतो दृश्यते इत्यत आरभ्य स्वार्थस्यांशेऽपि इत्यन्तः पाठो य० प्रतौ नास्ति ॥ ७नर्थातरणशब्दार्थो भा०॥ ८शब्दस्यार्थाभिधाने इति सम्यग् भाति । दृश्यतां पृ० ६५२ पं० २॥९क्कासन्वयः भा० । 'क्वासावन्वयः' इत्यपि पाठश्चिन्त्यः, तुलनापृ० ६६४ पं० १४ ॥ १० तद्भावात् भा० ॥ ११ दृश्यतां पृ० ६५० टि० १, पृ० ६५२ पं० १, पृ० ६५३ पं० ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org