________________
दिङ्गागप्रणीता पोहवादनिरासः ] द्वादशारं नयचक्रम् ।
६६१
आस्तां तेsभिचारिता । यत्तूक्तं त्वया - व्यभिचारतः [ प्र० समु० ५२ ] इति । तत्र विधिवादे तदतदात्मक संशयज्ञानस्य प्राप्तत्वात् किमिव न प्राप्तम् ? अत्र तूक्तन्यायेन संशयादि अनास्पदम् । तदतद्भावात्मक भावाभावात्मकशब्दार्थत्वादस्वार्थत्वादन्वयव्यतिरेकविषयत्वासत्वात् ।
अथवा
अदृष्टेरन्यशब्दार्थे स्वार्थस्यांशेऽप्यदर्शनात् ।
श्रुतेः सम्बन्धदौष्कर्यं न नास्ति व्यभिचारिता ॥ तस्य व्याख्या त्वन्मतवदेव । यथोक्तम्-वृक्षशब्दस्यावृक्ष [शब्दस्य वा स्वाभिधेयेषु
मित्यर्थः । एवम् - 'अन्यापोहार्थनैर्मूल्यात् स्वार्थस्यांशेऽप्यदर्शनात् । आस्तां ते शब्दसम्बन्धः' इत्यनेन पादत्रयेण श्लोकस्य ‘अदृष्टेरन्यशब्दार्थे स्वार्थस्यांशेऽपि दर्शनात् । श्रुतेः सम्बन्धसौकर्यम्' इत्येतत् 10
पादत्रयं दूषितम् ।
चतुर्थपादेन यत् त्वयोक्तं न चास्ति व्यभिचारिता इति सा तावदास्तां स्वपक्षगतापोहवादिनस्तवाव्यभिचारिता विप्रकृष्टत्वात् । भेदपक्षे संशयदोषापादनार्थं यत्तूक्तं त्वया - व्यभिचारत इति
छन्दो हि यथा द्रव्ये वर्तते तथा घटादिष्वपीति व्यभिचारात् संशयः स्यात्, नाभिधानम् [प्र० समु० वृ० ] इति । अत्र ब्रूमः -- तत्र विधिवादे स चासश्च विधेय- व्यावत्यौ भावौ, तयोस्तस्या - 15 तस्य च भावस्य सम्भवो यस्यात्मा तद् भवति तदतदात्मकं संशयज्ञानम्, तस्य संशयज्ञानस्य प्राप्त - ४३२-२ त्वात् किमिव न प्राप्तमभिधानं निश्चयो विपर्ययो वाऽनध्यवसायो वा ? सर्वं प्राप्तमित्यर्थः । तत् सर्वं विधवाद एव घटते ।
अत्र तूक्तन्यायेन अन्यापोहार्थनैर्मूल्यात् स्वार्थांशस्याप्यदर्शनात् त्वत्पक्षे संशयाद्यनास्पदम्, आदिग्रहणाद् विपर्यया-नध्यवसाय निर्णया अप्यनास्पदा निर्विषया इत्यर्थः । कस्मात् ? तदतद्भावात्मक - 20 भावाभावात्मकशब्दार्थत्वात्, 'स चासश्च भवन् भावो भवति' इत्युक्तमस्माभिः, तस्याभाव आत्मा यस्य शब्दार्थस्य त्वदभिमतस्य तस्य भावात् तदतद्भावात्मकभावाभावात्मकशब्दार्थत्वात् । तद्व्यक्तिः— अस्वार्थत्वात्, 'न भवति न भवति' इत्युभयतोऽपि अभावविषयत्वात् । तद्व्यक्ति:- अन्वयव्यतिरेकविषयत्वासत्त्वादिति, संशयविपर्ययावपि निर्विषयो विध्यर्थाभावात्, अनध्यवसायोऽपि स्वार्थभावात्मकस्याव्यवसायस्य पर्युदासेना[ऽन ]ध्यवसायोऽध्यवसायादन्य इति भवति, उभयतोऽप्यभावे कुतोऽनध्यवसायः 25 निर्विषयत्वात् खपुष्पवत् ? इति ।
अथवेत्यादि पाठान्तरम् । पूर्वार्द्धं तदेव । तस्य व्याख्या - त्वन्मतवदेव, 'अदर्शनादन्यशब्दार्थे ' इति प्रथमपादार्थस्त्वद्व्याख्यात एव, स्वार्थस्य चांशेऽप्यदर्शनात् त्वन्मतव देवेति द्वितीयपादार्थः ।
5
१ पृ० ६५३ पं० १० ॥ २ पृ० ६५०,६५२,६५३ पं० ७ ॥ ३ 'वपक्षगता अपोहवादिनस्तव' इति पदच्छेदः ॥ ४ प्रमाणसमुच्चयवृत्तौ तु गुणादिष्वपि इति पाठ इति ध्येयम् । दृश्यतां पृ० ६०७ पं० १५ ॥ ५ °यानास्पदम् य० ॥
६ 'पर्युदासेऽनभ्यवसायो' इत्यपि भवेदत्र पाठः ॥
७ पृ० ६५२ पं० १॥
८ वशेऽप्य प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org