________________
४३३-१
६६२
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे सर्वत्र ] दर्शने नास्ति सम्भवः, नापि सर्वत्र लिङ्गिनि सर्व लिङ्गस्य सम्भवोऽग्निधूमादिवत् । यद्यपि क्वचिदस्ति डित्यादिषु सम्भवस्तथापि न तद्वारेणानुमानम्, सर्वात्मनाऽप्रतीतेः । गुणसमुदायो हि डित्थाख्योऽर्थः। न च सर्वे काणकुण्टादयो गुणास्तस्य डित्थशब्दाद् गम्यन्ते । तस्मात् तद्वारेणानुमानासम्भवः [ ] । अनेन यदपि तदेकदेशे दर्शनमिष्टं स्वार्थाशे तदप्यदर्शन5 मेवेत्युक्तं भवति सर्वात्मखदर्शनात् ।
अन्वयानुक्त्युदाहृतेः व्यावृत्त्या डित्थार्थगतेरुदाहरणमेतदिति चेत्, न, तत्प्रतिपत्तिनिर्मूलत्वात् अनवगतपर्युदासकवार्थत्वात् , अविदिते देवदत्ते 'न भवत्यदेवदत्तः' इति वचनवत् ।
एवं च शब्दस्यार्थाभावाद् यः सम्बन्धाशक्यत्वं दोषः पूर्वमुक्तः स इहापि । 10 इति श्रुतेः सम्बन्धदौष्कर्यम् ।
___ तं भावयति-यथोक्तमित्यादि टीकाग्रन्थ एव । वृक्षशब्दस्यावृक्षेत्यादि यावद् दर्शने नास्ति सम्भवः, नापि सर्वत्र लिङ्गिनीत्यादि शब्दस्यानुमानत्वात् सर्वत्रानुमेये दर्शनासम्भवोऽपि अयोगुडाङ्गाराम्याद्यनुमेये धूमादिलिङ्गादर्शनवदिति । अत्र परो ब्रूयात्-ननु डित्थादिस्वाभिधेये सर्वत्र दर्शनमिति,
अत्र त्वयोत्तरं यदुक्तम् यद्यपि क्वचिदित्यादि स एव टीकाग्रन्थो यावर्दैनुमानासम्भव इति वयं 15 त्वन्मतादेव ब्रूमः । अनेनोत्तरवचनेन त्वदीयेन यदपि तदेकदेशे दर्शनमिष्टं स्वार्थांशे तदप्यदर्शनमेवेत्युक्तं
भवति 'कोण-कुण्टादयः सर्वे गुणास्तस्य गुणसमुदायात्मकस्य न गम्यन्ते' इति वचनात् सर्वात्मस्वदर्शनाच्छब्दस्य सर्वात्मनाऽप्रतीतेरुदाहरणेऽभिहितत्वाददर्शनं स्वार्थांशेऽपि समर्थितम् । तत एव चानुमानासम्भव इत्युच्यतेऽस्माभिः, क्वचिददर्शनादिति ।
अत्र ब्रूयास्त्वम्-अन्वयानुयुक्त्युदाहृतेरित्यादि यावदेतदिति चेदिति । एतदुक्तं भवति–'डित्थः 20 इत्यपि 'अडित्थो न भवति' इति व्यावृत्त्या डित्थार्थगतेरन्वयाभावादेव डित्थोदाहरणमिति । एतच्च न,
तत्प्रतिपत्तिनिर्मूलत्वात्, नैतदडित्थव्युदासमात्रमुपपद्यते प्रतिपत्तेरभावप्रसङ्गात् 'न भवति न भवति' इत्युभयतोऽपि अभावमात्रत्वात् , प्रतिपत्तिनिर्मूलत्वं कस्मात् ? अनवगतपर्युदासकस्वार्थत्वात् , अनवगतः पर्युदासो यस्य स्वार्थस्य सोऽनवगतपर्युदासकस्वार्थः, तद्भावादनवगतपर्युदासकस्वार्थकत्वाद् नास्ति प्रतिपत्तेर्बीजम् । दृष्टान्तः–अविदिते देवदत्ते 'न भवति अदेवदत्तः' इति वचनमप्रतिपत्तेरेव कारणं निर्मूल25 त्वात् तथैतदिति ।
तद्भावयति एवं च शब्दस्येत्यादि यावत् स इहापीति । यथा पूर्वमुक्तम्-"आस्तां ते शब्दसम्बन्धः, अर्थाभावात्' इति सम्बन्धाशक्यत्वं दोषः स एव । ततोऽन्यस्य चार्थस्याभावादलब्धात्मकेऽर्थद्वये शब्दस्य केन सहाविनाभावः सम्बन्धः स्यात् ? इति श्रुतेः सम्बन्धदौष्कर्यम् ।
१ तुलना-पृ० ६५२ पं० १२ ॥२ सम्भवेपि प्र० ॥३°नुमेय धूमा प्र० ॥ ४ तुलना-पृ० ६५२ पं० १३ ॥ ५ तुलना-पृ० ४६२-१,४६५-२॥ ६ पृ. ६५२ पं० १४॥ ७सर्वात्मदर्श भा०॥ ८ नाशब्दस्य प्र०॥ ९°त्वादर्शनं भा० । त्वाद्दर्शनं य० ॥ १० 'अन्वयानुक्त्युदाहृते. इति पाठोऽत्र सम्भाव्यते । अन्वयोक्तिरहितमेतदुदाहरणमित्याशयो भाति ॥ ११ इत्यस्य डित्थो न य० ॥ १२ तद्भावानव प्र०॥ १३ स्वात्वाद् भा०॥ १४ तथैववदिति प्र० । (तथैव तदिति ?)॥ १५ पृ० ६५३ पं० ११,२६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org