________________
६५६
न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे योऽसौ तदतत्त्वातुल्यः स आत्मान्यत्वान्यः सन् 'अन्यः' इत्युच्यते । अतुल्यं हि घटस्यान्यत्वं पटादस्मादन्यस्मात् । न हि घटस्य पटादितरान्यत्ववदन्यत्वम्, पटस्य वा घटादन्यत्वं घटान्यत्ववत् । यथोक्तद्विष्ठत्वतुल्यतायामपि तत एवात्मानन्यत्वं तत्त्वम् । न हि घटस्य तस्मादेव घटात् पटानन्यत्ववदनन्यत्वम् । 5 नन्वेवं सोऽपि अन्यस्मादन्य एव भवन्नन्यः सननन्यो भवति । तदनन्यत्वं तत्त्वमपोहमानोऽन्यापोहस्तदपोह एव भवतीति खवचनाद्यशेषपक्षविरोधापत्तिः।
दृश्यते पटादिरपोह्यो घटशब्देन न तथेह कश्चिदनन्यशब्देन भिन्नोऽनन्योऽस्ति यतोऽस्यान्यस्यान्यान्यस्माद् भिन्नस्य पटवदवृत्तिः स्यात्, अन्योन्यापेक्षत्वादन्यत्वस्य, स च नास्तीत्थम् । किश्चान्यत्
अन्यशब्दार्थस्य चेत्यादि अन्यापोहे न्यायं दर्शयति । यदा चान्यशब्दार्थादनन्यशब्दार्थो भिन्नो 10 भवति तस्माच्चान्यशब्दार्थस्तदा 'अन्यः' इत्युक्ते 'अनन्यो न भवति' इत्यपोहार्थो 'विधेर्भिन्नः स्यात् । किं कारणम् ? अतुल्येऽन्यस्मिन्नवृत्तेर्घटपटवत् । न तु अस्ति, अन्यस्यैवान्यस्यानन्यत्वात् । तस्मात् वार्थापोह एव स्यात् ।
.. इतर आह—स्यादेतदेवं यद्यन्य एवान्यत्वे स्थितोऽन्य उच्येत परापेक्षान्यत्वात् अनन्यः स एवान्य इति । किं तर्हि ? स्वापेक्षान्यत्व एव 'अन्यः' इत्युच्यते । तद्भावयितुकाम आह-योऽसावित्यादि यावद् 15 घंटात् पटानन्यत्ववदनन्यत्वमिति । योऽसौ तस्य अन्यस्य अतद्भावेन अतत्त्वेनातुल्य आत्मीयेन स स्वतोऽन्यस्मादेवान्यस्मादात्मान्यत्वान्यः आत्मान्यत्वान्यः सन् 'अन्यः' इत्युच्यते । निदर्शनम्-अतुल्यं हि घटस्यान्यत्वं पटौंदस्मादन्यस्मात् , न हि घटस्येत्यादिना घटान्यत्वस्य पैटान्यत्वेनासङ्करं दर्शयति यौवदितरान्यत्ववदन्यत्वम् , पटस्य वेत्यादिना पटान्यत्वस्य *घटान्यत्वासङ्करं यावद् घटान्यत्ववदिति
भावितार्थम् । एष दृष्टान्तः । 20 अयमर्थोपनयः--यथोक्तद्विष्ठत्वतुल्यतायामपीत्यादि । त्वदुक्ता तद्विष्ठत्वादन्यता
परस्परापेक्षता,* तस्यां तुल्यायामपीतरेतरापेक्षान्यतायां तत एव स्वत एवात्मनोऽनन्यत्वं तत्त्वम् , स ४३०-१ एव घटोऽनन्यः। शेषः पूर्वेण तुल्योऽन्यत्वभावनाग्रन्थेनासङ्करप्रदर्शनग्रन्थः । तस्मादन्यत्वमपि स्वत एव अनन्यत्वमपि तथेति व्यवस्थिते भवत्यन्यापोह इति ।
__ अत्रोच्यन्ते तव दोषाः--नन्वेवमित्यादि यावत् स्ववचनाद्यशेषपक्षविरोधापत्तिरिति । 'ननु 25 इत्यत्रानुज्ञापयति परम् । नन्वित्थं सोऽपि योऽन्यः अन्यस्मादन्यस्वरूपात् स्वत एव सिद्धान्यत्वादन्याख्यादादन्य एव भवन्नन्यः सन्ननन्यो भवति स एव भवति । तस्य अन्यस्य स्वात्मनि व्यवस्थितस्य तदनन्यत्वं
१°शब्देनाभिन्नो प्र०॥ २ न्यस्यानान्यस्माद भा० । न्यस्यानन्यस्माद इत्यपि पाठोऽत्र भवेत् ॥ ३भिन्नपटवभा०॥ ४ नायं प्र० । तुलना-पृ. ६५७ पं० १४ ॥ ५ विधिभिन्नः प्र०॥ ६ दृश्यतां पृ० ६५९ ॥ ७ घटात्पटात्पटानन्यत्ववद भा०॥ ८ स्मादेवादन्यस्मादात्मा य० । (स्मादेवान्यत्वादात्मा° ?) ॥ ९त्माऽन्यत्वान्यः प्र०॥ १० पटाद्यस्माद भा० ॥ ११ पटानत्वेना भा० । पटाननत्वेना य० ॥ १२ ययदितरा भा० । यायदितरा य० । पटादितरा इत्यपि पाठोऽत्र भवेत् ॥ १३ * * * एतचिह्नान्तर्गतः 'टान्यत्वा इत्यादिः क्षता इत्यन्तः पाठो भा० प्रतौ नास्ति ॥ १४ एवात्मानों प्र०॥ १५ दृश्यतां पृ० ६५९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org