Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 312
________________ न्यायागमानुसारिणीवृत्यलङ्कृतं [ अष्टम उभयनियमारे प्रदर्शनार्थमन्यापोह इत्युक्तेऽन्या भावार्थान्यशब्दतायाम् 'अन्यापोह:' इत्यनन्याभावस्यापोहो न भवति । अनन्यापोहः खापोह एव । ६५८ एवं प्रक्रमेऽपि च न स कश्चिदर्थो भवितेति स्वार्थस्यांशोऽपि न दृश्यत एव । 'अनन्यो न भवति' इत्युच्यमाने उभयतोऽप्यभावादनन्यव्यावृत्तेर भवनपरमार्थछत्वादभूतस्वानन्यत्वाद् वन्ध्यापुत्रवदविषय एव । स च निबन्धनमन्यापोहस्य स्यात् । येषामपि चार्थान्तराणामपोहेन स्वार्थाभिधानं तत्र यत् तदर्थान्तरं तत् किं भवदेवापत उताभवत् ? यदि तावद् भवदर्थान्तरं भवति ततस्तच्छन्दोत्पाद्यविज्ञानविषयेऽव्यावृत्त्या सिद्धे विधिवृत्तैकगतिगुरुतरप्रतिपत्त्यात्मके बहुतरविषये विधिवादे प्रतिपन्ने किमपोहेन पुनः क्रियते, अर्थप्रतीतेर्वृत्तत्वात् । तदा त्वर्थापत्त्या 10 विधिप्रसङ्गात् सर्वथान्यापोहे नैर्मूल्यमित्ययमपि न निःसरणोपायः । स्थितमेतत्- 'अनन्याभावस्य अपोहो ४३१-१ न भवतीति यतोऽर्थान्तरापोहेन स्वार्थाभिधाने न स्यात् । "एवं प्रक्रमेऽपि चेत्यादि । एवमापादितशब्दार्थन्यायेऽपि च न स कश्चिदित्यादिनापोहनैर्मूल्यमापादयन्नुपसंहरति पूर्वान्यविकल्पदूषावद् विपर्ययेणानन्यविकल्पदूषणं यावदभूतस्वानन्यत्वाद् वन्ध्यापुत्रवदविषय एव, स च निबन्धनमन्यापोहस्य स्यादिति गतार्थम् । 15 येषामपि चार्थान्तराणामित्यादि । यदप्युक्तम् 'अर्थान्तरापोहेन स्वार्थामिधाने' इति, अर्थान्तराणि अर्थेभ्योऽन्यानि तेषामर्थान्तराणां मध्ये यत् तदर्थान्तरं सोऽर्थादन्योऽर्थः तत् किम् ? इति पूर्ववद् विकल्पद्वयम् । भवदेवार्थान्तरमपोह्यत उताभवत् ? इति प्रश्नः । यदि तावदित्यादि प्रथमविकल्पे दूषणम्, स एव भवन्नर्थोऽर्थान्तरत्वे स्थितः स भवतीति चेदिष्टस्तच्छन्दोत्पाद्य विज्ञानविषयः, तस्य विषयस्य सिद्धत्वात्, तस्मिन्नव्यावृत्त्या सिद्धे सा च प्रतिपत्तिरस्मदिष्टाया विधिर्वृत्तैकगतेर्लघीयस्या 20 एकार्थविषयाया गरीयसी तेषामर्थानां भूयसां प्रतिपत्तिः, स च विधिवाद एव भूयोर्थविषयो गरीयःप्रतिपत्त्यात्मकश्च तस्मिंश्च विधिवृत्तैकगतिगुरुतरप्रतिपत्त्यात्मके बहुतरविषये विधिवादे प्रतिपन्ने किमपोहेन पुनः क्रियते, सर्वार्थविषयस्य 'स एव' इति विधिप्रतिपत्तेः प्रागेव वृत्तत्वात् । त्वमेव बहुतरार्थ विषय शब्द विधिवादी संवृत्तोऽनन्तार्थशब्दवादी चेत्यतः किमपोहकल्पनया क्रियते ? तँदा ह्यर्थापत्त्येत्यादि । स्वार्थश्च विवक्षितोऽर्थः ये चान्येऽर्था अर्थान्तराणि, तदेतदुभयं स्वत एव सिद्धात्मस्वभावं 25 विधिनैव । यत् पुनरत्र 'सन् घटः' इत्युक्ते 'सत्' इत्यनुगमसामान्यज्ञानम् ' असन्नघटश्च न भवति' इति व्यावृत्तिसामान्यज्ञानं च तदुभयमर्थापत्त्या यदि भवति भवतु गुडमाधुर्यवदुपसर्जनीकृतात्मस्वरूपम्, को ४३१-२ १ पृ० ६५७ पं० २ ॥ २ भवतीति भवति भा० ॥ ३ धाने त स्यात् प्र० । न स्यात् पूर्वदोषप्रसङ्ग इत्याशयो भाति । 'स्वार्थाभिधानं ते स्यात्' इत्यपि पाठोऽत्र विचारणीयः ॥ ४ पृ० ६५५,६५९,६६० ॥ ५ पृ० ६५४ पं० १॥ ६ पृ० ६५० पं० ३ ॥ ७ त्रताभ प्र० ॥ ८ पृ० ६५४ पं० २ ॥ ९ वृत्त्यैक'० ( वृत्त्येक ? ) ॥ १० 'भूतोर्थ प्र० ॥ वृत्यैक'० ॥ १२ सर्वार्थविषयस्य विधिवादस्य इत्यर्थो भवेत् । (सर्वार्थविषयस्य स एवेति विधेः प्रतिपत्तेः ? ) ॥ १३ पृ० ६५४ पं० ३ ॥ ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403