Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 310
________________ ६५६ न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे योऽसौ तदतत्त्वातुल्यः स आत्मान्यत्वान्यः सन् 'अन्यः' इत्युच्यते । अतुल्यं हि घटस्यान्यत्वं पटादस्मादन्यस्मात् । न हि घटस्य पटादितरान्यत्ववदन्यत्वम्, पटस्य वा घटादन्यत्वं घटान्यत्ववत् । यथोक्तद्विष्ठत्वतुल्यतायामपि तत एवात्मानन्यत्वं तत्त्वम् । न हि घटस्य तस्मादेव घटात् पटानन्यत्ववदनन्यत्वम् । 5 नन्वेवं सोऽपि अन्यस्मादन्य एव भवन्नन्यः सननन्यो भवति । तदनन्यत्वं तत्त्वमपोहमानोऽन्यापोहस्तदपोह एव भवतीति खवचनाद्यशेषपक्षविरोधापत्तिः। दृश्यते पटादिरपोह्यो घटशब्देन न तथेह कश्चिदनन्यशब्देन भिन्नोऽनन्योऽस्ति यतोऽस्यान्यस्यान्यान्यस्माद् भिन्नस्य पटवदवृत्तिः स्यात्, अन्योन्यापेक्षत्वादन्यत्वस्य, स च नास्तीत्थम् । किश्चान्यत् अन्यशब्दार्थस्य चेत्यादि अन्यापोहे न्यायं दर्शयति । यदा चान्यशब्दार्थादनन्यशब्दार्थो भिन्नो 10 भवति तस्माच्चान्यशब्दार्थस्तदा 'अन्यः' इत्युक्ते 'अनन्यो न भवति' इत्यपोहार्थो 'विधेर्भिन्नः स्यात् । किं कारणम् ? अतुल्येऽन्यस्मिन्नवृत्तेर्घटपटवत् । न तु अस्ति, अन्यस्यैवान्यस्यानन्यत्वात् । तस्मात् वार्थापोह एव स्यात् । .. इतर आह—स्यादेतदेवं यद्यन्य एवान्यत्वे स्थितोऽन्य उच्येत परापेक्षान्यत्वात् अनन्यः स एवान्य इति । किं तर्हि ? स्वापेक्षान्यत्व एव 'अन्यः' इत्युच्यते । तद्भावयितुकाम आह-योऽसावित्यादि यावद् 15 घंटात् पटानन्यत्ववदनन्यत्वमिति । योऽसौ तस्य अन्यस्य अतद्भावेन अतत्त्वेनातुल्य आत्मीयेन स स्वतोऽन्यस्मादेवान्यस्मादात्मान्यत्वान्यः आत्मान्यत्वान्यः सन् 'अन्यः' इत्युच्यते । निदर्शनम्-अतुल्यं हि घटस्यान्यत्वं पटौंदस्मादन्यस्मात् , न हि घटस्येत्यादिना घटान्यत्वस्य पैटान्यत्वेनासङ्करं दर्शयति यौवदितरान्यत्ववदन्यत्वम् , पटस्य वेत्यादिना पटान्यत्वस्य *घटान्यत्वासङ्करं यावद् घटान्यत्ववदिति भावितार्थम् । एष दृष्टान्तः । 20 अयमर्थोपनयः--यथोक्तद्विष्ठत्वतुल्यतायामपीत्यादि । त्वदुक्ता तद्विष्ठत्वादन्यता परस्परापेक्षता,* तस्यां तुल्यायामपीतरेतरापेक्षान्यतायां तत एव स्वत एवात्मनोऽनन्यत्वं तत्त्वम् , स ४३०-१ एव घटोऽनन्यः। शेषः पूर्वेण तुल्योऽन्यत्वभावनाग्रन्थेनासङ्करप्रदर्शनग्रन्थः । तस्मादन्यत्वमपि स्वत एव अनन्यत्वमपि तथेति व्यवस्थिते भवत्यन्यापोह इति । __ अत्रोच्यन्ते तव दोषाः--नन्वेवमित्यादि यावत् स्ववचनाद्यशेषपक्षविरोधापत्तिरिति । 'ननु 25 इत्यत्रानुज्ञापयति परम् । नन्वित्थं सोऽपि योऽन्यः अन्यस्मादन्यस्वरूपात् स्वत एव सिद्धान्यत्वादन्याख्यादादन्य एव भवन्नन्यः सन्ननन्यो भवति स एव भवति । तस्य अन्यस्य स्वात्मनि व्यवस्थितस्य तदनन्यत्वं १°शब्देनाभिन्नो प्र०॥ २ न्यस्यानान्यस्माद भा० । न्यस्यानन्यस्माद इत्यपि पाठोऽत्र भवेत् ॥ ३भिन्नपटवभा०॥ ४ नायं प्र० । तुलना-पृ. ६५७ पं० १४ ॥ ५ विधिभिन्नः प्र०॥ ६ दृश्यतां पृ० ६५९ ॥ ७ घटात्पटात्पटानन्यत्ववद भा०॥ ८ स्मादेवादन्यस्मादात्मा य० । (स्मादेवान्यत्वादात्मा° ?) ॥ ९त्माऽन्यत्वान्यः प्र०॥ १० पटाद्यस्माद भा० ॥ ११ पटानत्वेना भा० । पटाननत्वेना य० ॥ १२ ययदितरा भा० । यायदितरा य० । पटादितरा इत्यपि पाठोऽत्र भवेत् ॥ १३ * * * एतचिह्नान्तर्गतः 'टान्यत्वा इत्यादिः क्षता इत्यन्तः पाठो भा० प्रतौ नास्ति ॥ १४ एवात्मानों प्र०॥ १५ दृश्यतां पृ० ६५९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403