Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम्
एवं तु न स कश्चिदर्थो भविता । उभयतोऽप्यभावप्रसङ्गात् स्वार्थस्यांशोऽपि न दृश्यत एव । 'अन्यो न भवति' इत्युच्यमाने उभयतोऽप्यभावादन्यव्यावृत्तेरभवनपरमार्थत्वादभूतखान्यत्वाद् वन्ध्यापुत्रवदविषय एव । स च निबन्धनमन्यापोहस्य स्यात् ।। ____ अथोच्येत-अन्योऽप्यनन्यो न भवति । यद्यन्य इत्यनन्यो न भवति । ततोऽन्यस्यैवानुवदनात् कोऽसावन्योऽनन्यो नाम अन्यान्यत्वतदनन्यत्वातुल्यः शब्दार्थः ? अन्यशब्दार्थस्य च अनन्यशब्दार्थाद् भिन्नत्वेऽन्य इत्यनन्यो न भवतीत्यपोहार्थः स्यात् , अतुल्येऽन्यस्मिन्नवृत्तेः।
ऐवं त्वित्यादि । इत्थमुक्तन्यायेन न स कश्चिदर्थो भविता न कदाचित् तादृग्विधो भवति, अन्योऽप्यन्यो न भवति सोऽपि स [न] भवतीति उभयतोऽप्यभावप्रसङ्गात् स्वार्थस्यांशोऽपि 10 गन्धोऽपि न दृश्यत एवेति ।
अस्यार्थस्य भावना—'अन्यो न भवति' इत्युच्यमाने किं सम्प्रवृत्तम् ? उभयतोऽपि न भवति, न भवति' इत्यन्यस्य व्यावृत्तिरेव, न कश्चिद् विधिगन्धोऽपीत्यतोऽन्यव्यावृत्तेः हेतोः अभवनमेव परमार्थः, तत्परमार्थत्वादात्मान्यत्वाभावः । ततश्च अभूतस्वान्यत्वाद् वन्ध्यापुत्रवदविषय एव, न हि वन्ध्यापुत्रादिरभावः शब्दार्थो भवितुमर्हति । स च अभावस्तेऽन्यापोहस्य निबन्धन प्राप्तः । 15 ततश्चाप्रतिपत्तिरेव स्याच्छब्दार्थस्य, अत्यन्ताभावनिबन्धनत्वात् , वन्ध्यापुत्राप्रतिपत्तिवत् । एवं तावद् 'यदि स एव भवति, अन्यो न भवति' इति च विकल्पयोर्विधिवादप्रसङ्गोऽन्यापोहनैर्मूल्यं चोक्तौ दोषौ ।
____ अथ तद्दोषद्वयपरिहारार्थम् अथोच्येत-अन्योऽप्यनन्यो न भवति, अन्य इति न स एव भवति नाप्यन्यो न भवति, किं तर्हि ? ततोऽन्यस्मादन्योऽनन्यो न भवति, अन्यापोहशब्दार्थव्यापित्वाद् व्यावृत्त्यैव गमयति, अतो न विधिप्रसङ्गो नाभावमात्रता वेति । अत्रोच्यते-यद्यन्य इति अनन्यो 20 न भवति ततोऽन्यस्यैव अनुवदनादित्यादि यावदतुल्येऽन्यस्मिन्नवृत्तेरित्युत्तरपक्षः । किमुक्तं भवति ? योऽयमन्यः सोऽन्य एव सन् 'अन्यः' उच्यते, स एवानन्य एव, स्वयमेव भवति परमनपेक्ष्येत्यर्थः । ततः किम् ? ततो योऽसावनन्यो नाम सोऽन्य ऐव, स एवान्याख्यः अन्यः सन् 'अनन्यः' इत्युक्तं भवति । तस्मात् तस्यैव अन्यत्वस्य अनन्यशब्देनापि अनुवदनात् कोऽसावन्यः पृथक् ततोऽन्यस्मादनन्यो नाम? नास्तीत्यर्थः । यदि स्यात् परापेक्षः स्यादिति निरूपयति-अन्यान्यत्व-तदनन्यत्वातुल्यः शब्दार्थ इति, अन्यस्मादन्यः अन्यान्यः, तद्भावोऽन्यान्यत्वम् , तस्माद् भिन्नेन अनन्यत्वेनातुल्योऽन्योन्यत्वात कोऽसौ अन्यान्यत्व-तदनन्यत्वातुल्यः शब्दार्थः ? यथा वैधhण 'घटः' इत्युक्ते घटान्यान्य-तदनन्यातुल्यो
१ तुलना ६५९ पृ०॥ २ तुलना पृ० ६५८ ॥ ३ सोऽपि न भवतीति इत्यपि पाठोऽत्र सङ्गच्छते । ४ तुलना-पृ०४३६-२, ४३६-२,४३७-१,४५६-२॥ ५ तुलना पृ० ६५८॥ ६ हारार्थः अथोच्येत प्र.॥ ७ तुलना पृ० ६५९ ॥ ८ तावमात्रा वेति य० ॥ ९ तुलना-पृ० ६५९॥ १० (°न्यत्वस्यैवानु°१) ॥ ११ एव स भा० प्रतौ नास्ति ॥ १२°त्वात्तुल्यः प्र० ॥ १३ °न्योन्यत्वात् प्र०। (न्योऽन्यत्वात् ?) ॥ १४'त्वात्तुल्यः प्र.॥ १५ घटोनान्य प्र०॥.
१४२९-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org