Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
६५४
न्यायागमानुसारिणीवृत्यलङ्कतं [अष्टम उभयनियमारे स किमन्योऽर्थः स एव भवति उतान्यो न भवति ? यदि तावत् स एव भवति ततस्तच्छब्दोत्पाद्यविज्ञानविषयेऽव्यावृत्त्याऽन्याख्येऽर्थे विधिनैव प्रतिपन्ने किमपोहेन क्रियते, अर्थप्रतीतेवृत्तत्वात् । तदा ह्यर्थापत्त्या तदन्ययोरुभयोरपि
तत्त्वं खतः सिद्धम् । तस्मात् स्यादप्यनयोरन्यापोहप्रत्ययः, असत्योपाधिसत्य5 शब्दार्थत्वात्।
___ अथान्यो न भवति ततोऽपि प्रश्नाव्यवस्था । अन्यत्वस्य चोभयविषयत्वात् तदग्रहे कोऽसावन्यः ? कुतो वा अन्यो न भवतीत्युच्यते ?
___ ततो यदिदमुक्तं चोद्यपक्ष एव 'अर्थान्तरापोहेन स्वार्थाभिधाने' इति, अत्र अर्थान्तरं नाम अन्योऽर्थ इति यस्माद् भवति तस्मात् तत् तावद् विचार्यते—स किमन्योऽर्थः स एव भवति 10 विधिनान्याख्योऽर्थ उच्यते उतान्यो न भवतीत्यपोहेन ? इति द्वयी कल्पना स्यात् । तत्र यदि तावद्
मतम्-अन्य इति स एवान्याख्यो भवतीति ततः 'सः' इति शब्देनोत्पाद्यते यद् विज्ञानं तस्य विज्ञानस्य स्वार्थोऽभिधेय एवान्याख्योऽर्थः विषयः संवृत्तः स एव । ततश्च तस्मिन्नव्यावृत्त्याऽन्याख्येऽर्थे विधिनैव प्रतिपन्ने किमपोहेन क्रियते ? नार्थोऽपोहेनेत्यर्थः । कस्मात् ? अर्थप्रतीतेवृत्तत्वात् , अर्थप्रतीत्यर्थो हि
शब्दप्रयोगः, अन्यापोहकल्पना च तदभिधानस्वरूपपरिज्ञानार्था तदर्थप्रतीतौ व्यर्था सा।। 15 अथापि स्यादन्यापोहेन प्रयोजनमित्थं स्याद् नान्यथा । तद्यथा-तदा तस्मिन् विधिनान्यविज्ञान
काले यद्यन्यो भवति ततः स न भवति, अथ स भवति अन्यो न भवतीति अर्थादापन्नं तदन्ययोरुभयोरपि तत्त्वम् । तच्च स्वत एव सिद्धम् । तस्मात् स्यादप्यनयोस्तदन्ययोरन्यापोहप्रत्ययः । स चोपसर्जनो विधिर्न भवितुमर्हति, कस्मात् ? असत्योपाधिसत्यशब्दार्थत्वात् । इत्थमन्यप्रतिपत्तिर्विधिरेव, न व्यावृत्तिः ।
अंथ अन्यो न भवति, अथ मा भूदेष दोष इत्यन्यो न भवतीति तस्याप्यन्याख्यस्यार्थस्य 20 अन्यव्यावृत्तिरेव 'अन्यो न भवति' इति स्यात् स्वरूपम् । ततः किम् ? ततोऽपि प्रश्नाव्यवस्था, सोऽपि योऽन्यो न भवतीत्युच्यमानोऽर्थः किं स एव भवति, उत अन्यो न भवति ? इति पृच्छ्यसे त्वम् । तत्र यदि स एव भवतीति ब्रूयास्त्वं पूर्ववद् विधिरर्थः। अथान्यो न भवति सोऽपि अन्यस्तथा प्रष्टव्यो योऽन्यो न भवतीत्युच्यते ततोऽप्यन्यः प्रष्टव्य इति प्रश्नानवस्था । कस्मात् ? सर्वत्रास्याक्षेपस्य तुल्यत्वा
दुक्तवत् । किश्चान्यत् , अन्यत्वस्य चोभयविषयत्वात् , अन्य इति स उच्यतेऽन्यापेक्षया सोऽपि 25 एतदपेक्षया 'अयमस्मादन्योऽयमस्मादन्यः' इति तयोर्द्वयोरपि स्वरूपतः सिद्धौ द्विष्ठं सदन्यत्वं सिध्यति । ततस्तस्य अन्यत्वस्य उभयविषयत्वात् तदग्रहे कोऽसावन्यः ? तयोरन्याख्ययोविधिरूपेणाग्रहणे कोऽसावन्यो नाम यदपोहादन्यापोहः स्यात् ? कुतो वा 'अन्यो न भवति' इति उच्यते यतोऽस्यान्यस्यान्यत्वं सिध्येत् ? 'यतोऽन्यो योऽन्यः' इत्येतहिष्ठत्वादन्यत्वस्य निर्धार्यमेतदन्यत्वम् , नान्यथा निर्धारयितुं शक्यमित्यभिप्रायः।
.१ पृ० ६५० पं० ३॥ २ तुलना-पृ० ६५८॥ ३त्पद्यते य० । त्पद्यते भा० । तुलना पृ० ६५८ ॥ ४ स्वार्थोभिधेय भा० । (खार्थो विधेय? ) ॥ ५ तुलना-पृ० ६५८ ॥ ६ तुलना पृ० ६५९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403