Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 298
________________ ६४४ ___ न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे यदि तु सोऽप्यपोहपर एव स्यात् ततोऽवृक्षव्यावृत्तिव्यापृतत्वाद् वृक्षभेदं नाक्षिपेद् नानुमन्येत न व्युदस्येत् , अनर्थित्वात् , अवृक्षाभवनवत् । अवृक्षो घटादि........."व्यापार एव नास्ति । यदसौ वृक्षार्थ शिंशपादिभेदात्मकं खार्थमनन्यत्वेनाक्षिपति तस्मात् तेन सह सामानाधिकरण्यं प्रतिपद्यते तद्भवनविध्येकार्थीभावात् । तद्भवनभवनविधिविनाभावे तु न युज्यते भेदाक्षेपाभावात् । भवनविधिविनाभूतं भेदानाक्षेपि न समानाधिकरणं वृक्षः शिंशपेति त्वदभिमतं वस्तु स्यात् , अभवत्त्वात्, वन्ध्यापुत्रवत् । स्यान्मतम्-अत्रापि 'वृक्षः' इति 'अवृक्षो न भवति' इत्यपोह एवोच्यते, न शिंशपायुपहारः, तस्यैव 10"विसंवादस्थानत्वाद् न स्वार्थ इति । अत्रोच्यते-यदि तु सोऽप्यपोहपर एव स्यादित्यादि । यदि तु सोऽपि वृक्षशब्दोऽपोहपर एवाभविष्यत् ततः सोऽवृक्षव्यावृत्तिव्यापृतत्वादू वृक्षभेदं शिंशपादीन्नाक्षिपेत् , आक्षि]पतीति चेष्टं शिंशपादिसामाना धिकरण्यदर्शनात् । तथा नानुमन्येत अनाक्षिप्तत्वात् तमर्थम् , अनुमन्यते तु । न व्युदस्येत् 'अपोह एवं' इत्यभावमात्रार्थत्वात् खपुष्पवत् । वक्ष्यति चोपसंहारे-शून्यमात्रत्वात् किं कः केन कस्माद्वापोहते ? इति । कुतोऽनाक्षेपाननुमत्यव्युदासा इति चेत् , 15 उच्यते-अनर्थित्वात् , अनर्थी हि शिंशपादिना भेदेन वृक्षशब्दः, तस्मान्नाक्षेपादीन कुरुते । किमिव ? अवृक्षाभवनवत् । तद्वयाख्या-अवृक्षो घटादीत्यादिर्गतार्था यावद् व्यापार एव नास्तीति । यदसावित्यादि । विधिवादे त्वस्मत्पक्षे यस्मादसौ वृक्षशब्दो वृक्षार्थ घटादिभ्योऽन्यत्वेन शिंशपादि१२३-१ भेदात्मकं स्वार्थमनन्यत्वेनाक्षिपति तस्मात् तेन सह सामानाधिकरण्यं प्रतिपद्यते-वृक्षः शिंशपेति, तद्भव - विध्येकार्थीभावात् । 20 तद्भवनभवनविधिविनाभावे तु न युज्यते । तत्समानाधिकरणं भवनं भवनमस्य तद्भवनभवनम् , तस्य तद्भवनभवनस्य विधिरात्मलाभः स्थितिराचारः, तेन विनाभावे तद्विरहितत्वे न घटते घटां नोपैति, भवनविधिविनाभूतस्य भेदाक्षेपाभावात् , न ह्यभवतो भेदा आक्षेपकत्वं वास्ति यतः समानाधिकरणता स्यात् । साधनमप्यत्र-भैवनविधिविनाभूतं भेदानाक्षेपि न समानाधिकरणं वृक्षः शिंशपा इति त्वदभिमतं वस्तु स्यात् , अभवत्त्वात्, वन्ध्यापुत्रवत् । अनुपपन्नसामानाधिकरण्यभेदाक्षेपार्नुमति त्वदिष्टं 'वृक्षः 25 शिंशपा' इति पदद्वयाभिधेयम् , अभवत्त्वात् , वन्ध्यापुत्रवत् । १ तुलना-पृ० ६४६ पं० ४॥ २ 'अवृक्षो घटादि, तदभवनस्याप्रस्तुतत्वाद् वृक्षशब्दस्य तत्र व्यापार एव नास्ति तथाऽप्रस्तुतत्वाद् वृक्षभेदाक्षेपे वृक्षशब्दस्य व्यापार एव नास्ति' ईदृशं किमपि मूलं सम्भाव्यते ॥ ३ तस्येव प्र० ॥ ४ (विवादस्थानत्वाद्?)॥ ५ व्यावृत्तत्वाद् प्र०॥ ६ 'वृक्षसेदान्' इत्यपि पाठोऽत्र भवेत् ॥ ७ व्युदस्येवपोह प्र.॥ ८ दृश्यतां पृ. ६४५ पं०४॥ ९ दृश्यतां पृ० ६४६ पं० २३॥ १०°विधिकार्थी प्र०॥ ११ तु प्रयुज्यते तत्समाधिकरणीभवनं प्र०॥ १२ विना अभावे प्र०॥ १३ भवनविधिभूतं प्र० ॥ १४ अभत्वात् य० ॥ १५ दृश्यतां पृ० ६४७ पं० ६॥ १६ पृ. ६४४ पं० २ इत्यत्र निर्दिष्टा अनुमतिरत्राभिप्रेता ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403