Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 297
________________ दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । શરૂ अत एव सामान्यशब्देनापि स एव विशेषार्थः साक्षादव्यवहितवृत्तिना विधिना प्रतीयते । सर्वथा अव्यवहितवृत्तिना विधिना स्वभेदाः समाक्षिप्तास्तद्रूपपरमार्थत्वेनाङ्गाङ्गिभावगत्या। प्रतिषेधव्यापारनिराकाहं विध्यर्थस्य प्रतिपत्ती उपसर्जनत्वेनापोहबुद्धेरुत्पत्तेविधिः प्रधानोऽप्रधानोऽपोहः, यथा शिंशपायुपहारिवृक्षशब्दार्थेऽघटघटा-5 नवतारः। ४२२-१ प्रतीतेः स एवार्थः स्खेनैव रसेन समापतितः प्रतिपादयितुमिष्टश्च किमिति प्रतिक्षिप्यते ? न हि स्वार्थप्रतिक्षेपो युक्तः । किं कारणम् ? दूरमपि गत्वा तेन विना तदगतेः 'घटः' इत्युक्ते 'अघटो न भवति' इति प्रतिषेधद्वयेनार्थान्तरं व्यावापि घट एवावश्यं प्रतिपत्तव्यः, स च कुट एवेति कुटत्वेन विना घटत्वाभावात् कुटत्वस्याप्यविनाभाविनः स्खेनैव रसेन प्रतीयमानत्वादक्लेशेनागतो विधिरेव शब्दार्थः पर्याय इति । 10 'किश्चान्यत् , अत एव अविनाभावात् सामान्यशब्देनापि घटस्य पार्थिवादिना सामान्यसामान्यशब्देन वा द्रव्य-सत्त्वादिना विधीयमानः स एव विशेषार्थो घटाख्यः साक्षादव्यवहितवृत्तिना विधिना प्रतीयते । तानि हि भेदरूपाणि अनेकात्मकस्य वस्तुनः सामान्याद्याकारेणापि गृह्यमाणानि कथं न विधीयन्ते ? सर्वथेत्यादि, तस्मादव्यवहितविधिवृत्तिना शब्देन घटस्यैव स्वभेदाः समाक्षिप्ताः। यथोक्तम्-सद्रव्यपृथिवीमृद्धटादि(भि)सम्बन्धादस्ति द्रव्यं पार्थिवो मार्तिको घट इति घटे सम्प्रत्ययः 15 [ ] इति । तत् कथमिति चेत् , उच्यते-तद्रूपपरमार्थत्वेन, तानि भेदरूपाणि एव सामान्यवदाभासमानानि अविद्यमानान्येव वा सामान्यादिरूपाणि भेदप्रतिपादनपरतया तस्यैव विशेषस्य परमार्थरूपत्वेनाङ्गाङ्गिभावं गतानि, असत्योपाधिसत्यशब्दार्थत्वात् । तथा चाङ्गाङ्गिभावगत्या तद्रूपपरमार्थरूपया अव्यवहितवृत्तिना विधिना स्वभेदाः समाक्षिप्ता इति वर्तते । प्रतिषेधव्यापारनिराकासमित्यादि यावद् घटानवतार इति । योऽपि त्वयान्यापोह इष्टः सोऽपि 20 विधिमन्तरेण न भवति, यस्मात् 'अघटो न भवति' इत्येतेमविवक्षितं द्विःप्रतिषेधमनाहत्यानपेक्ष्य विधिरूपेण विवक्षितविध्यर्थस्य घटस्य प्रतिपत्तौ सत्यामुत्तरकालं भवति, नाप्रतिपत्तौ । तस्यैवं चरितविध्यर्थस्य घटस्य उपसर्जनत्वेनापोहबुद्धेरघटाभावबुद्धेरुत्पत्तेरवश्यात्मा विधिः प्रधानोऽप्रधानोऽपोह इति । ४२२-२ किमिव ? शिंशपायुपहारिवृक्षशब्दार्थे[s]घटघटानवतारवत् , यथा 'वृक्षः' इत्युक्ते शिंशपादिभेदानामन्यतमेन विनार्थवान्न भवति वृक्षशब्द इति शिंशपादि उपहरन्नर्थवान् , तस्मिन् मूलादिमति शिंशपाद्य- 25 वश्यम्भावि विशेषस्वभावेऽर्थे[]घटानवतारः, 'अघटो न भवति' इत्यस्य तु दूरत एव, नैवासौ शब्दार्थो गुडमाधुर्यगतिवदर्थापत्तिलभ्यत्वात् । घटानवतार इत्येव वा पाठः, घटस्य वृक्षार्थेऽवकाशाभाववदनुपात्तावृक्षापोहस्य कोऽवकाश इति । १"शब्दार्थे घटानवतारः' इत्यपि पाठान्तरम् ॥ २ किंचादन्यत एव प्र०॥ ३ तुलना-पृ. ६३९ पं० १७ ॥ ४ उद्धृतमेतत् प्रागपि नयचक्रवृत्तौ पृ० ३३ पं० १० इत्यत्र ॥ ५ तदविव य०॥ ६प्रतिपत्तौ स्यामुत्तरकालं प्र०॥ ७ तस्येवं प्र०। (तस्यैव?)॥ ८रवस्यात्मा य० ॥ ९शब्दार्थ घटाघटानवतारवत' इत्यपि पाठोऽत्र भवेत् ॥ १० भावेर्थघटान प्र० । अत्र "भावेऽर्थे घटानवतारः, 'घटो न भवति' इत्यस्य' इत्यपि पाठः सम्भवेत् ॥ ११ वशाभाव प्र०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403