Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 273
________________ दिनागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । श्रुतगुणगतभेदाभेदत्वादनाक्षेपः । यथा [शुक्लशब्देन मधुरादीनाम् । अत्र च स्वरूपापोहगुणा गुणत्वेनोच्यन्तेऽनुग्राहकत्वापेक्षया, अपोह-गुण-द्रव्याणि च द्रव्यत्वेन अनुग्राह्यत्वापेक्षया। शुक्लशब्दो हि स्वाभिधेयगुणमात्र विशिष्टं द्रव्यमभिदधद् द्रव्ये सतोऽपि मधुरादीन् नैवाक्षिपति, ततश्चातद्भेदत्वम् , एवमिहापि सच्छब्दो हि पूर्वमसन्न भवतीत्यसत्त्वादवच्छिन्नमंशमात्रमभिधाय सत्वद् द्रव्यम-5 भिदधद् नैवाक्षिपति तद्विशेषं तद्विशेषान् वा यत्तत्तद्वत् ] सत्वन्मात्रवदिति सच्छब्दवाच्यार्थाभेदत्वं द्रव्यादीनां घटादीनां वा। वक्ष्यमाणशुक्लदृष्टान्तभावनार्थमाह-श्रुतगुणगतभेदाभेदत्वादनाक्षेपः । श्रुतो गुणो विशेषणं शुक्लसदादि, तद्गता भेदाः शुक्लतरादयो [ द्रव्यादयो ? ] वा, तेषामभेदत्वं तद्वति, अनुवृत्तिपक्षेऽन्यापोहपक्षे वा जातिस्वरूपोपसर्जनमात्रत्वाद् गुणभूतत्वादन्यापोहमात्रोपसर्जनत्वाद् गुणभूतत्वाश्चातद्भेदत्वादनाक्षेपः । 10 कस्य ? ततो जातेरन्यस्यापोहाद्वान्यस्य तद्वत इति । दृष्टान्तः यथेत्यादि उद्घाहितार्थभावनार्थमुदाहरणं पक्षद्वयसाम्यापादनम् । सत्वत्पक्षे शब्दस्वरूपं गुण एव, जाति-गुणौ गुणो द्रव्यं च, द्रव्यं तु द्रव्यमेव, उपकारी गुणः प्रधानं द्रव्यमित्यर्थः । विवक्षावशात्तु प्रतिपाद्यार्थस्य । अपोहपक्षे शब्दस्वरूपं गुण एव, अपोह-गुणौ गुणो द्रव्यं च, द्रव्यं च द्रव्यमेवेति पक्षद्वयेऽपि विशेषणविशेष्यत्वविभागक्रमेण तुल्यदोषत्वापादनेन च सामानाधिकरण्याभावोत्कीर्तनो ग्रन्थो यावत् सत्वन्मात्रवदिति प्रायो गतार्थः । 15 विशेषस्तु विव्रियते-अत्र च स्वरूप-जाति-गुणा गुणत्वेनोच्यन्ते जाति-गुण-द्रव्याणि च द्रव्यत्वेनेति परेणोक्तत्वान्नोच्यते । अत्र च स्वरूपापोहेत्यादि यावदनुग्राह्यत्वापेक्षयेति तत्समानार्थोक्तेः सोऽपि द्रष्टव्यः । एतस्यार्थस्य भावना-शुक्लशब्दो हीत्यादि यावत् ततश्चातद्भेदत्वं शुक्लाभेदत्वमिति सत्वदभिधानपक्षे दोषोत्कीर्तनं निदर्शनत्वेन गतार्थम् । एवमिहापि सच्छब्दो हि पूर्वमसन्न भवतीत्यादि दार्टान्तिकत्वेन ४११-२ सैव परिपाटी तुल्या यावत् सत्वद्रव्यमभिदधदिति नयेनेत्यतः प्रभृति उदकादिना द्रव्यभेदेन सत्वद् 20 गुणरूपादिगुणभेदेन कर्मगमनादिकर्मभेदेन वा सत्वदिति । तं विशेषमिति एकं वापोहवन्तं द्रव्यादिभेदानामन्यतमं तान् विशेषान् वेति सर्वान भेदान् वा 'नैवाक्षिपति' इति वर्तते । व(१)यत्तत्तद्वदिति, 'तिष्ठन्तु तावद् विशेषाणामन्यतमः सर्वे वा, किं तर्हि ? विवक्षितमेकं घटादि वा गुणादिविरहितं तद्वस्तु नैवाक्षिपति नाप्यारातीयं ततो द्रव्यादि वा तद्वद्वस्तु तं विशेष तद्विशेषान् वा, नारातीयानामपि विशेषाणामवि(मि?)धातेति। सत्वन्मात्रवदिति, यथा सत्वान्निराक्रियते सत्वन्मात्रपक्षेऽनाक्षेपस्तथा त्वदिष्टेऽन्यापोह-25 वत्पक्षेऽपि । इति सच्छब्दवाच्यार्थाभेदत्वं द्रव्यादीनां घटादीनां वेति भावितार्थानुसारेणोपसंहारः । १ तुलना पृ० ६०७ पं २७ ॥ २च्चतद्भेदत्वादनापेक्षः प्र०॥ ३ सत्वमात्र प्र.। दृश्यतां पृ० ६१९ पं० २५॥ ४ °जातिगुण गुणत्वेनोच्यते य० । जातिगुणत्वेनोच्यन्ते भा० ॥५ तत्समानोर्थोक्तेःप्र० । 'तत्समानोऽर्थोक्तेः' इत्यपि पाठोत्र भवेत् ॥ ६°दवदिति प्र.॥ ७ (वर्ततेऽत्र यत्तत्तद्वदिति ?)॥ ८ (तिष्ठतु ?)॥ ९ (तद्वद्वस्तु?)॥ १०°याणमपि विशे य० ।याणाम विशे भा० ॥ ११ यथा त्वनिराक्रियते प्र० । 'यथा सत्वान्निराक्रियते' इति पाठोऽत्र सम्माव्यते। सदस्ति अस्येति सत्वान् , यथा स निराक्रियते त्वया सत्वन्मात्रपक्षेऽनाक्षेपात् तथाऽन्यापोहवत्पक्षेऽपीत्याशयो भाति ॥ ११ अत्र 'पक्षेऽनाक्षेपात्तथा' इत्यपि पाठः स्यात् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403